वाक्यान्वयात् ।
ननु मैत्रेयीब्राह्मणोपक्रमे याज्ञवल्क्येन गार्हस्थ्याश्रमादुत्तमाश्रमं यियासता मैत्रैय्या भार्यायाः कात्यायन्या सहार्थसंविभागकरण उक्ते मैत्रेयी याज्ञवल्क्यं पतिममृतत्वार्थिनी पप्रच्छ, यन्नु म इयं भगोः सर्वा पृथ्वी वित्तेन पूर्णा स्यात्किमहं तेनामृता स्यामुत नेति । तत्र नेति होवाच याज्ञवल्क्यः । यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यादमृतत्वस्य तु नाशास्ति वित्तेन । एवं वित्तेनामृतत्वाशा भवेद्यदि वित्तसाध्यानि कर्माण्यमृतत्वे उपयुज्येरन् । तदेव तु नास्ति, ज्ञानसाध्यत्वादमृतत्वस्य कर्मणां च ज्ञानविरोधिनां तत्सहभावित्वानुपपत्तेरिति भावः । सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेनं कुर्यां यदेव भगवान् वेद तदेव मे ब्रूहि । अमृतत्वसाधनमिति शेषः । तत्रामृतत्वसाधनज्ञानोपन्यासाय वैराग्यपूर्वकत्वात्तस्य रागविषयेषु तेषु तेषु पतिजायादिषु वैराग्यमुत्पादयितुं याज्ञवल्क्यो “न वा अरे पत्युः कामाय”(बृ. उ. ४ । ५ । ६) इत्यादिवाक्यसन्दर्भमुवाच । आत्मौपाधिकं हि प्रियत्वमेषां न तु साक्षात्प्रियाण्येतानि ।
तस्मादेतेभ्यः पतिजायादिभ्यो विरम्य यत्र साक्षात्प्रेम स एव
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ।
वाशब्दोऽवधारणे । आत्मैव द्रष्टव्यः साक्षात्कर्तव्यः । एतत्साधनानि च श्रवणादीनि विहितानि श्रोतव्य इत्यादिना । कस्मात् । आत्मनो वा अरे दर्शनेन श्रवणादिसाधनेनेदं जगत्सर्वंविदितं भवतीति वाक्यशेषः । यतो नामरूपात्मकस्य जगतस्तत्त्वं पारमार्थिकं रूपमात्मैव भुजङ्गस्येव समारोपितस्य तत्त्वं रज्जुः । तस्मादात्मनि विदिते सर्वमिदं जगत्तत्त्वं विदितं भवति, रज्ज्वामिव विदितायां समारोपितस्य भुजङ्गस्य तत्त्वं विदितं भवति, यतस्तस्मादात्मैव द्रष्टव्यो न तु तदतिरिक्तं जगत् स्वरूपेण द्रष्टव्यम् । कुतः । यतो “ब्रह्म तं परादात्”(बृ. उ. २ । ४ । ६) ब्राह्मणजातिर्ब्राह्मणोऽहमित्येवमभिमान इति यावत् । परादात् पराकुर्यादमृतत्वपदात् । कं, योऽन्यत्रात्मनो ब्रह्म ब्राह्मणजातिं वेद । एवं क्षत्रियादिष्वपि द्रष्टव्यम् । आत्मैव जगतस्तत्त्वं न तु तदतिरिक्तं किञ्चित्तदिति । अत्रैव भगवती श्रुतिरुपपत्तिं दृष्टान्तप्रबन्धेनाह । यत् खलु यद्ग्रहं विना न शक्यते ग्रहीतुं तत्ततो न व्यतिरिच्यते । यथा रजतं शुक्तिकायाः, भुजङ्गो वा रज्जोः, दुन्दुभ्यादिशब्दसामान्याद्वा तत्तच्छब्दभेदाः । न गृह्यन्ते च चिद्रूपग्रहणं विना स्थितिकाले नामरूपाणि । तस्मान्न चिदात्मनो भिद्यन्ते ।
तदिदमुक्तम् -
स यथा दुन्दुभेर्हन्यमानस्येति ।
दुन्दुभिग्रहणेन तद्गतं शब्दसामान्यमुपलक्षयति । न केवलं स्थितिकाले नामरूपप्रपञ्चश्चिदात्मातिरेकेणाग्रहणाच्चिदात्मनो न व्यतिरिच्यतेऽपि तु नामरूपोत्पत्तेः प्रागपि चिद्रूपावस्थानात् तदुपादानत्वाच्च नामरूपप्रपञ्चस्य तदनतिरेकः, रज्जूपादानस्येव भुजङ्गस्य रज्जोरनतिरेक इत्येतद्दृष्टान्तेन साधयति भगवती श्रुतिः - “स यथार्द्रैधोऽग्रेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदः”(बृ. उ. २ । ४ । १०) इत्यादिना चतुर्विधो मन्त्र उक्तः । इतिहास इत्यादिनाष्टविधं ब्राह्मणमुक्तम् । एतदुक्तं भवति - यथाग्निमात्रं प्रथममवगम्यते क्षुद्राणां विस्फुलिङ्गानामुपादानम् । अथ ततो विस्फुलिङ्गा व्युच्चरन्ति । न चैतेऽग्नेस्तत्त्वान्यत्वाभ्यां शक्यन्ते निर्वुक्तम् । एवमृग्वेदादयोऽप्यल्पप्रयत्नाद्ब्रह्मणो व्युच्चरन्तो न ततस्तत्त्वान्यत्वाभ्यां निरुच्यन्ते । ऋगादिभिर्नामोपलक्ष्यते । यदा च नामधेयस्येयं गतिस्तदा तत्पूर्वकस्य रूपधेयस्य कैव कथेति भावः । न केवलं तदुपादानत्वात्ततो न व्यतिरिच्यते नामरूपप्रपञ्चः, प्रलयसमये च तदनुप्रवेशात्ततो न व्यतिरिच्यते । यथा सामुद्रमेवाम्भः पृथिवीतेजःसम्पर्कात्काठिन्यमुपगतं सैन्धवं खिल्यः, स हि स्वाकरे समुद्रे क्षिप्तोऽम्भ एव भवति, एवं चिदम्भोधौ लीनं जगच्चिदेव भवति न तु ततोऽतिरिच्यत इति ।
एतद्दृष्टान्तप्रबन्धेनाह -
स यथा सर्वासामपामित्यादि ।
दृष्टान्तप्रबन्धमुक्त्वा दार्ष्टान्तिके योजयति -
एवं वा अरे इदं महदिति ।
बृहत्वेन ब्रह्मोक्तम् । इदं ब्रह्मेत्यर्थः । भूतं सत्यम् । अनन्तं नित्यम् । अपारं सर्वगतम् ।
विज्ञानघनः ।
विज्ञानैकरस इति यावत् । एतेभ्यः कार्यकारणभावेन व्यवस्थितेभ्यो भूतेभ्यः समुत्थाय साम्येनोत्थाय । कार्यकारणसङ्घातस्य ह्यवच्छेदाद्दुःखित्वशोकित्वादयस्तदवच्छिन्ने चिदात्मनि तद्विपरीतेऽपि प्रतीयन्ते, यथोदकप्रतिबिम्बिते चन्द्रमसि तोयगताः कम्पादयः । तदिदं साम्येनोत्थानम् । यदा त्वागमाचार्योपदेशपूर्वकमनननिदिध्यासनप्रकर्षपर्यन्तजोऽस्य ब्रह्मस्वरूपसाक्षात्कार उपावर्तते तदा निर्मृष्टनिखिलसवासनाविद्यामलस्य कार्यकारणसङ्घातभूतस्य विनाशे तान्येव भूतानि नश्यन्त्यनु तदुपाधिश्चिदात्मनः खिल्यभावो विनश्यति । ततो न प्रेत्य कार्यकारणभूतनिवृत्तौ रूपगन्धादिसंज्ञास्तीति । न प्रेत्य संज्ञास्तीति संज्ञामात्रनिषेधादात्मा नास्तीति मन्यमाना सा मैत्रेयी होवाच, अत्रैव मा भगवानमूमुहन्मोहितवान् न प्रेत्य संज्ञास्तीति । स होवाच याज्ञवल्क्यः स्वाभिप्रायं, द्वैते हि रूपादिविशेषसंज्ञानिबन्धनो दुःखित्वाद्यभिमानः । आनन्दज्ञानैकरसब्रह्माद्वयानुभवे तु तत्केन कं पश्येत् , ब्रह्म वा केन विजानीयात् । नहि तदास्य कर्मर्भावोऽस्ति स्वप्रकाशत्वात् । एतदुक्तं भवति - न संज्ञामात्रं मया व्यासेधि, किन्तु विशेषसंज्ञेति । तदेवममृतत्वफलेनोपक्रमात् , मध्ये चात्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तदुपपादनात् , उपसंहारे च महद्भूतमनन्तमित्यादिना च ब्रह्मरूपाभिधानात् , द्वैतनिन्दया चाद्वैतगुणकीर्तनाद्ब्रह्मैव मैत्रेयीब्राह्मणे प्रतिपाद्यं न जीवात्मेति नास्ति पूर्वपक्ष इत्यनारभ्यमेवेदमधिकरणम् । अत्रोच्यते - भोक्तृत्वज्ञातृताजीवरूपोत्थानसमाधये मैत्रेयीब्राह्मणे पूर्वपक्षेणोपक्रमः कृतः । पतिजायादिभोग्यसम्बन्धो नाभोक्तुर्ब्रह्मणो युज्यते, नापिज्ञानकर्तृत्वमकर्तुः साक्षाच्च महतो भूतस्य विज्ञानात्मभावेन समुत्थानाभिधानं विज्ञानात्मन एव द्रष्टव्यत्वमाह । अन्यथा ब्रह्मणो द्रष्टव्यत्वपरेऽस्मिन् ब्राह्मणे तस्य विज्ञानात्मत्वेन समुत्थानाभिधानमनुपयुक्तं स्यात्तस्य तु द्रष्टव्यमुपयुज्यत इत्युपक्रममात्रं पूर्वपक्षः कृतः ।
भोक्त्रर्थत्वाच्च भोग्यजातस्येति
तदुपोद्बलमात्रम् । सिद्धान्तस्तु निगदव्याख्यातेन भाष्येणोक्तः ॥ १९ ॥