ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
न संख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥ ११ ॥
ततो ब्रूमः संख्योपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वं प्रत्याशा कर्तव्याकस्मात् ? नानाभावात्नाना ह्येतानि पञ्चविंशतिस्तत्त्वानिनैषां पञ्चशः पञ्चशः साधारणो धर्मोऽस्ति, येन पञ्चविंशतेरन्तराले पराः पञ्च पञ्च संख्या निविशेरन् ह्येकनिबन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः संख्या निविशन्तेथोच्येतपञ्चविंशतिसंख्यैवेयमवयवद्वारेण लक्ष्यते, यथापञ्च सप्त वर्षाणि ववर्ष शतक्रतुःइति द्वादशवार्षिकीमनावृष्टिं कथयन्ति, तद्वदिति; तदपि नोपपद्यतेअयमेवास्मिन्पक्षे दोषः, यल्लक्षणाश्रयणीया स्यात्परश्चात्र पञ्चशब्दो जनशब्देन समस्तः पञ्चजनाः इति, भाषिकेण स्वरेणैकपदत्वनिश्चयात्प्रयोगान्तरे पञ्चानां त्वा पञ्चजनानाम्’ (तै. सं. १ । ६ । २ । २) इत्यैकपद्यैकस्वर्यैकविभक्तिकत्वावगमात्समस्तत्वाच्च वीप्सापञ्च पञ्चइतितेन पञ्चकद्वयग्रहणं पञ्च पञ्चेति पञ्चसंख्याया एकस्याः पञ्चसंख्यया परया विशेषणम्पञ्च पञ्चकाःइति, उपसर्जनस्य विशेषणेनासंयोगात्न्वापन्नपञ्चसंख्याका जना एव पुनः पञ्चसंख्यया विशेष्यमाणाः पञ्चविंशतिः प्रत्येष्यन्ते, यथा पञ्च पञ्चपूल्य इति पञ्चविंशतिः पूलाः प्रतीयन्ते, तद्वत्नेति ब्रूमःयुक्तं यत्पञ्चपूलीशब्दस्य समाहाराभिप्रायत्वात् कतीति सत्यां भेदाकाङ्क्षायां पञ्च पञ्चपूल्य इति विशेषणम्इह तु पञ्च जना इत्यादित एव भेदोपादानात्कतीत्यसत्यां भेदाकाङ्क्षायां पञ्च पञ्चजना इति विशेषणं भवेत्भवदपीदं विशेषणं पञ्चसंख्याया एव भवेत्; तत्र चोक्तो दोषःतस्मात्पञ्च पञ्चजना इति पञ्चविंशतितत्त्वाभिप्रायम्अतिरेकाच्च पञ्चविंशतितत्त्वाभिप्रायम्अतिरेको हि भवत्यात्माकाशाभ्यां पञ्चविंशतिसंख्यायाःआत्मा तावदिह प्रतिष्ठां प्रत्याधारत्वेन निर्दिष्टः, ‘यस्मिन्इति सप्तमीसूचितस्यतमेव मन्य आत्मानम्इत्यात्मत्वेनानुकर्षणात्आत्मा चेतनः पुरुषः; पञ्चविंशतावन्तर्गत एवेति तस्यैवाधारत्वमाधेयत्वं युज्यतेअर्थान्तरपरिग्रहे तत्त्वसंख्यातिरेकः सिद्धान्तविरुद्धः प्रसज्येततथाआकाशश्च प्रतिष्ठितःइत्याकाशस्यापि पञ्चविंशतावन्तर्गतस्य पृथगुपादानं न्याय्यम्; अर्थान्तरपरिग्रहे चोक्तं दूषणम्कथं संख्यामात्रश्रवणे सत्यश्रुतानां पञ्चविंशतितत्त्वानामुपसङ्ग्रहः प्रतीयेत ? जनशब्दस्य तत्त्वेष्वरूढत्वात् , अर्थान्तरोपसङ्ग्रहेऽपि संख्योपपत्तेःकथं तर्हि पञ्च पञ्चजना इति ? उच्यतेदिक्संख्ये संज्ञायाम्’ (पा. सू. २ । १ । ५०) इति विशेषस्मरणात्संज्ञायामेव पञ्चशब्दस्य जनशब्देन समासःततश्च रूढत्वाभिप्रायेणैव केचित्पञ्चजना नाम विवक्ष्यन्ते, साङ्ख्यतत्त्वाभिप्रायेणते कतीत्यस्यामाकाङ्क्षायां पुनः पञ्चेति प्रयुज्यतेपञ्चजना नाम ये केचित् , ते पञ्चैवेत्यर्थः, सप्तर्षयः सप्तेति यथा ॥ ११ ॥

