पत्यादिशब्देभ्यः ।
सर्वस्य वशी ।
वशः सामर्थ्यं सर्वस्य जगतः प्रभवत्ययम् , व्यूहावस्थानसमर्थ इति । अत एव सर्वस्येशानः, सामर्थ्येन ह्ययमुक्तेन सर्वस्येष्टे, तदिच्छानुविधानाज्जगतः । अत एव सर्वस्याधिपतिः सर्वस्य नियन्ता । अन्तर्यामीति यावत् । किञ्च स एवंभूतो हृद्यन्तर्ज्योतिः पुरुषो विज्ञानमयो न साधुना कर्मणा भूयानुत्कृष्टो भवतीत्येवमाद्याः श्रुतयोऽसंसारिणं परमात्मानमेव प्रतिपादयन्ति । तस्माज्जीवात्मानं मानान्तरसिद्धमनूद्य तस्य ब्रह्मभावप्रतिपादनपरो “योऽयं विज्ञानमयः”(बृ. उ. ४ । ३ । ७) इत्यादिवाक्यसन्दर्भ इति सिद्धम् ॥ ४३ ॥
इति श्रीमद्वाचस्पतिमिश्रविरचितशारीरकभगवत्पादभाष्यविभागे भामत्यां प्रथमस्याध्यायस्य तृतीयः पादः ॥ ३ ॥
॥ इति प्रथमाध्यायस्य ज्ञेयब्रह्मप्रतिपादकास्पष्टश्रुतिसमन्वयाख्यस्तृतीयः पादः ॥