ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
अवस्थितेरिति काशकृत्स्नः ॥ २२ ॥
यदप्युक्तं प्रकृतस्यैव महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन दर्शयन्विज्ञानात्मन एवेदं द्रष्टव्यत्वं दर्शयतीति, तत्रापीयमेव त्रिसूत्री योजयितव्या । ‘प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः’ — इदमत्र प्रतिज्ञातम् — ‘आत्मनि विदिते सर्वमिदं विदितं भवतिइदꣳ सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) इति ; उपपादितं सर्वस्य नामरूपकर्मप्रपञ्चस्यैकप्रसवत्वादेकप्रलयत्वाच्च दुन्दुभ्यादिदृष्टान्तैश्च कार्यकारणयोरव्यतिरेकप्रतिपादनात्; तस्या एव प्रतिज्ञायाः सिद्धिं सूचयत्येतल्लिङ्गम् , यन्महतो भूतस्य द्रष्टव्यस्य भूतेभ्यः समुत्थानं विज्ञानात्मभावेन कथितम् इत्याश्मरथ्य आचार्यो मन्यतेअभेदे हि सत्येकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातमवकल्पत इति । ‘उत्क्रमिष्यत एवंभावादित्यौडुलोमिः’ — उत्क्रमिष्यतो विज्ञानात्मनो ज्ञानध्यानादिसामर्थ्यात्सम्प्रसन्नस्य परेणात्मनैक्यसम्भवादिदमभेदाभिधानमित्यौडुलोमिराचार्यो मन्यते । ‘अवस्थितेरिति काशकृत्स्नः’ — अस्यैव परमात्मनोऽनेनापि विज्ञानात्मभावेनावस्थानादुपपन्नमिदमभेदाभिधानमिति काशकृत्स्न आचार्यो मन्यतेनूच्छेदाभिधानमेतत्एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति प्रेत्य संज्ञास्ति’ (बृ. उ. २ । ४ । १२) इतिकथमेतदभेदाभिधानम् ? नैष दोषःविशेषविज्ञानविनाशाभिप्रायमेतद्विनाशाभिधानम् , नात्मोच्छेदाभिप्रायम् । ‘अत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्तिइति पर्यनुयुज्य, स्वयमेव श्रुत्या अर्थान्तरस्य दर्शितत्वात् — ‘ वा अरेऽहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा मात्राऽसंसर्गस्त्वस्य भवतिइतिएतदुक्तं भवतिकूटस्थनित्य एवायं विज्ञानघन आत्मा; नास्योच्छेदप्रसङ्गोऽस्तिमात्राभिस्त्वस्य भूतेन्द्रियलक्षणाभिरविद्याकृताभिरसंसर्गो विद्यया भवतिसंसर्गाभावे तत्कृतस्य विशेषविज्ञानस्याभावात् प्रेत्य संज्ञास्तिइत्युक्तमितियदप्युक्तम् — ‘विज्ञातारमरे केन विजानीयात्इति कर्तृवचनेन शब्देनोपसंहाराद्विज्ञानात्मन एवेदं द्रष्टव्यत्वमिति, तदपि काशकृत्स्नीयेनैव दर्शनेन परिहरणीयम्अपि यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ (बृ. उ. २ । ४ । १५) इत्यारभ्याविद्याविषये तस्यैव दर्शनादिलक्षणं विशेषविज्ञानं प्रपञ्च्य, ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्इत्यादिना