ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम्जन्माद्यस्य यतः’ (ब्र. सू. १ । १ । २) इतितल्लक्षणं प्रधानस्यापि समानमित्याशङ्क्य तदशब्दत्वेन निराकृतम्ईक्षतेर्नाशब्दम्’ (ब्र. सू. १ । १ । ५) इतिगतिसामान्यं वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते, प्रधानकारणवादं प्रतीति प्रपञ्चितं गतेन ग्रन्थेनइदं त्विदानीमवशिष्टमाशङ्क्यतेयदुक्तं प्रधानस्याशब्दत्वम् , तदसिद्धम् , कासुचिच्छाखासु प्रधानसमर्पणाभासानां शब्दानां श्रूयमाणत्वात्अतः प्रधानस्य कारणत्वं वेदसिद्धमेव महद्भिः परमर्षिभिः कपिलप्रभृतिभिः परिगृहीतमिति प्रसज्यतेतद्यावत्तेषां शब्दानामन्यपरत्वं प्रतिपाद्यते, तावत्सर्वज्ञं ब्रह्म जगतः कारणमिति प्रतिपादितमप्याकुलीभवेत्अतस्तेषामन्यपरत्वं दर्शयितुं परः सन्दर्भः प्रवर्तते

आनुमानिकाधिकरणविषयाः

आनुमानिकमप्येकेषामितिचेन्न शारीररूपकविन्यस्तगृहीतेर्दर्शयति च ।

स्यादेतत् । ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो लक्षणमुक्तम् - “जन्माद्यस्य यतः”(ब्र. सू. १ । १ । २) इति । तच्चेदं लक्षणं न प्रधानादौ गतं, येन व्यभिचारादलक्षणं स्यात् , किन्तु ब्रह्मण्येवेति “ईक्षतेर्नाशब्दम्”(ब्र. सू. १ । १ । ५) इति प्रतिपादितम् । गतिसामान्यं च वेदान्तवाक्यानां ब्रह्मकारणवादं प्रति विद्यते, न प्रधानकारणवादं प्रतीति प्रपञ्चितमधस्ततेन सूत्रसन्दर्भेण । तत्किमवशिष्यते यदर्थमुत्तरः सन्दर्भ आरभ्यते । नच “महतः परमव्यक्तम्”(क. उ. १ । ३ । ११) इत्यादीनां प्रधाने समन्वयेऽपि व्यभिचारः । नह्येते प्रधानकारणत्वं जगत आहुः, अपितु प्रधानसद्भावमात्रम् । नच तत्सद्भावमात्रेण “जन्माद्यस्य यतः”(ब्र. सू. १ । १ । २) इति ब्रह्मलक्षणस्य किञ्चिद्धीयते ।

तस्मादनर्थक उत्तरः सन्दर्भ इत्यत आह -

ब्रह्मजिज्ञासां प्रतिज्ञायेति ।

न प्रधानसद्भावमात्रं प्रतिपादयन्ति “महतः परमव्यक्तम्”(क. उ. १ । ३ । ११) “अजामेकाम्” (श्वे. उ. ४ । ५) इत्यादयः, किन्तु जगत्कारणं प्रधानमिति । “महतः परम्”(क. उ. १ । ३ । ११) इत्यत्र हि परशब्दोऽविप्रकृष्टपूर्वकालत्वमाह । तथा च कारणत्वम् । “अजामेकाम्”(श्वे. उ. ४ । ५) इत्यादीनां तु कारणत्वाभिधानमतिस्फुटम् । एवं च लक्षणव्यभिचारादव्यभिचाराय युक्त उत्तरसन्दर्भारम्भ इति ।