एतदुक्तं भवति - न श्रुतिसङ्कोचमात्रं श्रुत्यर्थपरित्यागे हेतुः, अपि तु पूर्वापरवाक्यैकवाक्यताप्रकरणाभ्यां संवलितः श्रुतिसङ्कोचः । तदिदमुक्तम् -
पूर्वापरयोर्ग्रन्थभागयोर्ब्रह्मैव निर्दिश्यमानमुपलभामहे । इहैव कथमन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमहीति ।
तदनेन वाक्यैकवाक्यता दर्शिता ।
प्रकरणादपि
इति भाष्येण प्रकरणमुक्तम् । यत्खलु पृष्टं तदेव प्रधानं प्रतिवक्तव्यमिति तस्य प्रकरणम् । पृष्टादन्यस्मिंस्तूच्यमाने शास्त्रमप्रमाणं भवेदसम्बद्धप्रलापित्वात् ।
यतु वायुविज्ञानात्क्वचिदमृतत्वमभिहितमापेक्षिकं तदिति ।
'अपपुनर्मृत्युं जयति” इति श्रुत्या ह्यपमृत्योर्विजय उक्तो नतु परममृत्युविजय इत्यापेक्षिकत्वं, तच्च तत्रैव प्रकरणान्तरकरणेन हेतुना । न केवलमपश्रुत्या तदापेक्षिकमपि तु परमात्मानमभिधाय “अतोऽन्यदार्तम्” (बृ. उ. ३ । ४ । २) इति वाय्वादेरार्तत्वाभिधानात् । नह्यार्ताभ्यासादनार्तो भवतीति भावः ॥ ३९ ॥