परिहरति -
अत्रोच्यते, नैवं वयमिहेति ।
वस्तुतो जीवपरमात्मनोरभेदात्प्रष्टव्याभेदेनैक एव प्रश्नः । अत एव प्रतिवचनमप्येकम् । सूत्रं त्ववास्तवभेदाभिप्रायम् । वास्तवश्च जीवपरमात्मनोरभेदस्तत्र तत्र श्रुत्युपन्यासेन भगवता भाष्यकारेण दर्शितः । तथा जीवविषयस्यास्तित्वनास्तित्वप्रश्नस्येत्यादि ।
“येयं प्रेते”(क. उ. १ । १ । २०) इति हि नचिकेतसः प्रश्नमुपश्रुत्य तत्तत्कामविषयमलोभं चास्य प्रतीत्य मृत्युः “विद्याभीप्सिनं नचिकेतसं मन्ये”(क. उ. १ । २ । ४) इत्यादिना नचिकेतसं प्रशस्य प्रश्नमपि तदीयं प्रशंसन्नस्मिन्प्रश्ने ब्रह्मैवोत्तरमुवाच -
तं दुर्दर्शमिति ।
यदि पुनर्जीवात्प्राज्ञो भिद्येत, जीवगोचरः प्रश्नः, प्राज्ञगोचरं चोत्तरमिति किं केन सङ्गच्छेत ।
अपि च यद्विषयं प्रश्नमुपश्रुत्य मृत्युनैष प्रशंसितो नचिकेताः यदि तमेव भूयः पृच्छेत्तदुत्तरे चावदध्यात्ततः प्रशंसा दृष्टार्था स्यात् , प्रश्नान्तरे त्वसावस्थाने प्रसारिता सत्यदृष्टार्था स्यादित्याह -
यत्प्रश्नेति ।
यस्मिन् प्रश्नो यत्प्रश्नः । शेषमतिरोहितार्थम् ॥ ६ ॥