ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
चमसवदविशेषात् ॥ ८ ॥
पुनरपि प्रधानवादी अशब्दत्वं प्रधानस्यासिद्धमित्याहकस्मात् ? मन्त्रवर्णात्अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाःअजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः’ (श्वे. उ. ४ । ५) इतिअत्र हि मन्त्रे लोहितशुक्लकृष्णशब्दैः रजःसत्त्वतमांस्यभिधीयन्तेलोहितं रजः, रञ्जनात्मकत्वात्शुक्लं सत्त्वम् , प्रकाशात्मकत्वात्कृष्णं तमः, आवरणात्मकत्वात्तेषां साम्यावस्था अवयवधर्मैर्व्यपदिश्यतेलोहितशुक्लकृष्णेति जायत इति अजा स्यात् , ‘मूलप्रकृतिरविकृतिःइत्यभ्युपगमात्न्वजाशब्दश्छागायां रूढःबाढम्सा तु रूढिरिह नाश्रयितुं शक्या, विद्याप्रकरणात्सा बह्वीः प्रजास्त्रैगुण्यान्विता जनयतितां प्रकृतिमज एकः पुरुषो जुषमाणः प्रीयमाणः सेवमानो वा अनुशेतेतामेवाविद्यया आत्मत्वेनोपगम्य सुखी दुःखी मूढोऽहमित्यविवेकितया संसरतिअन्यः पुनरजः पुरुष उत्पन्नविवेकज्ञानो विरक्तो जहात्येनं प्रकृतिं भुक्तभोगां कृतभोगापवर्गां परित्यजतिमुच्यत इत्यर्थःतस्माच्छ्रुतिमूलैव प्रधानादिकल्पना कापिलानामित्येवं प्राप्ते ब्रूमः

चमसाधिकरणविषयाः

चमसवदविशेषात् ।

अजाशब्दो यद्यपि छागायां रूढस्तथाप्यध्यात्मविद्याधिकारान्न तत्र वर्तितुमर्हति । तस्माद्रूढेरसम्भवाद्योगेन वर्तयितव्यः । तत्र किं स्वतन्त्रं प्रधानमनेन मन्त्रवर्णेनानूद्यतामुत पारमेश्वरी मायाशक्तिस्तेजोऽबन्नव्याक्रियाकारणमुच्यतां किं तावत्प्राप्तं, प्रधानमेवेति । तथाहि - यादृशं प्रधानं साङ्ख्यैः स्मर्यते तादृशमेवास्मिन्नन्यूनानतिरिक्तं प्रतीयते । सा हि प्रधानलक्षणा प्रकृतिर्न जायत इत्यजा च एका च लोहितशुक्लकृष्णा च । यद्यपि लोहितत्वादयो वर्णा न रजःप्रभृतिषु सन्ति, तथापि लोहितं कुसुम्भादि रञ्जयति, रजोऽपि रञ्जयतीति लोहितम् । एवं प्रसन्नं पाथः शुक्लं, सत्त्वमपि प्रसन्नमिति शुक्लम् । एवमावरकं मेघादि कृष्णं, तमोऽप्यावरकमिति कृष्णम् । परेणापि नाव्याकृतस्य स्वरूपेण लोहितत्वादियोग आस्थेयः, किन्तु तत्कार्यस्य तेजोऽबन्नस्य रोहितत्वादिकारण उपचरणीयम् । कार्यसारूप्येण वा कारणे कल्पनीयं, तदस्माकमपि तुल्यम् । “अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः” (श्वे. उ. ४ । ५) इति त्वात्मभेदश्रवणात् साङ्ख्यस्मृतेरेवात्र मन्त्रवर्णे प्रत्यभिज्ञानं न त्वव्याकृतप्रक्रियायाः । तस्यामैकात्म्याभ्युपगमेनात्मभेदाभावात् । तस्मात्स्वतन्त्रं प्रधानं नाशब्दमिति प्राप्तम् ।

तेषां साम्यावस्थावयवधर्मैरिति ।

अवयवाः प्रधानस्यैकस्य सत्त्वरजस्तमांसि तेषां धर्मा लोहितत्वादयस्तैरिति ।

प्रजास्त्रैगुण्यान्विता इति ।

सुखदुःखमोहात्मिकाः । तथाहि - मैत्रदारेषु नर्मदायां मैत्रस्य सुखं, तत्कस्य हेतोः, तं प्रति सत्त्वस्य समुद्भवात् । तथाच तत्सपत्नीनां दुःखं, तत्कस्य हेतोः, ताः प्रति रजःसमुद्भवात् , तथा चैत्रस्य तामविन्दतो मोहो विषादः, स कस्य हेतोः, तं प्रति तमःसमुद्भवात् । नर्मदया च सर्वे भावा व्याख्याताः । तदिदं त्रैगुण्यान्वितत्वं प्रजानाम् ।

अनुशेत इति व्याचष्टे -

तामेवाविद्ययेति ।

विषया हि शब्दादयः प्रकृतिविकारस्त्रैगुण्येन सुखदुःखमोहात्मान इन्द्रियमनोऽहङ्कारप्रणालिकया बुद्धिसत्त्वमुपसङ्क्रामन्ति । तेन तद्बुद्धिसत्त्वं प्रधानविकारः सुखदुःखमोहात्मकं शब्दादिरूपेण परिणमते । चितिशक्तिस्त्वपरिणामिन्यप्रतिसङ्क्रमापि बुद्धिसत्त्वादात्मनो विवेकमबुध्यमाना बुद्धिवृत्त्यैव विपर्यासेनाविद्यया बुद्धिस्थान्सुखादीनात्मन्यभिमन्यमाना सुखादिमतीव भवति ।

तदिदमुक्तम् -

सुखी दुःखी मूढोऽहमित्यविवेकतया संसरति ।

एकः । सत्त्वपुरुषान्यताख्यातिसमुन्मूलितनिखिलवासनाविद्यानुबन्धस्त्वन्यो जहात्येनां प्रकृतिम् ।

तदिदमुक्तम् -

अन्यः पुनरिति ।

भुक्तभोगामिति व्याचष्टे -

कृतभोगापवर्गाम् ।

शब्दाद्युपलब्धिर्भोगः । गुणपुरुषान्यताख्यातिरपवर्गः । अपवृज्यते हि तया पुरुष इति । एवं प्राप्तेऽभिधीयते - न तावत् “अजो ह्येको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः”(श्वे. उ. ४ । ५) इत्येतदात्मभेदप्रतिपादनपरमपि तु सिद्धमात्मभेदमनूद्य बन्धमोक्षौ प्रतिपादयतीति । स चानूदितो भेदः “एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा”(श्वे.उ. ६ । ११) इत्यादिश्रुतिभिरात्मैकत्वप्रतिपादनपराभिर्विरोधात्कल्पनिकोऽवतिष्ठते । तथाच न साङ्ख्यप्रक्रियाप्रत्यभिज्ञानमित्यजावाक्यं चमसवाक्यवत्परिप्लवमानं न स्वतन्त्रप्रधाननिश्चयाय पर्याप्तम् । तदिदमुक्तं सूत्रकृता - “चमसवदविशेषात्”(ब्र. सू. १ । ४ । ८) इति ॥ ८ ॥