एवं च के ते पञ्चजना इत्यपेक्षायां किं वाक्यशेषगताः प्राणादयो गृह्यन्तामुत पञ्चविंशतिस्तत्त्वानीति विशये तत्त्वानामप्रामाणिकत्वात् , प्राणादीनां च वाक्यशेषे श्रवणात्तत्परित्यागे श्रुतहान्यश्रुतकल्पनाप्रसङ्गात्प्राणादय एव पञ्चजनाः । नच काण्वमाध्यन्दिनयोर्विरोधान्न प्राणादीनां वाक्यशेषगतानामपि ग्रहणमिति साम्प्रतम् , विरोधेऽपि तुल्यबलतया षोडशिग्रहणवद्विकल्पोपपत्तेः । न चेयं वस्तुस्वरूपकथा, अपितूपासनानुष्ठानविधिः, “मनसैवानुद्रष्टव्यम्” (बृ. उ. ४ । ४ । १९) इति विधिश्रवणात् ।
कथं पुनः प्राणादिषु जनशब्दप्रयोग इति ।
जनवाचकः शब्दो जनशब्दः । पञ्चजनशब्द इति यावत् । तस्य कथं प्राणादिष्वजनेषु प्रयोग इति व्याख्येयम् । अन्यथा तु प्रत्यस्तमितावयवार्थे समुदायशब्दार्थे जनशब्दार्थो नास्तीत्यपर्यनुयोग एव ।
रूढ्यपरित्यागेनैव वृत्त्यन्तरं दर्शयति -
जनसम्बन्धाच्चेति ।
जनशब्दभाजः पञ्चजनशब्दभाजः ।
ननु सत्यामवयवप्रसिद्धौ समुपायशक्तिकल्पनमनुपपन्नं, सम्भवति च पञ्चविंशत्यां तत्त्वेष्ववयवप्रसिद्धिरित्यत आह -
समासबलाच्चेति ।
स्यादेतत् । समासबलाच्चेद्रूढिरास्थीयते हन्त न दृष्टस्तर्हि तस्य प्रयोगोऽश्वकर्णादिवद्वृक्षादिषु । तथाच लोकप्रसिद्ध्यभावान्न रूढिरित्याक्षिपति -
कथं पुनरसतीति ।
जनेषु तावत्पञ्चजनशब्दश्च प्रथमः प्रयोगो लोकेषु दृष्ट इत्यसति प्रथमप्रयोग इत्यसिद्धमिति स्थवीयस्तयानभिधायाभ्युपेत्य प्रथमप्रयोगाभावं समाधत्ते -
शक्योद्भिदादिवदिति ।
आचार्यदेशीयानां मतभेदेष्वपि न पञ्चविंशतिस्तत्त्वानि सिध्यन्ति ।
परमार्थतस्तु पञ्चजना वाक्यशेषगता एवेत्याशयवानाह -
कैश्चित्त्विति ।
शेषमतिरोहितार्थम् ॥ १२ ॥ ॥ १३ ॥