शङ्कानिराकरणार्थं सूत्रम् -
तदधीनत्वादर्थवत् ।
प्रधानं हि साङ्ख्यानां सेश्वराणामनीश्वराणां वेश्वरात् क्षेत्रज्ञेभ्यो वा वस्तुतो भिन्नं शक्यं निर्वक्तुम् । ब्रह्मणस्त्वियमविद्या शक्तिर्मायादिशब्दवाच्या न शक्या तत्त्वेनान्यत्वेन वा निर्वक्तुम् । इदमेवास्या अव्यक्तत्वं यदनिर्वाच्यत्वं नाम । सोऽयमव्याकृतवादस्य प्रधानवादाद्भेदः । अविद्याशक्तेश्चेश्वराधीनत्वं, तदाश्रयत्वात् । नच द्रव्यमात्रमशक्तं कार्यायालमिति शक्तेरर्थवत्त्वम् ।
तदिदमुक्तम् -
अर्थवदिति ।
स्यादेतत् । यदि ब्रह्मणोऽविद्याशक्त्या संसारः प्रतीयते हन्त मुक्तानामपि पुनरुत्पादप्रसङ्गः, तस्याः प्रधानवत्तादवस्थ्यात् । तद्विनाशे वा समस्तसंसारोच्छेदः तन्मूलविद्याशक्तेः समुच्छेदादित्यत आह -
मुक्तानां च पुनः ।
बन्धस्य
अनुत्पत्तिः । कुतः । विद्यया तस्या बीजशक्तेर्दाहात् ।
अयमभिसन्धिः - न वयं प्रधानवदविद्यां सर्वजीवेष्वेकामाचक्ष्महे, यैनेवमुपालभेमहि, किन्त्वियं प्रतिजीवं भिद्यते । तेन यस्यैव जीवस्य विद्योत्पन्ना तस्यैवाविद्यापनीयते न जीवान्तरस्य, भिन्नाधिकरणयोर्विद्याविद्ययोरविरोधात् , तत्कुतः समस्तसंसारोच्छेदप्रसङ्गः । प्रधानवादिनां त्वेष दोषः । प्रधानस्यैकत्वेन तदुच्छेदे सर्वोच्छेदोऽनुच्छेदे वा न कस्यचिदित्यनिर्मोक्षप्रसङ्गः । प्रधानाभेदेऽपि चैतदविवेकख्यातिलक्षणाविद्यासदसत्त्वनिबन्धनौ बन्धमोक्षौ, तर्हि कृतं प्रधानेन, अविद्यासदसद्भावाभ्यामेव तदुपपत्तेः । न चाविद्योपाधिभेदाधीनो जीवभेदो जीवभेदाधीनश्चाविद्योपाधिभेद इति परस्पराश्रयादुभयासिद्धिरिति साम्प्रतम् । अनादित्वाद्बीजाङ्कुरवदुभयसिद्धेः । अविद्यात्वमात्रेण चैकत्वोपचारोऽव्यक्तमिति चाव्याकृतमिति चेति ।
नन्वेवमविद्यैव जगद्बीजमिति कृतमीश्वरेणेत्यत आह -
परमेश्वराश्रयेति ।
नह्यचेतनं चेतनानधिष्ठितं कार्याय पर्याप्तमिति स्वकार्यं कर्तुं परमेश्वरं निमित्ततयोपादानतया वाश्रयते, प्रपञ्चविभ्रमस्य हीश्वराधिष्ठानत्वमहिविभ्रमस्येव रज्ज्वधिष्ठानत्वम् , तेन यथाहिविभ्रमो रज्जूपादान एवं प्रपञ्चविभ्रम ईश्वरोपादानः, तस्माज्जीवाधिकरणाप्यविद्या निमित्ततया विषयतया चेश्वरमाश्रयत इतीश्वराश्रयेत्युच्यते, न त्वाधारतया, विद्यास्वभावे ब्रह्मणि तदनुपपत्तेरिति ।
अत एवाह -
यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवा इति ।
यस्यामविद्यायां सत्यां शरते जीवाः । जीवानां स्वरूपं वास्तवं ब्रह्म, तद्बोधरहिताः शेरत इति लय उक्तः । संसारिण इति विक्षेप उक्तः ।
अव्यक्ताधीनत्वाज्जीवभावस्येति ।
यद्यपि जीवाव्यक्तयोरनादित्वेनानियतं पौर्वापर्यं तथाप्यव्यक्तस्य पूर्वत्वं विवक्षित्वैतदुक्तम् ।
सत्यपि शरीरवदिन्द्रियादीनामिति ।
गोबलीवर्दपदवेतद्द्रष्टव्यम् ।