पूर्वपक्षयति -
तत्र य एवेति ।
साङ्ख्यप्रवादरूढिमाह -
तत्राव्यक्तमिति ।
साङ्ख्यस्मृतिप्रसिद्धेर्न केवलं रूढिः, अवयवप्रसिद्ध्याप्ययमेवार्थोऽवगम्यत इत्याह -
न व्यक्तमिति ।
शान्तघोरमूढशब्दादिहीनत्वाच्चेति । श्रुतिरुक्ता । स्मृतिश्च साङ्खीया । न्यायश्च - “भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ कारणमस्त्यव्यक्तम्” इति । नच “महतः परमव्यक्तम्”(क. उ. १ । ३ । ११) इति प्रकरणपरिशेषाभ्यामव्यक्तपदं शरीरगोचरम् । शरीरस्य शान्तघोरमूढरूपशब्दाद्यात्मकत्वेनाव्यक्तत्वानुपपत्तेः ।
तस्मात्प्रधानमेवाव्यक्तमुच्यत इति प्राप्ते, उच्यते -
नैतदेवम् । न ह्येतत्काठकं वाक्यमिति ।
लौकिकी हि प्रसिद्धी रूढिर्वेदार्थनिर्णये निमित्तं, तदुपायत्वात् । यथाहुः - “य एव लौकिकाः शब्दास्त एव वैदिकास्त एव चैषामर्थाः” इति । नतु परीक्षकाणां पारिभाषिकी, पौरुषेयी हि सा न वेदार्थनिर्णयनिबन्धनसिद्धौ(यनिमित्तं पो ? )षधादिप्रसिद्धिवत् । तस्माद्रूढितस्तावन्न प्रधानं प्रतीयते । योगस्त्वन्यत्रापि तुल्यः । तदेवमव्यक्तश्रुतावन्यथासिद्धायां प्रकरणपरिशेषाभ्यां शरीरगोचरोऽयमव्यक्तशब्दः । यथा चास्य तद्गोचरत्वमुपपद्यते तथाग्रे दर्शयिष्यति । तेषु शरीरादिषु मध्ये विषयांस्तद्गोचरान् विद्धि । यथाश्वोऽध्वानमालम्ब्य चलत्येवमिन्द्रियहयाः स्वगोचरमालम्ब्येति । आत्मा भोक्तेत्याहुर्मनीषिणः । कथम् , इन्द्रियमनोयुक्तं योगो यथा भवति । इन्द्रियार्थमनः संनिकर्षेण ह्यात्मा गन्धादीनां भोक्ता ।
प्रधानस्याकाङ्क्षावतो वचनं प्रकरणमिति गन्तव्यं विष्णोः परमं पदं प्रधानमिति तदाकाङ्क्षामवतारयति -
तैश्चेन्द्रियादिभिरसंयतैरिति ।
असंयमाभिधानं व्यतिरेकमुखेन संयमवदातीकरणम् । परशब्दः श्रेष्ठवचनः ।
नन्वान्तरत्वेन यदि श्रेष्ठत्वं तदेन्द्रियाणामेव बाह्येभ्यो गन्धाधिभ्यः श्रेष्ठत्वं स्यादित्यत आह -
अर्था ये शब्दादय इति ।
नान्तरत्वेन श्रेष्ठत्वमपि तु प्रधानतया, तच्च विवक्षाधीनं, ग्रहेभ्यश्चेन्द्रियेभ्योऽतिग्रहतयार्थानां प्राधान्यं श्रुत्या विवक्षितमितीन्द्रियेभ्योऽर्थानां प्राधान्यात्परत्वं भवति । घ्राणजिह्वावाक्चक्षुःश्रोत्रमनोहस्तत्वचो हि इन्द्रियाणि श्रुत्याष्टौ ग्रहा उक्ताः । गृह्णन्ति वशीकुर्वन्ति खल्वेतानि पुरुषपशुमिति । न चैतनि स्वरूपवतो वशीकर्तुमीशते, यावदस्मै पुरुषपशवे गन्धरसनामरूपशब्दकामकर्मस्पर्शान्नोपहरन्ति । अत एव गन्धादयोऽष्टावतिग्रहाः, तदुपहारेण ग्रहाणां ग्रहत्वोपपत्तेः ।
तदिदमुक्तम् -
इन्द्रियाणां ग्रहणं विषयाणामतिग्रहत्वमिति श्रुतिप्रसिद्धेरिति ।
ग्रहत्वेनेन्द्रियैः साम्येऽपि मनसः स्वगतेन विशेषेणार्थेभ्यः परत्वमाह -
विषयेभ्यश्च मनसः परत्वमिति ।
कस्मात्पुमान् रथित्वेनोपक्षिप्तो गृह्यत इत्यत आह -
आत्मशब्दादिति ।
तत्प्रत्यभिज्ञानादित्यर्थः ।
श्रेष्ठत्वे हेतुमाह -
भोक्तुश्चेति ।
तदनेन जीवात्मा स्वामितया महानुक्तः । अथवा श्रुतिस्मृतिभ्यां हैरण्यगर्भी बुद्धिरात्मशब्देनोच्यत इत्याह -
अथवेति ।
पूरिति ।
भोग्यजातस्य बुद्धिरधिकरणमिति बुद्धिः पूः । तदेवं सर्वासां बुद्धीनां प्रथमजहिरण्यगर्भबुद्ध्येकनीडतया हिरण्यगर्भबुद्धेर्महत्त्वं चापनादा(चोपादाना ?)त्मत्वं च । अत एव बुद्धिमात्रात्पृथक्करणमुपपन्नम् ।
नन्वेतस्मिन्पक्षे हिरण्यगर्भबुद्धेरात्मत्वान्न रथिन आत्मनो भोक्तुरत्रोपादानमिति न रथमात्रं परिशिष्यतेऽपि तु रथवानपीत्यत आह -
एतस्मिंस्तु पक्ष इति ।
यथा हि समारोपितं प्रतिबिम्बं बिम्बान्न वस्तुतो भिद्यते तथा न परमात्मनो विज्ञानात्मा वस्तुतो भिद्यत इति परमात्मैव रथवानिहोपात्तस्तेन रथमात्रं परिशिष्टमिति ।
अथ रथादिरूपककल्पनायाः शरीरादिषु किं प्रयोजनमित्यत आह -
शरीरेन्द्रियमनोबुद्धिविषयवेदनासंयुक्तस्य हीति ।
वेदना सुखाद्यनुभवः । प्रत्यर्थमञ्चतीति प्रत्यगात्मेह जीवोऽभिमतस्तस्य ब्रह्मावगतिः ।
न च जीवस्य ब्रह्मत्वं मानान्तरसिद्धं, येनात्र नागमोऽपेक्ष्येतेत्याह -
तथा चेति ।
वागिति छान्दसो द्वितीयालोपः । शेषमतिरोहितार्थम् ॥ १ ॥