ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
ज्योतिर्दर्शनात् ॥ ४० ॥
परमेव ब्रह्म ज्योतिःशब्दम्कस्मात् ? दर्शनात्तस्य हीह प्रकरणे वक्तव्यत्वेनानुवृत्तिर्दृश्यते; आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यपहतपाप्मत्वादिगुणकस्यात्मनः प्रकरणादावन्वेष्टव्यत्वेन विजिज्ञासितव्यत्वेन प्रतिज्ञानात्एतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छा. उ. ८ । ९ । ३) इति चानुसन्धानात्अशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति चाशरीरतायै ज्योतिःसम्पत्तेरस्याभिधानात्ब्रह्मभावाच्चान्यत्राशरीरतानुपपत्तेः । ‘परं ज्योतिः उत्तमः पुरुषः’ (छा. उ. ८ । १२ । ३) इति विशेषणात्त्तूक्तं मुमुक्षोरादित्यप्राप्तिरभिहितेति, नासावात्यन्तिको मोक्षः, गत्युत्क्रान्तिसम्बन्धात् ह्यात्यन्तिके मोक्षे गत्युत्क्रान्ती स्त इति वक्ष्यामः ॥ ४० ॥
ज्योतिर्दर्शनात् ॥ ४० ॥
परमेव ब्रह्म ज्योतिःशब्दम्कस्मात् ? दर्शनात्तस्य हीह प्रकरणे वक्तव्यत्वेनानुवृत्तिर्दृश्यते; आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यपहतपाप्मत्वादिगुणकस्यात्मनः प्रकरणादावन्वेष्टव्यत्वेन विजिज्ञासितव्यत्वेन प्रतिज्ञानात्एतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छा. उ. ८ । ९ । ३) इति चानुसन्धानात्अशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति चाशरीरतायै ज्योतिःसम्पत्तेरस्याभिधानात्ब्रह्मभावाच्चान्यत्राशरीरतानुपपत्तेः । ‘परं ज्योतिः उत्तमः पुरुषः’ (छा. उ. ८ । १२ । ३) इति विशेषणात्त्तूक्तं मुमुक्षोरादित्यप्राप्तिरभिहितेति, नासावात्यन्तिको मोक्षः, गत्युत्क्रान्तिसम्बन्धात् ह्यात्यन्तिके मोक्षे गत्युत्क्रान्ती स्त इति वक्ष्यामः ॥ ४० ॥

एवं प्राप्तेऽभिधीयते -

परमेव ब्रह्म ज्योतिःशब्दम् । कस्मात् । दर्शनात् । तस्य हीह प्रकरणे अनुवृत्तिर्दृश्यते ।

