न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ।
अवान्तरसङ्गतिमाह -
एवं परिहृतेऽपीति ।
पञ्चजना इति हि समासार्थः पञ्चसङ्ख्यया सम्बध्यते । नच “दिक्सङ्ख्ये संज्ञायाम्”(पा.सू. २।१।५०) इति समासविधानान्मनुजेषु निरूढोऽयं पञ्चजनशब्द इति वाच्यम् । तथाहि सति पञ्चमनुजा इति स्यात् । एवं चात्मनि पञ्चमनुजानामाकाशस्य च प्रतिष्ठानमिति निस्तात्पर्यं, सर्वस्यैव प्रतिष्ठानात् । तस्माद्रूढेरसम्भवात्तत्त्यागेनात्र योग आस्थेयः । जनशब्दश्च कथञ्चित्तत्त्वेषु व्याख्येयः । तत्रापि किं पञ्च प्राणादयो वाक्यशेषगता विवक्ष्यन्ते उत तदतिरिक्ता अन्य एव वा केचित् । तत्र पौर्वापर्यपर्यालोचनया कण्वमाध्यन्दिनवाक्ययोर्विरोधात् । एकत्र हि ज्योतिषा पञ्चत्वमन्नेनेतरत्र । नच षोडशिग्रहणवद्विकल्पसम्भवः । अनुष्ठानं हि विकल्प्यते न वस्तु । वस्तुतत्त्वकथा चेयं नानुष्ठानकथा, विध्यभावात् । तस्मात्कानिचिदेव तत्त्वानीह पञ्च प्रत्येकं पञ्चसङ्ख्यायोगीनि पञ्चविंशतितत्त्वानि भवन्ति । साङ्ख्यैश्च प्रकृत्यादीनि पञ्चविंशतितत्त्वानि स्मर्यन्त इति तान्येवानेन मन्त्रेणोच्यन्त इति नाशब्दं प्रधानादि । न चाधारत्वेनात्मनो व्यवस्थानात्स्वात्मनि चाधाराधेयभावस्य विरोधात् आकाशस्य च व्यतिरेचनात् त्रयोविंशतिर्जना इति स्यान्न पञ्च पञ्चजना इति वाच्यम् । सत्यप्याकाशात्मनोर्व्यतिरेचने मूलप्रकृतिभागैः सत्त्वरजस्तमोभिः पञ्चविंशतिसङ्ख्योपपत्तेः । तथाच सत्यात्माकाशाभ्यां सप्तविंशतिसङ्ख्यायां पञ्चविंशतितत्त्वानीति स्वसिद्धान्तव्याकोप इति चेत् , न मूलप्रकृतित्वमात्रेणैकीकृत्य सत्त्वरजस्तमांसि पञ्चविंशतितत्त्वोपपत्तेः । हिरुग्भावेन तु तेषां सप्तविंशतित्वाविरोधः । तस्मान्नाशाब्दी साङ्ख्यस्मृतिरिति प्राप्तम् ।
मूलप्रकृतिः प्रधानम् । नासावन्यस्य विकृतिरपि तु प्रकृतिरेव तदिदमुक्तम् -
मूलेति ।
महदहङ्कारपञ्चतन्मात्राणि प्रकृतयश्च विकृतयश्च । तथाहि - महत्तत्त्वमहङ्कारस्य तत्त्वान्तरस्य प्रकृतिर्मूलप्रकृतेस्तु विकृतिः । एवमहङ्कारतत्त्वं महतो विकृतिः, प्रकृतिश्च तदेव तामसं सत् पञ्चतन्मात्राणाम् । तदेव सात्त्विकं सत् प्रकृतिरेकादशेन्द्रियाणाम् । पञ्चतन्मात्राणि चाहङ्कारस्य विकृतिराकाशादीनां पञ्चानां प्रकृतिः ।
तदिदमुक्तम् -
महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारः ।
षोडशसङ्ख्यावच्छिन्नो गणो विकार एव । पञ्चभूतान्यतन्मात्राण्येकादशेन्द्रियाणीति षोडशको गणः । यद्यपि पृथिव्यादयो गोघटादीनां प्रकृतिस्तथापि न ते पृथिव्यादिभ्यस्तत्त्वान्तरमिति न प्रकृतिः । तत्त्वान्तरोपादानत्वं चेह प्रकृतित्वमभिमतं नोपादानमात्रत्वमित्यविरोधः । पुरुषस्तु कूटस्थनित्योऽपरिणामो न कस्यचित्प्रकृतिर्नापि विकृतिरिति ।