ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
भामतीव्याख्या
 
योनिश्च हि गीयते ॥ २७ ॥
इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्म योनिरित्यपि पठ्यते वेदान्तेषुकर्तारमीशं पुरुषं ब्रह्मयोनिम्’ (मु. उ. ३ । १ । ३) इति यद्भूतयोनिं परिपश्यन्ति धीराः’ (मु. उ. १ । १ । ६) इति योनिशब्दश्च प्रकृतिवचनः समधिगतो लोके — ‘पृथिवी योनिरोषधिवनस्पतीनाम्इतिस्त्रीयोनेरप्यस्त्येवावयवद्वारेण गर्भं प्रत्युपादानकारणत्वम्क्वचित्स्थानवचनोऽपि योनिशब्दो दृष्टः योनिष्ट इन्द्र निषदे अकारि’ (ऋ. सं. १ । १०४ । १) इतिवाक्यशेषात्त्वत्र प्रकृतिवचनता परिगृह्यतेयथोर्णनाभिः सृजते गृह्णते ’ (मु. उ. १ । १ । ७) इत्येवंजातीयकात्तदेवं प्रकृतित्वं ब्रह्मणः प्रसिद्धम्यत्पुनरिदमुक्तम् , ईक्षापूर्वकं कर्तृत्वं निमित्तकारणेष्वेव कुलालादिषु लोके दृष्टम् , नोपादानेष्वित्यादि; तत्प्रत्युच्यते लोकवदिह भवितव्यम् ह्ययमनुमानगम्योऽर्थःशब्दगम्यत्वात्त्वस्यार्थस्य यथाशब्दमिह भवितव्यम्शब्दश्चेक्षितुरीश्वरस्य प्रकृतित्वं प्रतिपादयतीत्यवोचामपुनश्चैतत्सर्वं विस्तरेण प्रतिवक्ष्यामः ॥ २७ ॥

पूर्वपक्षिणोऽनुमानमनुभाष्यागमविरोधेन दूषयति -

यत्पुनरिति ।

एतदुक्तं भवति - ईश्वरो जगतो निमित्तकारणमेव ईक्षापूर्वकजगत्कर्तृत्वात् , कुम्भकर्तुकुलालवत् । अत्रेश्वरस्यासिद्धेराश्रयासिद्धो हेतुः पक्षश्चाप्रसिद्धविशेषः । यथाहुः - “नानुपलब्धे न्यायः प्रवर्तते” इति । आगमात्तत्सिद्धिरिति चेत् , हन्त तर्हि यादृशमीश्वरमागमो गमयति तादृशोऽभ्युपगन्तव्यः स च निमित्तकारणं चोपादानकारणं चेश्वरमवगमयति । विशेष्याश्रयग्राह्यागमविरोधान्नानुमानमुदेतुमर्हतीति कुतस्तेन निमित्तत्वावधारणेत्यर्थः । इयं चोपादानपरिणामादिभाषा न विकाराभिप्रायेणापि तु तथा सर्पस्योपादानं रज्जुरेवं ब्रह्म जगदुपादानं द्रष्टव्यम् । न खलु नित्यस्य निष्कलस्य ब्रह्मणः सर्वात्मनैकदेशेन वा परिणामः सम्भवति, नित्यत्वादनेकदेशत्वादित्युक्तम् । नच मृदः शरावादयो भिद्यन्ते, न चाभिन्नाः, न वा भिन्नाभिन्नाः किन्त्वनिर्वचनीया एव । यथाह श्रुतिः - “मृत्तिकेत्येव सत्यम्”(छा. उ. ६ । १ । ४) इति । तस्मादद्वैतोपक्रमादुपसंहाराच्च सर्व एव वेदान्ता ऐकान्तिकाद्वैतपराः सन्तः साक्षादेव क्वचिदद्वैतमाहुः, क्वचिद्द्वैतनिषेधेन, क्वचिद्ब्रह्मोपादानत्वेन जगतः । एतावतापि तावद्भेदो निषिद्धो भवति, न तूपादानत्वाभिधानमात्रेण विकारग्रह आस्थेयः । नहि वाक्यैकदेशस्यार्थोऽस्तीति ॥ २७ ॥