ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
एतेन सर्वे व्याख्याता व्याख्याताः ॥ २८ ॥
ईक्षतेर्नाशब्दम्’ (ब्र. सू. १ । १ । ५) इत्यारभ्य प्रधानकारणवादः सूत्रैरेव पुनः पुनराशङ्क्य निराकृतःतस्य हि पक्षस्योपोद्बलकानि कानिचिल्लिङ्गाभासानि वेदान्तेष्वापातेन मन्दमतीन्प्रति भान्तीति कार्यकारणानन्यत्वाभ्युपगमात्प्रत्यासन्नो वेदान्तवादस्य देवलप्रभृतिभिश्च कैश्चिद्धर्मसूत्रकारैः स्वग्रन्थेष्वाश्रितःतेन तत्प्रतिषेधे यत्नोऽतीव कृतः, नाण्वादिकारणवादप्रतिषेधेतेऽपि तु ब्रह्मकारणवादपक्षस्य प्रतिपक्षत्वात्प्रतिषेद्धव्याःतेषामप्युपोद्बलकं वैदिकं किञ्चिल्लिङ्गमापातेन मन्दमतीन्प्रति भायादितिअतः प्रधानमल्लनिबर्हणन्यायेनातिदिशतिएतेन प्रधानकारणवादप्रतिषेधन्यायकलापेन सर्वेऽण्वादिकारणवादा अपि प्रतिषिद्धतया व्याख्याता वेदितव्याःतेषामपि प्रधानवदशब्दत्वाच्छब्दविरोधित्वाच्चेतिव्याख्याता व्याख्याता इति पदाभ्यासोऽध्यायपरिसमाप्तिं द्योतयति ॥ २८ ॥

स्यादेतत् । मा भूत्प्रधानं जगदुपादानं तथापि न ब्रह्मोपादानत्वं सिध्यति, परमाण्वादीनामपि तदुपादानानामुपप्लवमानत्वात् , तेषामपि हि किञ्चिदुपोद्बलकमस्ति वैदिकं लिङ्गमित्याशङ्कामपनेतुमाह सूत्रकारः -

एतेन सर्वे व्याख्याता व्याख्याताः ।

निगदव्याख्यातेन भाष्येण व्याख्यातं सूत्रम् । “प्रतिज्ञालक्षणं लक्ष्यमाणे पदसमन्वयः वैदिकः स च तत्रैव नान्यत्रेत्यत्र साधितम्” ॥ २८ ॥

इति श्रीमद्वाचस्पतिमिश्रविरचिते श्रीमच्छारीरकभाष्यविभागे भामत्यां प्रथमाध्यायस्य चतुर्थः पादः ॥ ४ ॥

॥ इति प्रथमाध्यायेऽव्यक्तादिसन्दिग्धपदमात्रसमन्वयाख्यश्चतुर्थः पादः ॥

॥ इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये समन्वयाख्यः प्रथमोऽध्यायः ॥