ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भामतीव्याख्या
 
ज्योतिर्दर्शनात् ॥ ४० ॥
एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ (छा. उ. ८ । १२ । ३) इति श्रूयतेतत्र संशय्यतेकिं ज्योतिःशब्दं चक्षुर्विषयतमोपहं तेजः, किं वा परं ब्रह्मेतिकिं तावत्प्राप्तम् ? प्रसिद्धमेव तेजो ज्योतिःशब्दमितिकुतः ? तत्र ज्योतिःशब्दस्य रूढत्वात्ज्योतिश्चरणाभिधानात्’ (ब्र. सू. १ । १ । २४) इत्यत्र हि प्रकरणाज्ज्योतिःशब्दः स्वार्थं परित्यज्य ब्रह्मणि वर्तते चेह तद्वत्किञ्चित्स्वार्थपरित्यागे कारणं दृश्यतेतथा नाडीखण्डेअथ यत्रैतदस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते’ (छा. उ. ८ । ६ । ५) इति मुमुक्षोरादित्यप्राप्तिरभिहितातस्मात्प्रसिद्धमेव तेजो ज्योतिःशब्दमिति, एवं प्राप्ते ब्रूमः

ज्योतिर्दर्शनात् ।

अत्र हि ज्योतिःशब्दस्य तेजसि मुख्यत्वात् , ब्रह्मणि जघन्यत्वात् , प्रकरणाच्च श्रुतेर्बलीयस्त्वात् , पूर्ववच्छ्रुतिसङ्कोचस्य चात्राभावात् , प्रत्युत ब्रह्मज्योतिःपक्षे क्त्वाश्रुतेः पूर्वकालार्थायाः पीडनप्रसङ्गात् , समुत्थानश्रुतेश्च तेज एव ज्योतिः । तथाहि - समुत्थानमुद्गमनमुच्यते, न तु विवेकविज्ञानम् । उद्गमनं च तेजःपक्षेऽर्चिरादिमार्गेणोपपद्यते । आदित्यश्चार्चिराद्यपेक्षया परं ज्योतिर्भवतीति तदुपसम्पद्य तस्य समीपे भूत्वा स्वेन रूपेणाभिनिष्पद्यते, कार्यब्रह्मलोकप्राप्तौ क्रमेण मुच्यते । ब्रह्मज्योतिःपक्षे तु ब्रह्म भूत्वा का परा स्वरूपनिष्पत्तिः । नच देहादिविविक्तब्रह्मस्वरूपसाक्षात्कारो वृत्तिरूपोऽभिनिष्पत्तिः । सा हि ब्रह्मभूयात्प्राचीना न तु पराचीना । सेयमुपसम्पद्येति क्त्वाश्रुतेः पीडा । तस्मात्तिसृभिः श्रुतिभिः प्रकरणबाधनात्तेज एवात्र ज्योतिरिति प्राप्तम् ।