ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१ ॥
परमेव ब्रह्म इहाकाशशब्दं भवितुमर्हतिकस्मात् ? अर्थान्तरत्वादि व्यपदेशात् । ‘ते यदन्तरा तद्ब्रह्मइति हि नामरूपाभ्यामर्थान्तरभूतमाकाशं व्यपदिशति ब्रह्मणोऽन्यन्नामरूपाभ्यामर्थान्तरं सम्भवति, सर्वस्य विकारजातस्य नामरूपाभ्यामेव व्याकृतत्वात्नामरूपयोरपि निर्वहणं निरङ्कुशं ब्रह्मणोऽन्यत्र सम्भवति, अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति ब्रह्मकर्तृकत्वश्रवणात्ननु जीवस्यापि प्रत्यक्षं नामरूपविषयं निर्वोढृत्वमस्तिबाढमस्तिअभेदस्त्विह विवक्षितःनामरूपनिर्वहणाभिधानादेव स्रष्टृत्वादि ब्रह्मलिङ्गमभिहितं भवतितद्ब्रह्म तदमृतं आत्मा’ (छा. उ. ८ । १४ । १) इति ब्रह्मवादस्य लिङ्गानिआकाशस्तल्लिङ्गात्’ (ब्र. सू. १ । १ । २२) इत्यस्यैवायं प्रपञ्चः ॥ ४१ ॥

एवं प्राप्त उच्यते - परमेवाकाशं ब्रह्म,

कस्मात् , अर्थान्तरत्वादिव्यपदेशात् ।

नामरूपमात्रनिर्वाहकमिहाकाशमुच्यते । भूताकाशं च विकारत्वेन नामरूपान्तःपाति सत् कथमात्मानमुद्वहेत् । नहि सुशिक्षितोऽपि विज्ञानी स्वेन स्कन्धेनात्मानं वोढुमुत्सहते । नच नामरूपश्रुतिरविशेषतः प्रवृत्ता भूताकाशवर्जं नामरूपान्तरे सङ्कोचयितुं सति सम्भवे युज्यते । नच निर्वाहकत्वं निरङ्कुशमवगतं ब्रह्मलिङ्गं कथञ्चित्क्लेशेन परतन्त्रे नेतुमुचितम् “अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि” (छा. उ. ६ । ३ । २) इति च स्रष्टृत्वमतिस्फुटं ब्रह्मलिङ्गमत्र प्रतीयते । ब्रह्मरूपतया च जीवस्य व्याकर्तृत्वे ब्रह्मण एव व्याकर्तृत्वमुक्तम् । एवं च निर्वहितुरेवान्तरालतोपपत्तेरन्यो निर्वहिताऽन्यच्चान्तरालमित्यर्थभेदकल्पनापि न युक्ता । तथा च ते नामरूपे यदन्तरेत्ययमर्थान्तरव्यपदेश उपपन्नो भवत्याकाशस्य । तस्मादर्थान्तरव्यपदेशात् , तथा “तद्ब्रह्म तदमृतम्”(छा. उ. ८ । १४ । १) इति व्यपदेशाद्ब्रह्मैवाकाशमिति सिद्धम् ॥ ४१ ॥