ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
ज्ञेयत्वावचनाच्च ॥ ४ ॥
ज्ञेयत्वेन साङ्ख्यैः प्रधानं स्मर्यते, गुणपुरुषान्तरज्ञानात्कैवल्यमिति वदद्भिः हि गुणस्वरूपमज्ञात्वा गुणेभ्यः पुरुषस्यान्तरं शक्यं ज्ञातुमितिक्वचिच्च विभूतिविशेषप्राप्तये प्रधानं ज्ञेयमिति स्मरन्ति चेदमिहाव्यक्तं ज्ञेयत्वेनोच्यतेपदमात्रं ह्यव्यक्तशब्दः, नेहाव्यक्तं ज्ञातव्यमुपासितव्यं चेति वाक्यमस्ति चानुपदिष्टं पदार्थज्ञानं पुरुषार्थमिति शक्यं प्रतिपत्तुम्तस्मादपि नाव्यक्तशब्देन प्रधानमभिधीयतेअस्माकं तु रथरूपककॢप्तशरीराद्यनुसरणेन विष्णोरेव परमं पदं दर्शयितुमयमुपन्यास इत्यनवद्यम् ॥ ४ ॥

ज्ञेयत्वावचनाच्च ।

इतोऽपि नायमव्यक्तशब्दः साङ्ख्याभिमतप्रधानपरः । साङ्ख्यैः खलु प्रधानाद्विवेकेन पुरुषं निःश्रेयसाय ज्ञातुं वा विभूत्यै वा प्रधानं ज्ञेयत्वेनोपक्षिप्यते । न चेह जानीयादिति चोपासीतेति वा विधिविभक्तिश्रुतिरस्ति, अपि त्वव्यक्तपदमात्रम् । न चैतावता साङ्ख्यस्मृतिप्रत्यभिज्ञानं भवतीति भावः ॥ ४ ॥