पूर्वपक्षिणोऽनुशयबीजनिराकरणपरं सूत्रम् -
सूक्ष्मं तु तदर्हत्वात् ।
प्रकृतेर्विकाराणामनन्यत्वात्प्रकृतेरव्यक्तत्वं विकार उपचर्यते । यथा “गोभिः श्रीणीत”(ऋ. सं. ९ । ४६ । ४) इति गोशब्दस्ताद्विकारे पयसि ।
अव्यक्तात्कारणात् विकारणामनन्यत्वेनाव्यक्तशब्दार्हत्वे प्रमाणमाह -
तथा च श्रुतिरिति ।
अव्याकृतमव्यक्तमित्यनर्थान्तरम् । नन्वेवं सति प्रधानमेवाभ्युपेतं भवति, सुखदुःखमोहात्मकं हि जगदेवंभूतादेव कारणाद्भवितुमर्हति, कारणात्मकत्वात्कार्यस्य । यच्च तस्य सुखात्मकत्वं तत्सत्त्वम् । यच्च तस्य दुःखात्मकत्वं तद्रजः । यच्च तस्य मोहात्मकत्वं तत्तमः । तथा चाव्यक्तं प्रधानमेवाभ्युपेतमिति ॥ २ ॥