विद्याविषये तस्यैव दर्शनादिलक्षणस्य विशेषविज्ञानस्याभावमभिदधातिपुनश्च विषयाभावेऽप्यात्मानं विजानीयादित्याशङ्क्य, ‘विज्ञातारमरे केन विजानीयात्इत्याहततश्च विशेषविज्ञानाभावोपपादनपरत्वाद्वाक्यस्य विज्ञानधातुरेव केवलः सन्भूतपूर्वगत्या कर्तृवचनेन तृचा निर्दिष्ट इति गम्यतेदर्शितं तु पुरस्तात्काशकृत्स्नीयस्य पक्षस्य श्रुतिमत्त्वम्अतश्च विज्ञानात्मपरमात्मनोरविद्याप्रत्युपस्थापितनामरूपरचितदेहाद्युपाधिनिमित्तो भेदः, पारमार्थिक इत्येषोऽर्थः सर्वैर्वेदान्तवादिभिरभ्युपगन्तव्यःसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २)ब्रह्मैवेदं सर्वम्इदꣳ सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) नान्योऽतोऽस्ति द्रष्टा’ (बृ. उ. ३ । ७ । २३) नान्यदतोऽस्ति द्रष्टृ’ (बृ. उ. ३ । ८ । ११) इत्येवंरूपाभ्यः श्रुतिभ्यःस्मृतिभ्यश्चवासुदेवः सर्वमिति’ (भ. गी. ७ । १९) क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत’ (भ. गी. १३ । २) समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्’ (भ. गी. १३ । २७) इत्येवंरूपाभ्यःभेददर्शनापवादाच्चअन्योऽसावन्योऽहमस्मीति वेद यथा पशुः’ (बृ. उ. १ । ४ । १०) मृत्योः मृत्युमाप्नोति इह नानेव पश्यति’ (बृ. उ. ४ । ४ । १९) इत्येवंजातीयकात् वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४ । ४ । २५) इति आत्मनि सर्वविक्रियाप्रतिषेधात्अन्यथा मुमुक्षूणां निरपवादविज्ञानानुपपत्तेः, सुनिश्चितार्थत्वानुपपत्तेश्चनिरपवादं हि विज्ञानं सर्वाकाङ्क्षानिवर्तकमात्मविषयमिष्यतेवेदान्तविज्ञानसुनिश्चितार्थाः’ (मु. उ. ३ । २ । ६) इति श्रुतेःतत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इति स्थितप्रज्ञलक्षणस्मृतेश्चस्थिते क्षेत्रज्ञपरमात्मैकत्वविषये सम्यग्दर्शने क्षेत्रज्ञः परमात्मेति नाममात्रभेदात्क्षेत्रज्ञोऽयं परमात्मनो भिन्नः परमात्मायं क्षेत्रज्ञाद्भिन्न इत्येवंजातीयक आत्मभेदविषयो निर्बन्धो निरर्थकःएको ह्ययमात्मा नाममात्रभेदेन बहुधाभिधीयत इति हि सत्यं ज्ञानमनन्तं ब्रह्मयो वेद निहितं गुहायाम्’ (तै. उ. २ । १ । १) इति काञ्चिदेवैकां गुहामधिकृत्यैतदुक्तम् ब्रह्मणोऽन्यो गुहायां निहितोऽस्ति, तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) इति स्रष्टुरेव प्रवेशश्रवणात्ये तु निर्बन्धं कुर्वन्ति, ते वेदान्तार्थं बाधमानाः श्रेयोद्वारं सम्यग्दर्शनमेव बाधन्तेकृतकमनित्यं मोक्षं कल्पयन्तिन्यायेन सङ्गच्छन्त इति ॥ २२ ॥

