ननु “प्राण एवैकधा भवति”(कौ . ब्रा. ४ । २०) इत्यादिकादपि वाक्याज्जीवातिरिक्तः कुतः प्रतीयत इत्यतो वाक्यान्तरं पठति -
एतस्मादात्मनः प्राणा इति ।
अपि च सर्ववेदान्तसिद्धमेतदित्याह -
सुषुप्तिकाले चेति ।
वेदान्तप्रक्रियायामेवोपपत्तिमुपसंहारव्याजेनाह -
तस्माद्यत्रास्य
आत्मनो यतो निःसम्बोधोऽतः स्वच्छतारूपमिव रूपमस्येति स्वच्छतारूपो न तु स्वच्छतैव । लयविक्षेपसंस्कारयोस्तत्र भावात् । समुदाचरद्वृत्तिविक्षेपाभावमात्रेणोपमानम् । एतदेव विभजते - उपाधिभिः अन्तःकरणादिभिः जनितं यद्विशेषविज्ञानं घटपटादिविज्ञानं तद्रहितं स्वरूपमात्मनः यदि विज्ञानमित्येवोच्येत ततस्तदविशिष्टमनवच्छिन्नं सद्ब्रह्मैव स्यात्तच्च नित्यमिति नोपाधिजनितं नापि तद्रिहितं स्वरूपं ब्रह्मस्वभावस्याप्रहाणात् ।
अत उक्तम् -
विशेषेति ।
यदा तु लयलक्षणाविद्योपबृंहितो विक्षेपसंस्कारः समुदाचरति तदा विशेषविज्ञानोत्पादात्स्वप्नजागरावस्थातः परमात्मनो रूपाद्भ्रंशरूपमागमनमिति ।
न केवलं कौषीतकिब्राह्मणे, वाजसनेयेऽप्येवमेव प्रश्नोत्तरयोर्जीवव्यतिरिक्तमामनन्ति परमात्मानमित्याह -
अपि चैवमेक इति ।
नन्वत्राकाशं शयनस्थानं तत्कुतः परमात्मप्रत्यय इत्यत आह -
आकाशशब्दश्चेति ।
न तावन्मुख्यस्याकाशस्यात्माधारत्वसम्भवः । यदपि च द्वासप्ततिसहस्रहिताभिधाननाडीसञ्चारेण सुषुप्त्यवस्थायां पुरीतदवस्थानमुक्तं तदप्यन्तःकरणस्य । तस्मात् “दहरोऽस्मिन्नन्तराकाशः”(छा. उ. ८ । १ । १) इतिवदाकाशशब्दः परमात्मनि मन्तव्य इति ।
प्रथमं भाष्यकृता जीवनिराकरणाय सूत्रमिदमवतारितम् । तत्र मन्दधियां नेदं प्राणनिराकरणायेति बुद्धिर्मा भूदित्याशयवानाह -
प्राणनिराकरणस्यापीति ।
तौ हि बालाक्यजातशत्रू सुप्तं पुरुषमाजग्मतुः । तमजातशत्रुर्नामभिरामन्त्रयाञ्चक्रे “बृहत्पाण्डुरवासः सोमराजन्” इति । स आमन्त्र्यमाणो नोत्तस्थौ । तं पाणिनापेषं बोधयाञ्चकार । स होत्तस्थौ । स होवाचजातशत्रुर्यत्रैष एतत्सुप्तोऽभूत्” इत्यादि । सोऽयं सुप्तपुरुषोत्थापनेन प्राणादिव्यतिरिक्तोपदेश इति ॥ १८ ॥