यत्खलु प्रतिज्ञायते, यच्च मध्ये परामृश्यते, यच्चोपसंह्रियते, स एव प्रधानं प्रकरणार्थः । तदन्तःपातिनस्तु सर्वे तदनुगुणतया नेतव्याः, नतु श्रुत्यनुरोधमात्रेण प्रकरणादपक्रष्टव्या इति हि लोकस्थितिः । अन्यथोपांशुयाजवाक्ये जामितादोषोपक्रमे तत्प्रतिसमाधानोपसंहारे च तदन्तःपातिनो “विष्णुरुपांशु यष्टव्यः” इत्यादयो विधिश्रुत्यनुरोधेन पृथग्विधयः प्रसज्येरन् । तत्किमिदानीं “तिस्र एव साह्नस्योपसदः कार्या द्वादशाहीनस्य” इति प्रकरणानुरोधात्सामुदायप्रसिद्धिबललब्धमहर्गणाभिधानं परित्यज्याहीनशब्दः कथमप्यवयवव्युत्पत्त्या सान्नं ज्योतिष्टोममभिधाय तत्रैव द्वादशोपसत्तां विधत्ताम् । स हि कृत्स्नविधानान्न कुतश्चिदपि हीयते क्रतोरित्यहीनः शक्यो वक्तुम् । मैवम् । अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसीति श्रुत्या प्रकरणबाधनान्न द्वादशोपसत्तामहीनगुणयुक्ते ज्योतिष्टोमे शक्नोति विधातुम् । नाप्यतोऽपकृष्टं सदहर्गणस्य विधत्ते । परप्रकरणेऽन्यधर्मविधेरन्याय्यत्वात् । असम्बद्धपदव्यवायविच्छिन्नस्य प्रकरणस्य पुनरनुसन्धानक्लेशात् । तेनानपकृष्टेनैव द्वादशाहीनस्येतिवाक्येन साह्नस्य तिस्र उसपदः कार्या इति विधिं स्तोतुं द्वादशाहविहिता द्वादशोपसत्ता तत्प्रकृतित्वेन च सर्वाहीनेषु प्राप्ता निवीतादिवदनूद्यते । तस्मादहीनश्रुत्या प्रकरणबाधेऽपि न द्वादशाहीनस्येति वाक्यस्य प्रकरणादपकर्षः । ज्योतिष्टोमप्रकरणाम्नातस्य पूषाद्यनुमन्त्रणमन्त्रस्य यल्लिङ्गबलात्प्रकरणबाधेनापकर्षस्तदगत्या । पौष्णादौ च कर्मणि तस्यार्थवत्त्वात् । इह त्वपकृष्टस्यार्चिरादिमार्गोपदेशे फलस्योपायमार्गप्रतिपादकेऽतिविशदे “एष सम्प्रसादः”(छा. उ. ८ । ३ । ४) इति वाक्यस्याविशदैकदेशमात्रप्रतिपादकस्य निष्प्रयोजनत्वात् । नच द्वादशाहीनस्येतिवद्यथोक्तात्मध्यानसाधनानुष्ठानं स्तोतुमेष सम्प्रसाद इति वचनमर्चिरादिमार्गमनुवदतीति युक्तम् , स्तुतिलक्षणायां स्वाभिधेयसंसर्गतात्पर्यपरित्यागप्रसङ्गात् द्वादशाहीनस्येति तु वाक्ये स्वार्थसंसर्गतात्पर्ये प्रकरणविच्छेदस्य प्राप्तानुवदमात्रस्य चाप्रयोजनत्वमिति स्तुत्यर्थो लक्ष्यते । न चैतद्दोषभयात्समुदायप्रसिद्धिमुल्लङ्घयावयवप्रसिद्धिमुपाश्रित्य साह्नस्यैव द्वादशोपसत्तां विधातुमर्हति, त्रित्वद्वादशत्वयोर्विकल्पप्रसङ्गात् । नच सत्यां गतौ विकल्पो न्याय्यः । साह्नाहीनपदयोश्च प्रकृतज्योतिष्टोमाभिधायिनोरानर्थक्यप्रसङ्गात् । प्रकरणादेव तदवगतेः । इह तु स्वार्थसंसर्गतात्पर्ये नोक्तदोषप्रसङ्ग इति पौर्वापर्यालोचनया प्रकरणानुरोधाद्रूढिमपि पूर्वकालतामपि परित्यज्य प्रकरणानुगुण्येन ज्योतिः परं ब्रह्म प्रतीयते । यत्तूक्तं मुमुक्षोरादित्यप्राप्तिरभिहितेति । नासावात्यन्तिको मोक्षः, किन्तु कार्यब्रह्मलोकप्राप्तिः । नच क्रममुक्त्यभिप्रायं स्वेन रूपेणाभिनिष्पद्यत इति वचनम् । नह्येतत्प्रकरणोक्तब्रह्मतत्त्वविदुषो गत्युत्क्रान्ती स्तः । तथा च श्रुतिः - “न तस्मात्प्राणा उत्क्रामन्ति अत्रैव समनीयन्ते” (बृ. उ. ४ । ४ । ६) इति । नच तद्द्वारेण क्रममुक्तिः । अर्चिरादिमार्गस्य हि कार्यब्रह्मलोकप्रापकत्वं न तु ब्रह्मभूयहेतुभावः । जीवस्य तु निरूपाधिनित्यशुद्धबुद्धब्रह्मभावसाक्षात्कारहेतुके मोक्षे कृतमर्चिरादिमार्गेण कार्यब्रह्मलोकप्राप्त्या । अत्रापि ब्रह्मविदस्तदुपपत्तेः । तस्मान्न ज्योतिरादित्यमुपसम्पद्य सम्प्रसादस्य जीवस्य स्वेन रूपेण पारमार्थिकेन ब्रह्मणाभिनिष्पत्तिराञ्जसीति श्रुतेरत्रापि क्लेशः । अपिच परं ज्योतिः स उत्तमपुरुष इतीहैवोपरिष्टाद्विशेषणात्तेजसो व्यावर्त्य पुरुषविषयत्वेनावस्थापनाज्ज्योतिःपदस्य, परमेव ब्रह्म ज्योतिः न तु तेज इति सिद्धम् ॥ ४० ॥