द्वितीयपूर्वपक्षबीजमनयैव त्रिसूत्र्यापाकरोति -

यदप्युक्तमिति ।

शेषमतिरोहितार्थं व्याख्यातार्थं च । तृतीयपूर्वपक्षबीजनिरासे काशकृत्स्नीयेनैवेत्यवधारणं तन्मताश्रयणेनैव तस्य शक्यनिरासत्वात् । ऐकान्तिके ह्यद्वैते आत्मनोऽन्यकर्मकरणे “केन कं पश्येत्”(बृ. उ. ४ । ५ । १५) इति आत्मनश्च कर्मत्वं “विज्ञातारमरे केन विजानीयात्” (बृ. उ. २ । ४ । १४) इति शक्यं निषेद्धुम् । भेदाभेदपक्षे वैकान्तिके वा भेदे सर्वमेतदद्वैताश्रयमशक्यमित्यवधारणस्यार्थः ।

न केवलं काशकृत्स्नीयदर्शनाश्रयणेन भूतपूर्वगत्या विज्ञातृत्वमपि तु श्रुतिपौर्वापर्यपर्यालोचनयाप्येवमेवेत्याह -

अपि च यत्र हीति ।

कस्मात् पुनः काशकृत्स्नस्य मतमास्थीयते नेतरेषामाचार्याणामित्यत आह -

दर्शितं तु पुरस्तादिति ।

काशकृत्स्नीयस्य मतस्य श्रुतिप्रबन्धोपन्यासेन पुनः श्रुतिमत्त्वं स्मृतिमत्त्वं चोपसंहारोपक्रममाह -

अतश्चेति ।

क्वचित्पाठ आतश्चेति । तस्यावश्यं चेत्यर्थः । जननजरामरणभीतयो विक्रियास्तासां सर्वासां “महानजः”(बृ. उ. ४ । ४ । २५) इत्यादिना प्रतिषेधः । परिणामपक्षेऽन्यस्य चान्यभावपक्षे ऐकान्तिकाद्वैतप्रतिपादनपराः “एकमेवाद्वितीयम्” (छा. उ. ६ । २ । १) इत्यादयः, द्वैतदर्शननिन्दापराश्च “अन्योऽसावन्योऽहमस्मि” (बृ. उ. १ । ४ । १०) इत्यादयः, जन्मजरादिविक्रियाप्रतिषेधपराश्च “एष महानजः”(बृ. उ. ४ । ४ । २५) इत्यादयः श्रुतय उपरुध्येरन् । अपिच यदि जीवपरमात्मनोर्भेदाभेदावास्थीयेयातां ततस्तयोर्मिथो विरोधात्समुच्चयाभावादेकस्य बलीयस्त्वे नात्मनि निरपवादं विज्ञानं जायेत, बलीयसैकेन दुर्बलपक्षावलम्बिनो ज्ञानस्य बाधनात् । अथ त्वगृह्यमाणविशेषतया न बलाबलावधारणं, ततः संशये सति न सुनिश्चितार्थमात्मनि ज्ञानं भवेत् । सुनिश्चितार्थं च ज्ञानं मोक्षोपायः श्रूयते - “वेदान्तविज्ञानसुनिश्चितार्थाः” (मु. उ. ३ । २ । ६) इति ।

तदेतदाह -

अन्यथा मुमुक्षूणामिति ।

'एकत्वमनुपश्यतः” इति श्रुतिर्न पुनरेकत्वानेकत्वे अनुपश्यत इति ।

ननु यदि क्षेत्रज्ञपरमात्मनोरभेदो भाविकः, कथं तर्हि व्यपदेशबुद्धिभेदौ क्षेत्रज्ञः परमात्मेति कथञ्च नित्यशुद्धबुद्धमुक्तस्वभावस्य भगवतः संसारिता । अविद्याकृतनामरूपोपाधिवशादिति चेत् । कस्येयमविद्या । न तावज्जीवस्य, तस्य परमात्मनो व्यतिरेकाभावात् । नापि परमात्मनः, तस्य विद्यैकरसस्याविद्याश्रयत्वानुपपत्तेः । तदत्र संसारित्वासंसारित्वविद्याविद्यावत्त्वरूपविरुद्धधर्मसंसर्गाद्बुद्धिव्यपदेशभेदाच्चास्ति जीवेश्वरयोर्भेदोऽपि भाविक इत्यत आह -

