ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१ ॥
आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं आत्मा’ (छा. उ. ८ । १४ । १) इति श्रूयतेतत्किमाकाशशब्दं परं ब्रह्म, किं वा प्रसिद्धमेव भूताकाशमिति विचारेभूतपरिग्रहो युक्तः; आकाशशब्दस्य तस्मिन् रूढत्वात्नामरूपनिर्वहणस्य चावकाशदानद्वारेण तस्मिन्योजयितुं शक्यत्वात्स्रष्टृत्वादेश्च स्पष्टस्य ब्रह्मलिङ्गस्याश्रवणादित्येवं प्राप्ते इदमुच्यते

आकाशोऽर्थान्तरत्वादिव्यपदेशात् ।

यद्यपि “आकाशस्तल्लिङ्गात्” (ब्र. सू. १ । १ । २२) इत्यत्र ब्रह्मलिङ्गदर्शनादाकाशः परमात्मेति व्युत्पादितं, तथापि तद्वदत्र परमात्मलिङ्गदर्शनाभावान्नामरूपनिर्वहणस्य भूताकाशेऽप्यवकाशदानेनोपपत्तेरकस्माच्च रूढिपरित्यागस्यायोगात् , नामरूपे अन्तरा ब्रह्मेति च नाकाशस्य नामरूपयोर्निर्वहितुरन्तरालत्वमाह, अपि तु ब्रह्मणः, तेन भूताकाशो नामरूपयोर्निर्वहिता । ब्रह्म चैतयोरन्तरालं मध्यं सारमिति यावत् । न तु निर्वोढैव ब्रह्म, अन्तरालं वा निर्वाढृ । तस्मात्प्रसिद्धेर्भूताकाशो न तु ब्रह्मेति प्राप्तम् ।