ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ॥ २१ ॥
विज्ञानात्मन एव देहेन्द्रियमनोबुद्धिसङ्घातोपाधिसम्पर्कात्कलुषीभूतस्य ज्ञानध्यानादिसाधनानुष्ठानात्सम्प्रसन्नस्य देहादिसङ्घातादुत्क्रमिष्यतः परमात्मनैक्योपपत्तेरिदमभेदेनोपक्रमणमित्यौडुलोमिराचार्यो मन्यतेश्रुतिश्चैवं भवतिएष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ (छा. उ. ८ । १२ । ३) इतिक्वचिच्च जीवाश्रयमपि नामरूपं नदीनिदर्शनेन ज्ञापयतियथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहायतथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम्’ (मु. उ. ३ । २ । ८) इतियथा लोके नद्यः स्वाश्रयमेव नामरूपं विहाय समुद्रमुपयन्ति, एवं जीवोऽपि स्वाश्रयमेव नामरूपं विहाय परं पुरुषमुपैतीति हि तत्रार्थः प्रतीयतेदृष्टान्तदार्ष्टान्तिकयोस्तुल्यतायै ॥ २१ ॥

आचार्यदेशीयान्तरमतेन समाधत्ते -

उत्क्रमिष्यत एवंभावादित्यौडुलोमिः ।

जीवो हि परमात्मनोऽत्यन्तं भिन्न एव सन् देहेन्द्रियमनोबुद्ध्युपधानसम्पर्कात्सर्वदा कलुषः, तस्य च ज्ञानध्यानादिसाधनानुष्ठानात्सम्प्रसन्नस्य देहेन्द्रियादिसङ्घातादुत्क्रमिष्यतः परमात्मनैक्योपपत्तेरिदमभेदेनोपक्रमणम् । एतदुक्तं भवति - भविष्यन्तमभेदमुपादाय भेदकालेऽप्यभेद उक्तः । यथाहुः पाञ्चरात्रिकाः - “आमुक्तेर्भेद एव स्याज्जीवस्य च परस्य च । मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः” ॥ इति ।

अत्रैव श्रुतिमुपन्यस्यति -

श्रुतिश्चैवमिति ।

पूर्वं देहेन्द्रियाद्युपाधिकृतं कलुषत्वमात्मन उक्तम् । सम्प्रति स्वाभाविकमेव जीवस्य नामरूपप्रपञ्चाश्रयत्वलक्षणं कालुष्यं पार्थिवानामणूनामिव श्यामत्वं केवलं पाकेनेव ।

ज्ञानध्यानादिना तदपनीय जीवः परात्परतरं पुरुषमुपैतीत्याह -

क्वचिच्च जीवाश्रयमपीति ।

नदीनिदर्शनम् “यथा सोम्येमा नद्यः”(प्र.उ. ६-५) इति ॥ २१ ॥