स्थिते च परमात्मक्षेत्रज्ञात्मैकत्वेति ।

न तावद्भेदाभेदावेकत्र भाविकौ भवितुमर्हत इति विप्रपञ्चितं प्रथमे पादे । द्वैतदर्शननिन्दया चैकान्तिकाद्वैतप्रतिपादनपराः पौर्वापर्यालोचनया सर्वे वेदान्ताः प्रतीयन्ते । तत्र यथा बिम्बादवदतात्तात्त्विके प्रतिबिम्बानामभेदेऽपि नीलमणिकृपाणकाचाद्युपधानभेदात्काल्पनिको जीवानां भेदो बुद्धिव्यपदेशभेदौ वर्तयति, इदं बिम्बमवदातमिमानि च प्रतिबिम्बानि नीलोत्पलपलाशश्यामलानि वृत्तदीर्घादिभेदभाञ्जि बहूनीति, एवं परमात्मनः शुद्धस्वभावाज्जीवानमभेद ऐकान्तिकेऽप्यनिर्वचनीयानाद्यविद्योपधानभेदात्काल्पनिको जीवानां भेदो बुद्धिव्यपदेशभेदावयं च परमात्मा शुद्धविज्ञानानन्दस्वभाव इमे च जीवा अविद्याशोकदुःखाद्युपद्रवभाज इति वर्तयति । अविद्योपधानं च यद्यपि विद्यास्वभावे परमात्मनि न साक्षादस्ति तथापि तत्प्रतिबिम्बकल्पजीवद्वारेण परस्मिन्नुच्यते । न चैवमन्योन्याश्रयो जीवविभागाश्रयाऽविद्या, अविद्याश्रयश्च जीवविभाग इति, बीजाङ्कुरवदनादित्वात् । अत एव कानुद्दिश्यैष ईश्वरो मायामारचयत्यनर्थिकां, उद्देश्यानां सर्गादौ जीवानामभावात् , कथं चात्मानं संसारिणं विविधवेदनाभाजं कुर्यादित्याद्यनुयोगो निरवकाशः । न खल्वादिमान् संसारः, नाप्यादिमानविद्याजीवविभागः, येनानुयुज्येतेति । अत्र च नामग्रहणेनाविद्यामुपलक्षयति ।

स्यादेतत् । यदि न जीवात् ब्रह्म भिद्यते, हन्त जीवः स्फुट इति ब्रह्मापि तथा स्यात् , तथा च “निहितं गुहायाम्”(तै. उ. २ । १ । १) इति नोपपद्यत इत्यत आह -

न हि सत्यमिति ।

यथा हि बिम्बस्य मणिकृपाणादयो गुहा एवं ब्रह्मणोऽपि प्रतिजीवं भिन्ना अविद्या गुहा इति । यथा प्रतिबिम्बेषु भासमानेषु बिम्बं तदभिन्नमपि गुह्यमेवं जीवेषु भासमानेषु तदभिन्नमपि ब्रह्म गुह्यम् ।

अस्तु तर्हि ब्रह्मणोऽन्यद्गुह्यमित्यत आह -

न च ब्रह्मणोऽन्य इति ।

ये तु

आश्मरथ्यप्रभृतयः

निर्बन्धं कुर्वन्ति ते वेदान्तार्थमिति ।

ब्रह्मणः सर्वात्मना भागशो वा परिणामाभ्युपगमे तस्य कार्यत्वादनित्यत्वाच्च तदाश्रितो मोक्षोऽपि तथा स्यात् । यदि त्वेवमपि मोक्षं नित्यमकृतकं ब्रूयुस्तत्राह -

