ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥
थाभ्युदयहेतुत्वाद्धर्मो जिज्ञास्यः, एवं निःश्रेयसहेतुत्वाद्ब्रह्म जिज्ञास्यमित्युक्तम्ब्रह्म जन्माद्यस्य यतः’ (ब्र. सू. १ । १ । २) इति लक्षितम्तच्च लक्षणं घटरुचकादीनां मृत्सुवर्णादिवत्प्रकृतित्वे कुलालसुवर्णकारादिवन्निमित्तत्वे समानमित्यतो भवति विमर्शःकिमात्मकं पुनर्ब्रह्मणः कारणत्वं स्यादितितत्र निमित्तकारणमेव तावत्केवलं स्यादिति प्रतिभातिकस्मात् ? ईक्षापूर्वककर्तृत्वश्रवणात्ईक्षापूर्वकं हि ब्रह्मणः कर्तृत्वमवगम्यते ईक्षाञ्चक्रे’ (प्र. उ. ६ । ३) प्राणमसृजत’ (प्र. उ. ६ । ४) इत्यादिश्रुतिभ्यःईक्षापूर्वकं कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु दृष्टम्अनेककारकपूर्विका क्रियाफलसिद्धिर्लोके दृष्टा न्याय आदिकर्तर्यपि युक्तः सङ्क्रमयितुम्ईश्वरत्वप्रसिद्धेश्चईश्वराणां हि राजवैवस्वतादीनां निमित्तकारणत्वमेव केवलं प्रतीयतेतद्वत्परमेश्वरस्यापि निमित्तकारणत्वमेव युक्तं प्रतिपत्तुम्कार्यं चेदं जगत्सावयवमचेतनमशुद्धं दृश्यतेकारणेनापि तस्य तादृशेनैव भवितव्यम् , कार्यकारणयोः सारूप्यदर्शनात्ब्रह्म च नैवंलक्षणमवगम्यतेनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्’ (श्वे. उ. ६ । १९) इत्यादिश्रुतिभ्यःपारिशेष्याद्ब्रह्मणोऽन्यदुपादानकारणमशुद्ध्यादिगुणकं स्मृतिप्रसिद्धमभ्युपगन्तव्यम् , ब्रह्मकारणत्वश्रुतेर्निमित्तत्वमात्रे पर्यवसानादित्येवं प्राप्ते ब्रूमः

प्रकृत्यधिकरणविषयाः

प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ।

स्यादेतत् । वेदान्तानां ब्रह्मणि समन्वये दर्शिते समाप्तं समन्वयलक्षणमिति किमपरमवशिष्यते यदर्थमिदमारभ्यत इति शङ्कां निराकर्तुं सङ्गतिं दर्शयन्नवशेषमाह -

यथाभ्युदयेति ।

अत्र च लक्षणस्य सङ्गतिमुक्त्वा लक्षणेनास्याधिकरणस्य सङ्गतिरुक्ता । एतदुक्तं भवति - सत्यं जगत्कारणे ब्रह्मणि वेदान्तानामुक्तः समन्वयः ।

तत्र कारणभावस्योभयथा दर्शनाज्जगत्कारणत्वं ब्रह्मणः किं निमित्तत्वेनैव, उतोपादानत्वेनापि । तत्र यदि प्रथमः पक्षस्तत उपादानकारणानुसरणे साङ्ख्यस्मृतिसिद्धं प्रधानमभ्युपेयम् । तथा च “जन्माद्यस्य यतः” (ब्र. सू. १ । १ । २) इति ब्रह्मलक्षणमसाधु, अतिव्याप्तेः प्रधानेऽपि गतत्वात् । असम्भवाद्वा । यदि तूत्तरः पक्षस्ततो नातिव्याप्तिर्नाप्यव्याप्तिरिति साधु लक्षणम् । सोऽयमवशेषः । तत्र “ईक्षापूर्वकर्तृत्वं प्रभुत्वमसरूपता । निमित्तकारणेष्वेव नोपादानेषु कर्हिचित्” ॥ तदिदमाह -

तत्र निमित्तकारणमेव तावदिति ।

आगमस्य कारणमात्रे पर्यवसानादनुमानस्य तद्विशेषनियममागमो न प्रतिक्षिपत्यपि त्वनुमन्यत एवेत्याह -

पारिशेष्याद्ब्रह्मणोऽन्यदिति ।

ब्रह्मोपादानत्वस्य प्रसक्तस्य प्रतिषेधेऽन्यत्राप्रसङ्गात्साङ्ख्यस्मृतिप्रसिद्धमानुमानिकं प्रधानं शिष्यत इति । एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानम् “उत तमादेशम्”(छा. उ. ६ । १ । ३) इत्यादिना, “यथा सोम्यैकेन मृत्पिण्डेन” (छा. उ. ६ । १ । ४) इति च दृष्टान्तः, परमात्मनः प्राधान्यं सूचयतः । यथा सोमशर्मणैकेन ज्ञातेन सर्वे कठा ज्ञाता भवन्ति ।