ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
महद्वच्च ॥ ७ ॥
यथा महच्छब्दः साङ्ख्यैः सत्तामात्रेऽपि प्रथमजे प्रयुक्तः, तमेव वैदिकेऽपि प्रयोगेऽभिधत्ते, बुद्धेरात्मा महान्परः’ (क. उ. १ । ३ । १०) महान्तं विभुमात्मानम्’ (क. उ. १ । २ । २२) वेदाहमेतं पुरुषं महान्तम्’ (श्वे. उ. ३ । ८) इत्येवमादावात्मशब्दप्रयोगादिभ्यो हेतुभ्यःतथाव्यक्तशब्दोऽपि वैदिके प्रयोगे प्रधानमभिधातुमर्हतिअतश्च नास्त्यानुमानिकस्य शब्दवत्त्वम् ॥ ७ ॥

महद्वच्च ।

अनेन साङ्ख्यप्रसिद्धेर्वैदिकप्रसिद्ध्या विरोधान्न साङ्ख्यप्रसिद्धिर्वेद आदर्तव्येत्युक्तम् । साङ्ख्यानां महत्तत्त्वं सत्तामात्रं, पुरुषार्थक्रियाक्षमं सत्तस्य भावः सत्ता तन्मात्रं महत्तत्त्वमिति । या या पुरुषार्थक्रिया शब्दाद्युपभोगलक्षणा च सत्त्वपुरुषान्यताख्यातिलक्षणा च सा सर्वा महति बुद्धौ समाप्यत इति महत्तत्त्वं सत्तामात्रमुच्यत इति ॥ ७ ॥