एवं प्राप्तेऽभिधीयते -

न सङ्ख्योपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वाशङ्का कर्तव्या । कस्मात् नानाभावात् । नाना ह्येतानि पञ्चविंशतितत्त्वानि । नैषां पञ्चशः पञ्चशः साधारणधर्मोऽस्ति ।

न खलु सत्त्वरजस्तमोमहदहङ्काराणामेकः क्रिया वा गुणो वा द्रव्यं वा जातिर्वा धर्मः पञ्चतन्मात्रादिभ्यो व्यावृत्तः सत्त्वादिषु चानुगतः कश्चिदस्ति । नापि पृथिव्यप्तेजोवायुघ्राणानाम् । नापि रसनचक्षुस्त्वक्श्रोत्रवाचाम् । नापि पाणिपादपायूपस्थमनसां, येनैकेनासाधारणेनोपगृहीताः पञ्च पञ्चका भवितुमर्हन्ति ।

पूर्वपक्षैकदेशिनमुत्थापयति -

अथोच्येत पञ्चविंशतिसङ्ख्यैवेयमिति ।

यद्यपि परस्यां सङ्ख्यायामवान्तरसङ्ख्या द्वित्वादिका नास्ति तथापि तत्पूर्वं तस्याः सम्भवात् पौर्वापर्यलक्षणया प्रत्यासत्त्या परसङ्ख्योपलक्षणार्थं पूर्वसङ्ख्योपन्यस्यत इति दूषयति -

अयमेवास्मिन्पक्षे दोष इति ।

न च पञ्चशब्दो जनशब्देन समस्तोऽसमस्तः शक्यो वक्तुमित्याह -

परश्चात्र पञ्चशब्द इति ।

ननु भवतु समासस्तथापि किमित्यत आह -

समस्तत्वाच्चेति ।

अपि च वीप्सायां पञ्चकद्वयग्रहणे दशैव तत्त्वानीति न साङ्ख्यस्मृतिप्रत्यभिज्ञानमित्यसमासमभ्युपेत्याह -

न च पञ्चकद्वयग्रहणं पञ्च पञ्चेति ।

न चैका पञ्चसङ्ख्या पञ्चसङ्ख्यान्तरेण शक्या विशेष्टुम् । पञ्चशब्दस्य सङ्ख्योपसर्जनद्रव्यवचनत्वेन सङ्ख्याया उपसर्जनतया विशेषणेनासंयोगादित्याह -

