ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
समाकर्षात् ॥ १५ ॥
असद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १) इति नात्रासन्निरात्मकं कारणत्वेन श्राव्यतेयतः असन्नेव भवतिअसद्ब्रह्मेति वेद चेत्अस्ति ब्रह्मेति चेद्वेदसन्तमेनं ततो विदुः’ (तै. उ. २ । ६ । १) इत्यसद्वादापवादेनास्तित्वलक्षणं ब्रह्मान्नमयादिकोशपरम्परया प्रत्यगात्मानं निर्धार्य, ‘सोऽकामयतइति तमेव प्रकृतं समाकृष्य, सप्रपञ्चां सृष्टिं तस्माच्छ्रावयित्वा, ‘तत्सत्यमित्याचक्षतेइति चोपसंहृत्य, ‘तदप्येष श्लोको भवतिइति तस्मिन्नेव प्रकृतेऽर्थे श्लोकमिममुदाहरतिअसद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १) इतियदि त्वसन्निरात्मकमस्मिञ्श्लोकेऽभिप्रेयेत, ततोऽन्यसमाकर्षणेऽन्यस्योदाहरणादसम्बद्धं वाक्यमापद्येततस्मान्नामरूपव्याकृतवस्तुविषयः प्रायेण सच्छब्दः प्रसिद्ध इति तद्व्याकरणाभावापेक्षया प्रागुत्पत्तेः सदेव ब्रह्मासदिवासीदित्युपचर्यतेएषैव असदेवेदमग्र आसीत्’ (छा. उ. ३ । १९ । १) इत्यत्रापि योजना, ‘तत्सदासीत्इति समाकर्षणात्; अत्यन्ताभावाभ्युपगमे हितत्सदासीत्इति किं समाकृष्येत ? तद्धैक आहुरसदेवेदमग्र आसीत्’ (छा. उ. ६ । २ । १) इत्यत्रापि श्रुत्यन्तराभिप्रायेणायमेकीयमतोपन्यासः, क्रियायामिव वस्तुनि विकल्पस्यासम्भवात्तस्माच्छ्रुतिपरिगृहीतसत्पक्षदार्ढ्यायैवायं मन्दमतिपरिकल्पितस्यासत्पक्षस्योपन्यस्य निरास इति द्रष्टव्यम्तद्धेदं तर्ह्यव्याकृतमासीत्’ (बृ. उ. १ । ४ । ७) इत्यत्रापि निरध्यक्षस्य जगतो व्याकरणं कथ्यते, ‘ एष इह प्रविष्ट नखाग्रेभ्यःइत्यध्यक्षस्य व्याकृतकार्यानुप्रवेशित्वेन समाकर्षात्निरध्यक्षे व्याकरणाभ्युपगमे ह्यनन्तरेण प्रकृतावलम्बिना इत्यनेन सर्वनाम्ना कः कार्यानुप्रवेशित्वेन समाकृष्येत ? चेतनस्य चायमात्मनः शरीरेऽनुप्रवेशः श्रूयते, अनुप्रविष्टस्य चेतनत्वश्रवणात् — ‘पश्यꣳश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनःइतिअपि यादृशमिदमद्यत्वे नामरूपाभ्यां व्याक्रियमाणं जगत्साध्यक्षं व्याक्रियते, एवमादिसर्गेऽपीति गम्यते, दृष्टविपरीतकल्पनानुपपत्तेःश्रुत्यन्तरमपि अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति साध्यक्षामेव जगतो व्याक्रियां दर्शयति । ‘व्याक्रियतइत्यपि कर्मकर्तरि लकारः सत्येव परमेश्वरे व्याकर्तरि सौकर्यमपेक्ष्य द्रष्टव्यःयथा लूयते केदारः स्वयमेवेति सत्येव पूर्णके लवितरियद्वा कर्मण्येवैष लकारोऽर्थाक्षिप्तं कर्तारमपेक्ष्य द्रष्टव्यःयथा गम्यते ग्राम इति ॥ १५ ॥

नन्वेकत्रात्मन आकाशकारणत्वेनोक्तिरन्यत्र च तेजः कारणत्वेन, तत्कथमविगानमिति । अत आह -

कारणत्वेति ।

हेतौ तृतीया । सर्वत्राकाशानलानिलादौ साक्षात्कारणत्वेनात्मनः । प्रपञ्चितं चैतदधस्तात् । व्याक्रियत इति च कर्मकर्तरि कर्मणि वा रूपं, न चेतनमतिरिक्तं कर्तारं प्रतिक्षिपति किन्तूपस्थापयति । नहि लूयते केदारः स्वयमेवेति वा लूयते केदार इति वा लवितारं देवदत्तादिं प्रतिक्षिपति । अपि तूपस्थापयत्येव । तस्मात्सर्वमवदातम् ॥ १५ ॥