ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥
प्रतिपादितं ब्रह्मणो लक्षणम्प्रतिपादितं ब्रह्मविषयं गतिसामान्यं वेदान्तवाक्यानाम्प्रतिपादितं प्रधानस्याशब्दत्वम्त्रेदमपरमाशङ्क्यते जन्मादिकारणत्वं ब्रह्मणो ब्रह्मविषयं वा गतिसामान्यं वेदान्तवाक्यानां प्रतिपादयितुं शक्यम्कस्मात् ? विगानदर्शनात्प्रतिवेदान्तं ह्यन्यान्या सृष्टिरुपलभ्यते, क्रमादिवैचित्र्यात्तथा हिक्वचित् आत्मन आकाशः सम्भूतः’ (तै. उ. २ । १ । १) इत्याकाशादिका सृष्टिराम्नायतेक्वचित्तेजआदिका तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इतिक्वचित्प्राणादिका प्राणमसृजत प्राणाच्छ्रद्धाम्’ (प्र. उ. ६ । ४) इतिक्वचिदक्रमेणैव लोकानामुत्पत्तिराम्नायते इमाँल्लोकानसृजतअम्भो मरीचीर्मरमापः’ (ऐ. उ. १ । १ । २) इतितथा क्वचिदसत्पूर्विका सृष्टिः पठ्यतेअसद्वा इदमग्र आसीत्ततो वै सदजायत’ (तै. उ. २ । ७ । १) इति, असदेवेदमग्र आसीत्तत्सदासीत्तत्समभवत्’ (छा. उ. ३ । १९ । १) इति क्वचिदसद्वादनिराकरणेन सत्पूर्विका प्रक्रिया प्रतिज्ञायतेतद्धैक आहुरसदेवेदमग्र आसीत्’ (छा. उ. ६ । २ । १) इत्युपक्रम्य, कुतस्तु खलु सोम्यैवꣳ स्यादिति होवाच कथमसतः ज्जायेतेतिसत्त्वेव सोम्येदमग्र आसीत्’ (छा. उ. ६ । २ । २) इतिक्वचित्स्वयंकर्तृकैव व्याक्रिया जगतो निगद्यतेतद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत’ (बृ. उ. १ । ४ । ७) इतिएवमनेकधा विप्रतिपत्तेर्वस्तुनि विकल्पस्यानुपपत्तेर्न वेदान्तवाक्यानां जगत्कारणावधारणपरता न्याय्यास्मृतिन्यायप्रसिद्धिभ्यां तु कारणान्तरपरिग्रहो न्याय्य इत्येवं प्राप्ते ब्रूमः

कारणत्वाधिकरणविषयाः

कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ।

अथ समन्वयलक्षणे केयमकाण्डे विरोधाविरोधचिन्ता, भविता हि तस्याः स्थानमविरोधलक्षणमित्यत आह -

प्रतिपादितं ब्रह्मण इति ।

अयमर्थः - नानेकशाखागततत्तद्वाक्यालोचनया वाक्यार्थावगमे पर्यवसिते सति प्रमाणान्तरविरोधेन वाक्यार्थावगतेरप्रामाण्यमाशङ्क्याविरोधव्युत्पादनेन प्रामाण्यव्यवस्थापनमविरोधलक्षणार्थः । प्रासङ्गिकं तु तत्र सृष्टिविषयाणां वाक्यानां परस्परमविरोधप्रतिपादनं न तु लक्षणार्थः । तत्प्रयोजनं च तत्रैव प्रतिपादयिष्यते । इह तु वाक्यानां सृष्टिप्रतिपादकानां परस्परविरोधे ब्रह्मणि जगद्योनौ न समन्वयः सेद्धुमर्हति । तथाच न जगत्कारणत्वं ब्रह्मणो लक्षणं, नच तत्र गतिसामान्यं, नच तत्सिद्धये प्रधानस्याशब्दत्वप्रतिपादनं, तस्माद्वाक्यानां विरोधाविरोधाभ्यामुक्तार्थाक्षेपसमाधानाभ्यां समन्वयः एवोपपाद्यत इति समन्वयलक्षणे सङ्गतमिदमधिकरणम् । “वाक्यानां कारणे कार्ये परस्परविरोधतः । समन्वयो जगद्योनौ न सिध्यति परात्मनि” ॥ “सदेव सोम्येदमग्र आसीत्” (छा. उ. ६ । २ । १) इत्यादीनां कारणविषयाणां, “असद्वा इदमग्र आसीत्”(तै. उ. २ । ७ । १) इत्यादिभिर्वाक्यैः कारणविषयैर्विरोधः । कार्यविषयाणामपि विभिन्नक्रमाक्रमोत्पत्तिप्रतिपादकानां विरोधः । तथाहि - कानिचिदन्यकर्तृका जगदुत्पत्तिमाचक्षते वाक्यानि । कानिचित्स्वयङ्कर्तृकाम् । सृष्ट्या च कार्येण तत्कारणतया ब्रह्म लक्षितम् । सृष्टिविप्रतिपत्तौ तत्कारणतायां ब्रह्मलक्षणे विप्रतिपत्तौ सत्यां भवति तल्लक्ष्ये ब्रह्मण्यपि विप्रतिपत्तिः । तस्माद्ब्रह्मणि समन्वयाभावान्न समन्वयागम्यं ब्रह्म । वेदान्तास्तु कर्त्रादिप्रतिपादनेन कर्मविधिपरतयोपचरितार्था अविवक्षितार्था वा जपोपयोगिन इति प्राप्तम् ।

