आत्मकृतेः परिणामात् ॥ २६ ॥
इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्मप्रक्रियायाम् ‘तदात्मानं स्वयमकुरुत’ (तै. उ. २ । ७ । १) इत्यात्मनः कर्मत्वं कर्तृत्वं च दर्शयति; आत्मानमिति कर्मत्वम् , स्वयमकुरुतेति कर्तृत्वम् । कथं पुनः पूर्वसिद्धस्य सतः कर्तृत्वेन व्यवस्थितस्य क्रियमाणत्वं शक्यं सम्पादयितुम् ? परिणामादिति ब्रूमः — पूर्वसिद्धोऽपि हि सन्नात्मा विशेषेण विकारात्मना परिणमयामासात्मानमिति । विकारात्मना च परिणामो मृदाद्यासु प्रकृतिषूपलब्धः । स्वयमिति च विशेषणान्निमित्तान्तरानपेक्षत्वमपि प्रतीयते । ‘परिणामात्’ इति वा पृथक्सूत्रम् । तस्यैषोऽर्थः — इतश्च प्रकृतिर्ब्रह्म, यत्कारणं ब्रह्मण एव विकारात्मना परिणामः सामानाधिकरण्येनाम्नायते ‘सच्च त्यच्चाभवत् । निरुक्तं चानिरुक्तं च’ (तै. उ. २ । ६ । १) इत्यादिनेति ॥ २६ ॥