ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ २० ॥
अस्त्यत्र प्रतिज्ञा — ‘आत्मनि विज्ञाते सर्वमिदं विज्ञातं भवति’ ‘इदꣳ सर्वं यदयमात्माइति तस्याः प्रतिज्ञायाः सिद्धिं सूचयत्येतल्लिङ्गम् , यत्प्रियसंसूचितस्यात्मनो द्रष्टव्यत्वादिसङ्कीर्तनम्यदि हि विज्ञानात्मा परमात्मनोऽन्यः स्यात् , ततः परमात्मविज्ञानेऽपि विज्ञानात्मा विज्ञात इत्येकविज्ञानेन सर्वविज्ञानं यत्प्रतिज्ञातम् , तद्धीयेततस्मात्प्रतिज्ञासिद्ध्यर्थं विज्ञानात्मपरमात्मनोरभेदांशेनोपक्रमणमित्याश्मरथ्य आचार्यो मन्यते ॥ २० ॥

तदेवं पौर्वापर्यालोचनया मैत्रेयीब्राह्मणस्य ब्रह्मदर्शनपरत्वे स्थिते भोक्त्रा जीवात्मनोपक्रममाचार्यदेशीयमतेन तावत्समाधत्ते सूत्रकारः -

प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ।

यथा हि वह्नेर्विकारा व्युच्चरन्तो विस्फुलिङ्गा न वह्नेरत्यन्तं भिद्यन्ते, तद्रूपनिरूपणत्वात् , नापि ततोऽत्यन्तमभिन्नाः, वह्नेरिव परस्परव्यावृत्त्यभावप्रसङ्गात् , तथा जीवात्मनोऽपि ब्रह्मविकारा न ब्रह्मणोऽत्यन्तं भिद्यन्ते, चिद्रूपत्वाभावप्रसङ्गात् । नाप्यत्यन्तं न भिद्यन्ते, परस्परं व्यावृत्त्यभावप्रसङ्गात् , सर्वज्ञं प्रत्युपदेशवैयर्थ्याच्च । तस्मात्कथञ्चिद्भेदो जीवात्मनामभेदश्च । तत्र तद्विज्ञानेन सर्वविज्ञानप्रतिज्ञासिद्धये विज्ञानात्मपरमात्मनोरभेदमुपादाय परमात्मनि दर्शयितव्ये विज्ञानात्मनोपक्रम इत्याश्मरथ्य आचार्यो मेने ॥ २० ॥