उत्तरसूत्रमवतारयितुं शङ्कते -
तत्र त्विदं तच्छिर इति ।
सूत्रमवतारयति -
अत्र ब्रूमः । ज्योतिरुपक्रमा तु तथा ह्यधीयत एके ।
सर्वशाखाप्रत्ययमेकं ब्रह्मेति स्थितौ शाखान्तरोक्तरोहितादिगुणयोगिनी तेजोऽबन्नलक्षणा जरायुजाण्डजस्वेदजोद्भिज्जचतुर्विधभूतग्रामप्रकृतिभूतेयमजा प्रतिपत्तव्या, “रोहितशुक्लकृष्णाम्” (श्वे. उ. ४ । ५) इति रोहितादिरूपतया तस्या एव प्रत्यभिज्ञानात् । न तु साङ्ख्यपरिकल्पिता प्रकृतिः । तस्या अप्रामाणिकतया श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् , रञ्जनादिना च रोहिताद्युपचारस्य सति मुख्यार्थसम्भवेऽयोगात् ।
तदिदमुक्तम् -
रोहितादीनां शब्दानामिति ।
अजापदस्य च समुदायप्रसिद्धिपरित्यागेन न जायत इत्यवयवप्रसिद्ध्याश्रयणे दोषप्रसङ्गात् । अत्र तु रूपककल्पनायां समुदायप्रसिद्धेरेवानपेक्षायाः स्वीकारात् ।
अपि चायमपि श्रुतिकलापोऽस्मद्दर्शनानुगुणो न साङ्ख्यस्मृत्यनुगुण इत्याह -
तथेहापीति ।
किं कारणं ब्रह्मेत्युपक्रम्येति ।
ब्रह्मस्वरूपं तावज्जगत्कारणं न भवति, विशुद्धत्वात्तस्य । यथाहुः - “पुरुषस्य तु शुद्धस्य नाशुद्धा विकृतिर्भवेत्” इत्याशयवतीव श्रुतिः पृच्छति । किङ्कारणम् । यस्य ब्रह्मणो जगदुत्पत्तिस्तत्किङ्कारणं ब्रह्मेत्यर्थः । ते ब्रह्मविदो ध्यानयोगेनात्मानं गताः प्राप्ता अपश्यन्निति योजना ।
यो योनिं योनिमिति ।
अविद्या शक्तिर्योनिः, सा च प्रतिजीवं नानेत्युक्तमतो वीप्सोपपन्ना । शेषमतिरोहितार्थम् ॥ ९ ॥