नन्वेकत्रात्मन आकाशकारणत्वेनोक्तिरन्यत्र च तेजः कारणत्वेन, तत्कथमविगानमिति । अत आह -
कारणत्वेति ।
हेतौ तृतीया । सर्वत्राकाशानलानिलादौ साक्षात्कारणत्वेनात्मनः । प्रपञ्चितं चैतदधस्तात् । व्याक्रियत इति च कर्मकर्तरि कर्मणि वा रूपं, न चेतनमतिरिक्तं कर्तारं प्रतिक्षिपति किन्तूपस्थापयति । नहि लूयते केदारः स्वयमेवेति वा लूयते केदार इति वा लवितारं देवदत्तादिं प्रतिक्षिपति । अपि तूपस्थापयत्येव । तस्मात्सर्वमवदातम् ॥ १५ ॥