न्यायेनेति ।

एवं ये नदीसमुद्रनिदर्शनेनामुक्तेर्भेदं मुक्तस्य चाभेदं जीवस्यास्थिषत तेषामपि न्यायेनासङ्गतिः । नो जातु घटः पटो भवति । ननूक्तं यथा नदी समुद्रो भवतीति । का पुनर्नद्यभिमता आयुष्मतः । किं पाथःपरमाणव उतैषां संस्थानभेद आहोस्वित्तदारब्धोऽवयवी । तत्र संस्थानभेदस्य वावयविनो वा समुद्रनिवेशे विनाशात् कस्य समुद्रेणैकता । नदीपाथःपरमाणूनां तु समुद्रपाथःपरमाणुभ्यः पूर्ववस्थितेभ्यो भेद एव नाभेदः । एवं समुद्रादपि तेषां भेद एव । ये तु काशकृत्स्नीयमेव मतमास्थाय जीवं परमात्मनोंऽशमाचख्युस्तेषां कथं “निष्कलं निष्क्रियं शान्तम्”(श्वे. उ. ६ । १९) इति न श्रुतिविरोधः । निष्कलमिति सावयवत्वं व्यासेधि न तु सांशत्वम् , अंशश्च जीवः परमात्मनो नभस इव कर्णनेमिमण्डलावच्छिन्नं नभः शब्दश्रवणयोग्यं, वायोरिव च शरीरावच्छिन्नः पञ्चवृत्तिः प्राण इति चेत् । न तावन्नभो नभसोंऽशः, तस्य तत्त्वात् । कर्णनेमिमण्डलावच्छिन्नमंश इति चेत् , हन्त तर्हि प्राप्ताप्राप्तविवेकेन कर्णनेमिमण्डलं वा तत्संयोगो वेत्युक्तं भवति । नच कर्णनेमिमण्डलं तस्यांशः, तस्य ततो भेदात् । तत्संयोगो नभोधर्मत्वात्तस्यांश इति चेत् । न । अनुपपत्तेः । नभोधर्मत्वे हि तदनवयवं सर्वत्राभिन्नमिति तत्संयोगः सर्वत्र प्रथेत । नह्यस्ति सम्भवोऽनवयवमव्याप्यवर्तत इति । तस्मात्तत्रास्ति चेद्व्याप्यैव । न चेद्व्याप्नोति तत्र नास्त्येव । व्याप्यैवास्ति केवलं प्रतिसम्बन्ध्यधीननिरूपणतया न सर्वत्र निरूप्यत इति चेत् , न नाम निरूप्यताम् । तत्संयुक्तं तु नभः श्रवणयोग्यं सर्वत्रास्तीति सर्वत्र श्रवणप्रसङ्गः । नच भेदाभेदयोरन्यतरेणांशः शक्यो निर्वक्तुं न चोभाभ्यां, विरुद्धयोरेकत्रासमवायादित्युक्तम् । तस्मादनिर्वचनीयानाद्यविद्यापरिकल्पित एवांशो नभसो न भाविक इति युक्तम् । नच काल्पनिको ज्ञानमात्रायत्तजीवितः कथमविज्ञायमानोऽस्ति, असंश्चांशः कथं शब्दश्रवणलक्षणाय कार्याय कल्पते, न जातु रज्ज्वामज्ञायमान उरगो भयकम्पादिकार्याय पर्याप्त इति वाच्यम् । अज्ञातत्वासिद्धेः कार्यव्यङ्गत्वादस्य । कार्योत्पादात्पूर्वमज्ञातं कथं कार्योत्पादाङ्गमिति चेत् । न । पूर्वपूर्वकार्योत्पादव्यङ्ग्यत्वादसत्यपि ज्ञाने तत्संस्कारानुवृत्तेरनादित्वाच्च कल्पना तत्संस्कारप्रवाहस्य । अस्तु वानुपपत्तिरेव कार्यकारणयोर्मायात्मकत्वात् । अनुपपत्तिर्हि मायामुपोद्बलयत्यनुपपद्यमानार्थत्वान्मायायाः । अपि च भाविकांशवादिनां मते भाविकांशस्य ज्ञानेनोच्छेत्तुमशक्यत्वान्न ज्ञानध्यानसाधनो मोक्षः स्यात् । तदेवमकाशांश इव श्रोत्रमनिर्वचनीयम् । एवं जीवो ब्रह्मणोंऽश इति काशकृत्स्नीयं मतमिति सिद्धम् ॥ २२ ॥