ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ २३ ॥
प्रकृतिश्चोपादानकारणं ब्रह्माभ्युपगन्तव्यम् , निमित्तकारणं केवलं निमित्तकारणमेवकस्मात् ? प्रतिज्ञादृष्टान्तानुपरोधात्एवं हि प्रतिज्ञादृष्टान्तौ श्रौतौ नोपुरुध्येतेप्रतिज्ञा तावत्उत तमादेशमप्राक्ष्यो येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ (छा. उ. ६ । १ । ३) इतितत्र चैकेन विज्ञातेन सर्वमन्यदविज्ञातमपि विज्ञातं भवतीति प्रतीयतेतच्चोपादानकारणविज्ञाने सर्वविज्ञानं सम्भवति, उपादानकारणाव्यतिरेकात्कार्यस्यनिमित्तकारणाव्यतिरेकस्तु कार्यस्य नास्ति, लोके तक्ष्णः प्रासादव्यतिरेकदर्शनात्दृष्टान्तोऽपि यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातꣳ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ (छा. उ. ६ । १ । ४) इत्युपादानकारणगोचर एवाम्नायतेतथा एकेन लोहमणिना सर्वं लोहमयं विज्ञातꣳ स्यात्’ (छा. उ. ६ । १ । ५) एकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातꣳ स्यात्’ (छा. उ. ६ । १ । ६) इति तथान्यत्रापि कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इति प्रतिज्ञा; यथा पृथिव्यामोषधयः सम्भवन्ति’ (मु. उ. १ । १ । ७) इति दृष्टान्तःतथा आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदꣳ सर्वं विदितम्’ (बृ. उ. ४ । ५ । ६) इति प्रतिज्ञा; यथा दुन्दुभेर्हन्यमानस्य बाह्याञ्शब्दाञ्शक्नुयाद्ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः’ (बृ. उ. ४ । ५ । ८) इति दृष्टान्तःएवं यथासम्भवं प्रतिवेदान्तं प्रतिज्ञादृष्टान्तौ प्रकृतित्वसाधनौ प्रत्येतव्यौयत इतीयं पञ्चमीयतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इत्यत्र जनिकर्तुः प्रकृतिः’ (पा. सू. १ । ४ । ३०) इति विशेषस्मरणात्प्रकृतिलक्षण एवापादाने द्रष्टव्यानिमित्तत्वं त्वधिष्ठात्रन्तराभावादधिगन्तव्यम्यथा हि लोके मृत्सुवर्णादिकमुपादानकारणं कुलालसुवर्णकारादीनधिष्ठातॄनपेक्ष्य प्रवर्तते, नैवं ब्रह्मण उपादानकारणस्य सतोऽन्योऽधिष्ठातापेक्ष्योऽस्ति, प्रागुत्पत्तेःएकमेवाद्वितीयम्इत्यवधारणात्अधिष्ठात्रन्तराभावोऽपि प्रतिज्ञादृष्टान्तानुपरोधादेवोदितो वेदितव्यःअधिष्ठातरि ह्युपादानादन्यस्मिन्नभ्युपगम्यमाने पुनरप्येकविज्ञानेन सर्वविज्ञानस्यासम्भवात्प्रतिज्ञादृष्टान्तोपरोध एव स्यात्तस्मादधिष्ठात्रन्तराभावादात्मनः कर्तृत्वमुपादानान्तराभावाच्च प्रकृतित्वम् ॥ २३ ॥

एवं प्राप्त उच्यते -

प्रकृतिश्च ।

न केवलं ब्रह्म निमित्तकारणं, कुतः, प्रतिज्ञादृष्टान्तयोरनुपरोधात् । निमित्तकारणत्वमात्रे तु तावुपरुध्येयाताम् । तथाहि - “न मुख्ये सम्भवत्यर्थे जघन्या वृत्तिरिष्यते । न चानुमानिकं युक्तमागमेनापबाधितम् ॥ सर्वे हि तावद्वेदान्ताः पौर्वापर्येण वीक्षिताः । ऐकान्तिकाद्वैतपरा द्वैतमात्रनिषेधतः” ॥ तदिहापि प्रतिज्ञादृष्टान्तौ मुख्यार्थावेव युक्तौ न तु “यजमानः प्रस्तरः” इतिवद्गुणकल्पनया नेतव्यौ, तस्यार्थवादस्यातत्परत्वात् । प्रतिज्ञादृष्टान्तवाक्ययोस्त्वद्वैतपरत्वादुपादानकारणात्मकत्वाच्चोपादेयस्य कार्यजातस्योपादानज्ञानेन तज्ज्ञानोपपत्तेः । निमित्तकारणं तु कार्यादत्यन्तभिन्नमिति न तज्ज्ञाने कार्यज्ञानं भवति । अतो ब्रह्मोपादानकारणं जगतः । नच ब्रह्मणोऽन्यन्निमित्तकारणं जगत इत्यपि युक्तम् । प्रतिज्ञादृष्टान्तोपरोधादेव । नहि तदानीं ब्रह्मणि ज्ञाते सर्वं विज्ञातं भवति । जगन्निमित्तकारणस्य ब्रह्मणोऽन्यस्य सर्वमध्यपातिनस्तज्ज्ञानेनाविज्ञानात् । यत इति च पञ्चमी न कारणमात्रे स्मर्यते अपि तु प्रकृतौ, “जनिकर्तुः प्रकृतिः”(पा. सू. १ । ४ । ३०) इति । ततोऽपि प्रकृतित्वमवगच्छामः । दुन्दुभिग्रहणं दुन्दुभ्याघातग्रहणं च तद्गतशब्दत्वसामान्योपलक्षणार्थम् ॥ २३ ॥ अनागतेच्छासङ्कल्पोऽभिध्या । एतया खलु स्वातन्त्र्यलक्षणेन कर्तृत्वेन निमित्तत्वं दर्शितम् । “बहु स्याम्” (छा. उ. ६ । २ । ३) इति च स्वविषयतयोपादानत्वमुक्तम् ॥ २४ ॥