ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
जगद्वाचित्वात् ॥ १६ ॥
परमेश्वर एवायमेतेषां पुरुषाणां कर्ता स्यात्कस्मात् ? उपक्रमसामर्थ्यात्इह हि बालाकिरजातशत्रुणा सहब्रह्म ते ब्रवाणिइति संवदितुमुपचक्रमे कतिचिदादित्याद्यधिकरणान्पुरुषानमुख्यब्रह्मदृष्टिभाज उक्त्वा तूष्णीं बभूवतमजातशत्रुःमृषा वै खलु मा संवदिष्ठा ब्रह्म ते ब्रवाणिइत्यमुख्यब्रह्मवादितयापोद्य, तत्कर्तारमन्यं वेदितव्यतयोपचिक्षेपयदि सोऽप्यमुख्यब्रह्मदृष्टिभाक्स्यात् , उपक्रमो बाध्येततस्मात्परमेश्वर एवायं भवितुमर्हतिकर्तृत्वं चैतेषां पुरुषाणां परमेश्वरादन्यस्य स्वातन्त्र्येणावकल्पते । ‘यस्य वैतत्कर्मइत्यपि नायं परिस्पन्दलक्षणस्य धर्माधर्मलक्षणस्य वा कर्मणो निर्देशः, तयोरन्यतरस्याप्यप्रकृतत्वात् , असंशब्दितत्वाच्चनापि पुरुषाणामयं निर्देशः, ‘एतेषां पुरुषाणां कर्ताइत्येव तेषां निर्दिष्टत्वात् , लिङ्गवचनविगानाच्चनापि पुरुषविषयस्य करोत्यर्थस्य क्रियाफलस्य वायं निर्देशः, कर्तृशब्देनैव तयोरुपात्तत्वात्पारिशेष्यात्प्रत्यक्षसन्निहितं जगत्सर्वनाम्नैतच्छब्देन निर्दिश्यतेक्रियत इति तदेव जगत्कर्मननु जगदप्यप्रकृतमसंशब्दितं सत्यमेतत्तथाप्यसति विशेषोपादाने साधारणेनार्थेन सन्निधानेन सन्निहितवस्तुमात्रस्यायं निर्देश इति गम्यते, विशिष्टस्य कस्यचित् , विशेषसन्निधानाभावात्पूर्वत्र जगदेकदेशभूतानां पुरुषाणां विशेषोपादानादविशेषितं जगदेवेहोपादीयत इति गम्यतेएतदुक्तं भवति एतेषां पुरुषाणां जगदेकदेशभूतानां कर्ताकिमनेन विशेषेण ? — यस्य कृत्स्नमेव जगदविशेषितं कर्मेति वाशब्द एकदेशावच्छिन्नकर्तृत्वव्यावृत्त्यर्थःये बालाकिना ब्रह्मत्वाभिमताः पुरुषाः कीर्तिताः, तेषामब्रह्मत्वख्यापनाय विशेषोपादानम्एवं ब्राह्मणपरिव्राजकन्यायेन सामान्यविशेषाभ्यां जगतः कर्ता वेदितव्यतयोपदिश्यतेपरमेश्वरश्च सर्वजगतः कर्ता सर्ववेदान्तेष्ववधारितः ॥ १६ ॥

तदेवं बालाक्यजातशत्रुसंवादवाक्यसन्दर्भस्य ब्रह्मपरत्वे स्थिते

यस्य वैतत्कर्म इति

व्यापाराभिधाने न सङ्गच्छत इति कर्मशब्दः कार्याभिधायी भवति, एतदितिसर्वनामपरामृष्टं च तत्कार्यं, सर्वनाम चेदं संनिहितपरामर्शि, नच किञ्चिदिह शब्दोक्तमस्ति संनिहितम् । न चादित्यादिपुरुषाः संनिहिता अपि परामर्शार्हाः बहुत्वात्पुंलिङ्गत्वाच्च । एतदिति चैकस्य नपुंसकस्याभिधानात् “एतेषां पुरुषाणां कर्ता” (कौ . ब्रा. ४ । १९) इत्यनेनैव गतार्थत्वाच्च । तस्मादशब्दोक्तमपि प्रत्यक्षसिद्धं सम्बन्धार्हं जगदेव पराम्रष्टव्यम् ।

एतदुक्तं भवति ।

अत्यल्पमिदमुच्यते एतेषामादित्यादिगतानां जगदेकदेशभूतानां कर्तेति, किन्तु कृत्स्नमेव जगद्यस्य कार्यमिति वाशब्देन सूच्यते । जीवप्राणशब्दौ च ब्रह्मपरौ जीवशब्दस्य ब्रह्मोपलक्षणपरत्वात् । न पुनर्ब्रह्मशब्दो जीवोपलक्षणपरः । तथा सति हि बह्वसमञ्जसं स्यादित्युक्तम् । न चानधिगतार्थावबोधनस्वरसस्य शब्दस्याधिगतबोधनं युक्तम् । नाप्यनधिगतेनाधिगतोपलक्षणमुपपन्नम् । नच सम्भवत्येकवाक्यत्वे वाक्यभेदो न्याय्यः । वाक्यशेषानुरोधेन च जीवप्राणपरमात्मोपासनात्रयविधाने वाक्यत्रयं भवेत् । पौर्वापर्यपर्यालोचनया तु ब्रह्मोपासनपरत्वे एकवाक्यतैव । तस्मान्न जीवप्राणपरत्वमपि तु ब्रह्मपरत्वमेवेति सिद्धम् ।

स्यादेतत् । निर्दिश्यन्तां पुरुषाः कार्यास्तद्विषया तु कृतिरनिर्दिष्टा तत्फलं वा कार्यस्योत्पत्तिस्ते यस्येदं कर्मेति निर्देक्ष्येते, ततः कुतः पौनरुक्त्यमित्यत आह -

नापि पुरुषविषयस्येति ।

एतदुक्तं भवति - कर्तृशब्देनैव कर्तारमभिदधता तयोरुपात्तत्वादाक्षिप्तत्वात् । नहि कृतिं विना कर्ता भवति । नापि कृतिर्भावनापराभिधाना भूतिमुत्पत्तिं विनेत्यर्थः ।

ननु यदीदमा जगत्परामृष्टं ततस्तदन्तर्भूताः पुरुषा अपीति य एतेषां पुरुषाणामिति पुनरुक्तमित्यत आह -

एतदुक्तं भवति । य एषां पुरुषाणामिति ॥ १६ ॥ ॥ १७ ॥