एकस्याः पञ्चसङ्ख्याया इति ।

तदेवं पूर्वपक्षैकदेशिनि दूषिते परमपूर्वपक्षिणमुत्थापयति -

नन्वापन्नपञ्चसङ्ख्याका जना एवेति ।

अत्र तावद्रूढौ सत्यां न योगः सम्भवतीति वक्ष्यते ।

तथापि यौगिकं पञ्चजनशब्दमभ्युपेत्य दूषयति -

युक्तं यत्पञ्चपूलीशब्दस्येति ।

पञ्चपूलीत्यत्र यद्यपि पृथक्त्वैकार्थसंवायिनी पञ्चसङ्ख्यावच्छेदिकास्ति तथापीह समुदायिनोऽवच्छिनत्ति न समुदायं समासपदगम्यमतस्तस्मिन् कति ते समुदाया इत्यपेक्षायां पदान्तराभिहिता पञ्चसङ्ख्या सम्बध्यते पञ्चेति । पञ्चजना इत्यत्र तु पञ्चसङ्ख्ययोत्पत्तिशिष्टया जनानामवच्छिन्नत्वात्समुदायस्य च पञ्चपूलीवदत्राप्रतीतेर्न पदान्तराभिहिता सङ्ख्या सम्बध्यते ।

स्यादेतत् । सङ्ख्येयानां जनानां मा भूच्छब्दान्तरवाच्यसङ्ख्यावच्छेदः । पञ्चसङ्ख्यायास्तु तयावच्छेदो भविष्यति । नहि साप्यवच्छिन्नेत्यत आह -

भवदपीदं विशेषणमिति ।

उक्तोऽत्र दोषः । नह्युपसर्जनं विशेषणेन युज्यते पञ्चशब्द एव तावत्सङ्ख्येयोपसर्जनसङ्ख्यामाह विशेषतस्तु पञ्चजना इत्यत्र समासे । विशेषणापेक्षायां तु न समासः स्यात् , असामर्थ्यात् । नहि भवति ऋद्धस्य राजपुरुष इति समासोऽपि तु (पद)वृत्तिरेव ऋद्धस्य राज्ञः पुरुष इति । सापेक्षत्वेनासामर्थ्यादित्यर्थः ।

अतिरेकाच्चेति ।

अभ्युच्चयमात्रम् । यदि सत्त्वरजस्तमांसि प्रधानेनैकीकृत्यात्माकाशौ तत्त्वेभ्यो व्यतिरिच्येते तदा सिद्धान्तव्याकोपः । अथ तु सत्त्वरजस्तमांसि मिथो भेदेन विवक्ष्यन्ते तथापि वस्तुतत्त्वव्यवस्थापने आधारत्वेनात्मा निष्कृष्यताम् । आधेयान्तरेभ्यस्त्वाकाशस्याधेयस्य व्यतिरेचनमनर्थकमिति गमयितव्यम् ।

कथं च सङ्ख्यामात्रश्रवणे सतीति ।

'दिक्सङ्ख्ये संज्ञायाम्” इति संज्ञायां समासस्मरणात् पञ्चजनशब्दस्तावदयं क्वचिन्निरूढः । नच रूढौ सत्यामवयवप्रसिद्धेर्ग्रहणं, सापेक्षत्वात् , निरपेक्षत्वाच्च रूढेः । तद्यदि रूढौ मुख्योऽर्थः प्राप्यते ततः स एव ग्रहीतव्योऽथ त्वसौ न वाक्ये सम्बन्धार्हः पूर्वापरवाक्यविरोधी वा । ततो रूढ्यपरित्यागेनैव वृत्त्यन्तरेणार्थान्तरं कल्पयित्वा वाक्यमुपपादनीयम् । यथा “श्येनेनाभिचरन् यजेत” इति श्येनशब्दः शकुनिविशेषे निरूढवृत्तिस्तदपरित्यागेनैव निपत्यादानसादृश्येनार्थवादिकेन क्रतुविशेषे वर्तते, तथा पञ्चजनशब्दोऽवयवार्थयोगानपेक्ष एकस्मिन्नपि वर्तते । यथा सप्तर्षिशब्दो वसिष्ठ एकस्मिन् सप्तसु च वर्तते । न चैष तत्त्वेषु रूढः । पञ्चविंशतिसङ्ख्यानुरोधेन तत्त्वेषु वर्तयितव्यः । रूढौ सत्यां पञ्चविंशतेरेव सङ्ख्याया अभावात्कथं तत्त्वेषु वर्तते ॥ ११ ॥