क्रमादीति ।

आदिग्रहणेनाक्रमो गृह्यते । एवं प्राप्त उच्यते - “सर्गक्रमविवादेऽपि न स स्रष्टरि विद्यते । सतस्त्वसद्वचो भक्त्या निराकार्यतया क्वचित्” ॥ न तावदस्ति सृष्टिक्रमे विगानं, श्रुतीनामविरोधात् । तथाहि - अनेकशिल्पपर्यवदातो देवदत्तः प्रथमं चक्रदण्डादि करोति, अथ तदुपकरणः कुम्भं, कुम्भोपकरणश्चाहरत्युदकं, उदकोपकरणश्च संयवनेन गोधूमकणिकानां करोति पिण्डं, पिण्डोपकरणस्तु पचति घृतपूर्णं, तदस्य देवदत्तस्य सर्वत्रैतस्मिन् कर्तृत्वाच्छक्यं वक्तुं देवदत्ताच्चक्रादि सम्भूतं तस्माच्चक्रादेः कुम्भादीति । शक्यं च देवदत्तात्कुम्भः समुद्भूतस्तस्मादुदकाहरणादीत्यादि । नह्यस्त्यसम्भवः सर्वत्रास्मिन् कार्यजाते क्रमवत्यपि देवदत्तस्य साक्षात्कर्तुरनुस्यूतत्वात् । तथेहापि यद्यप्याकाशादिक्रमेणैव सृष्टिस्तथाप्याकाशानलानिलादौ तत्र तत्र साक्षात्परमेश्वरस्य कर्तृत्वाच्छक्यं वक्तुं परमेश्वरादाकाशः सम्भूत इति । शक्यं च वक्तुं परमेश्वरादनलः सम्भूत इत्यादि । यदि त्वाकाशाद्वायुर्वायोस्तेज इत्युक्त्वा तेजसो वायुर्वायोराकाश इति ब्रूयाद्भवेद्विरोधः । न चैतदस्ति । तस्मादमूषामविवादः श्रुतीनाम् । एवं “स इमांल्लोकानसृजत”(ऐ.उ. १-१-२) इत्युपक्रमाभिधायिन्यपि श्रुतिरविरुद्धा । एषा हि स्वव्यापारमभिधानक्रमेण कुर्वती नाभिधेयानां क्रमं निरुणद्धि । ते तु यथाक्रमावस्थिता एवाक्रमेणोच्यन्ते - यथा क्रमवन्ति ज्ञानानि जानातीति । तदेवमविगानम् । अभ्युपेत्य तु विगानमुच्यतेसृष्टौ खल्वेतद्विगानम् । स्रष्टा तु सर्ववेदान्तवाक्येष्वनुस्यूतः परमेश्वरः प्रतीयते । नात्र श्रुतिविगानं मात्रयाप्यस्ति । नच सृष्टिविगानं स्रष्टरि तदधीननिरूपणे विगानमावहतीति वाच्यम् । नह्येष स्रष्टृत्वमात्रेणोच्यतेऽपि तु “सत्यं ज्ञानमनन्तं ब्रह्म” (तै. उ. २ । १ । १) इत्यादिना रूपेणोच्यते स्रष्टा । तच्चास्य रूपं सर्ववेदान्तवाक्यानुगतम् । तज्ज्ञानं च फलवत् । “ब्रह्मविदाप्नोति परम्” (तै. उ. २ । १ । १) “तरति शोकमात्मवित्”(छा. उ. ७ । १ । ३) इत्यादि श्रुतेः । सृष्टिज्ञानस्य तु न फलं श्रूयते । तेन “फलवत्संनिधावफलं तदङ्गम्” इति सृष्टिविज्ञानं स्रष्टृब्रह्मविज्ञानाङ्गं तदनुगुणं सद्ब्रह्मज्ञानावतारोपायतया व्याख्येयम् । तथाच श्रुतिः - “अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छ”(छा. उ. ६ । ८ । ४) इत्यादिका । शुङ्गेनाग्रेण । कार्येणेति यावत् । तस्मान्न सृष्टिविप्रतिपत्तिः स्रष्टरि विप्रतिपत्तिमावहति । अपि तु “गुणे त्वन्यायकल्पना” इति तदनुगुणतया व्याख्येया । यच्च कारणे विगानम् “असद्वा इदमग्र असीत्”(तै. उ. २ । ७ । १) इति, तदपि “तदप्येष श्लोको भवति”(तै. उ. २ । ६ । १) इति पूर्वप्रकृतं सद्ब्रह्मणाकृष्य “असदेवेदमग्र आसीत्” (छा. उ. ३ । १९ । १) इत्युच्यमानं त्वसतोऽभिधानेऽसम्बद्धं स्यात् । श्रुत्यन्तरेण च मानान्तरेण च विरोधः । तस्मादौपचारिकं व्याख्येयम् । “तद्धैक आहुरसदेवेदमग्र आसीत्” (छा. उ. ६ । २ । १) इति तु निराकार्यतयोपन्यस्तमिति न कारणे विवाद इति सूत्रे चशब्दस्त्वर्थः । पूर्वपक्षं निवर्तयति । आकाशादिषु सृज्यमानेषु क्रमविगानेऽपि न स्रष्टरि विगानम् । कुतः । यथैकस्यां श्रुतौ व्यपदिष्टः परमेश्वरः सर्वस्य कर्ता तथैव श्रुत्यन्तरेषूक्तेः, केन रूपेण, कारणत्वेन, अपरः कल्पो यथा व्यपदिष्टः क्रम आकाशादिषु, “आत्मन आकाशः सम्भूत आकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी” (तै. उ. २ । १ । १) इति, तस्यैव क्रमस्यानपबाधनेन “तत्तेजोऽसृजत”(छा. उ. ६ । २ । ३) इत्यादिकाया अपि सृष्टेरुक्तेर्न सृष्टावपि विगानम् ॥ १४ ॥