ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥
उक्तमेतत्प्रकरणपरिशेषाभ्यां शरीरमव्यक्तशब्दम् , प्रधानमितिइदमिदानीमाशङ्क्यतेकथमव्यक्तशब्दार्हत्वं शरीरस्य, यावता स्थूलत्वात्स्पष्टतरमिदं शरीरं व्यक्तशब्दार्हम् , अस्पष्टवचनस्त्वव्यक्तशब्द इतिअत उत्तरमुच्यतेसूक्ष्मं तु इह कारणात्मना शरीरं विवक्ष्यते, सूक्ष्मस्याव्यक्तशब्दार्हत्वात्यद्यपि स्थूलमिदं शरीरं स्वयमव्यक्तशब्दमर्हति, तथापि तस्य त्वारम्भकं भूतसूक्ष्ममव्यक्तशब्दमर्हतिप्रकृतिशब्दश्च विकारे दृष्टःयथा गोभिः श्रीणीत मत्सरम्’ (ऋ. सं. ९ । ४६ । ४) इतिश्रुतिश्चतद्धेदं तर्ह्यव्याकृतमासीत्’ (बृ. उ. १ । ४ । ७) इतीदमेव व्याकृतनामरूपविभिन्नं जगत्प्रागवस्थायां परित्यक्तव्याकृतनामरूपं बीजशक्त्यवस्थमव्यक्तशब्दयोग्यं दर्शयति ॥ २ ॥

पूर्वपक्षिणोऽनुशयबीजनिराकरणपरं सूत्रम् -

सूक्ष्मं तु तदर्हत्वात् ।

प्रकृतेर्विकाराणामनन्यत्वात्प्रकृतेरव्यक्तत्वं विकार उपचर्यते । यथा “गोभिः श्रीणीत”(ऋ. सं. ९ । ४६ । ४) इति गोशब्दस्ताद्विकारे पयसि ।

अव्यक्तात्कारणात् विकारणामनन्यत्वेनाव्यक्तशब्दार्हत्वे प्रमाणमाह -

तथा च श्रुतिरिति ।

अव्याकृतमव्यक्तमित्यनर्थान्तरम् । नन्वेवं सति प्रधानमेवाभ्युपेतं भवति, सुखदुःखमोहात्मकं हि जगदेवंभूतादेव कारणाद्भवितुमर्हति, कारणात्मकत्वात्कार्यस्य । यच्च तस्य सुखात्मकत्वं तत्सत्त्वम् । यच्च तस्य दुःखात्मकत्वं तद्रजः । यच्च तस्य मोहात्मकत्वं तत्तमः । तथा चाव्यक्तं प्रधानमेवाभ्युपेतमिति ॥ २ ॥