ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भामतीव्याख्या
 
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ १ ॥
तस्य समाधिः — ‘नान्यस्मृत्यनवकाशदोषप्रसङ्गात्इतियदि स्मृत्यनवकाशदोषप्रसङ्गेनेश्वरकारणवाद आक्षिप्येत, एवमप्यन्या ईश्वरकारणवादिन्यः स्मृतयोऽनवकाशाः प्रसज्येरन्ता उदाहरिष्यामः — ‘यत्तत्सूक्ष्ममविज्ञेयम्इति परं ब्रह्म प्रकृत्य, ‘ ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यतेइति चोक्त्वा, तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम’(म॰भा॰ १२-३३४-२९,३०,३१) इत्याहतथान्यत्रापि अव्यक्तं पुरुषे ब्रह्मन्निर्गुणे सम्प्रलीयते’(म॰भा॰ १२-३३९-३१) इत्याहअतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणः सर्गकाले करोति सर्वं संहारकाले तदत्ति भूयः’(ब्र॰पु॰ १-१-१७४) इति पुराणेभगवद्गीतासु अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा’ (भ. गी. ७ । ६) इतिपरमात्मानमेव प्रकृत्यापस्तम्बः पठतितस्मात्कायाः प्रभवन्ति सर्वे मूलं शाश्वतिकः नित्यः’ (आ. ध. सू. १ । ८ । २३ । २) इतिएवमनेकशः स्मृतिष्वपीश्वरः कारणत्वेनोपादानत्वेन प्रकाश्यतेस्मृतिबलेन प्रत्यवतिष्ठमानस्य स्मृतिबलेनैवोत्तरं वक्ष्यामीत्यतोऽयमन्यस्मृत्यनवकाशदोषोपन्यासःदर्शितं तु श्रुतीनामीश्वरकारणवादं प्रति तात्पर्यम्विप्रतिपत्तौ स्मृतीनामवश्यकर्तव्येऽन्यतरपरिग्रहेऽन्यतरपरित्यागे श्रुत्यनुसारिण्यः स्मृतयः प्रमाणम्अनपेक्ष्या इतराःतदुक्तं प्रमाणलक्षणेविरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्’ (जै. सू. १ । ३ । ३) इति चातीन्द्रियानर्थान् श्रुतिमन्तरेण कश्चिदुपलभत इति शक्यं सम्भावयितुम् , निमित्ताभावात्शक्यं कपिलादीनां सिद्धानामप्रतिहतज्ञानत्वादिति चेत् , सिद्धेरपि सापेक्षत्वात्धर्मानुष्ठानापेक्षा हि सिद्धिः, धर्मश्चोदनालक्षणःततश्च पूर्वसिद्धायाश्चोदनाया अर्थो पश्चिमसिद्धपुरुषवचनवशेनातिशङ्कितुं शक्यतेसिद्धव्यपाश्रयकल्पनायामपि बहुत्वात्सिद्धानां प्रदर्शितेन प्रकारेण स्मृतिविप्रतिपत्तौ सत्यां श्रुतिव्यपाश्रयादन्यन्निर्णयकारणमस्तिपरतन्त्रप्रज्ञस्यापि नाकस्मात्स्मृतिविशेषविषयः पक्षपातो युक्तः, कस्यचित्क्वचित्पक्षपाते सति पुरुषमतिवैश्वरूप्येण तत्त्वाव्यवस्थानप्रसङ्गात्तस्मात्तस्यापि स्मृतिविप्रतिपत्त्युपन्यासेन श्रुत्यनुसाराननुसारविषयविवेचनेन सन्मार्गे प्रज्ञा सङ्ग्रहणीयाया तु श्रुतिः कपिलस्य ज्ञानातिशयं प्रदर्शयन्ती प्रदर्शिता तया श्रुतिविरुद्धमपि कापिलं मतं श्रद्धातुं शक्यम् , कपिलमिति श्रुतिसामान्यमात्रत्वात् , अन्यस्य कपिलस्य सगरपुत्राणां प्रतप्तुर्वासुदेवनाम्नः स्मरणात् , अन्यार्थदर्शनस्य प्राप्तिरहितस्यासाधकत्वात्भवति चान्या मनोर्माहात्म्यं प्रख्यापयन्ती श्रुतिःयद्वै किञ्च मनुरवदत्तद्भेषजम्’ (तै. सं. २ । २ । १० । २) इति; मनुना सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनिसम्पश्यन्नात्मयाजी वै स्वाराज्यमधिगच्छति’ (मनु. स्मृ. १२ । ९१) इति सर्वात्मत्वदर्शनं प्रशंसता कापिलं मतं निन्द्यत इति गम्यतेकपिलो हि सर्वात्मत्वदर्शनमनुमन्यते, आत्मभेदाभ्युपगमात्महाभारतेऽपि बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु’(म॰भा॰ १२-३५०-१) इति विचार्य, ‘बहवः पुरुषा राजन्साङ्ख्ययोगविचारिणाम्इति परपक्षमुपन्यस्य तद्व्युदासेनबहूनां पुरुषाणां हि यथैका योनिरुच्यते’,‘ तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्’(म॰भा॰ १२-३५०-२६,२७) इत्युपक्रम्यममान्तरात्मा तव ये चान्ये देहसंस्थिताःसर्वेषां साक्षिभूतोऽसौ ग्राह्यः केनचित्क्वचित् ॥’,‘विश्वमूर्धा विश्वभुजो विश्वपादाक्षिनासिकःएकश्चरति भूतेषु स्वैरचारी यथासुखम्’(म॰भा॰ १२-३५१-४,५)इति सर्वात्मतैव निर्धारिताश्रुतिश्च सर्वात्मतायां भवतियस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतःतत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इत्येवंविधाअतश्च सिद्धमात्मभेदकल्पनयापि कपिलस्य तन्त्रं वेदविरुद्धं वेदानुसारिमनुवचनविरुद्धं , केवलं स्वतन्त्रप्रकृतिकल्पनयैवेतिवेदस्य हि निरपेक्षं स्वार्थे प्रामाण्यम् , रवेरिव रूपविषयेपुरुषवचसां तु मूलान्तरापेक्षं वक्तृस्मृतिव्यवहितं चेति विप्रकर्षःतस्माद्वेदविरुद्धे विषये स्मृत्यनवकाशप्रसङ्गो दोषः ॥ १ ॥

तस्य समाधिरिति ।

यथा हि श्रुतीनामविगानं ब्रह्मणि गतिसामान्यात् , नैवं स्मृतीनामविगानमस्ति प्रधाने, तासां भूयसीनां ब्रह्मोपादानत्वप्रतिपादनपराणां तत्र तत्र दर्शनात् । तस्मादविगानाच्छ्रौत एवार्थ आस्थेयो न तु स्मार्तो विगानादिति । तत्किमिदानीं परस्परविगानात्सर्वा एव स्मृतयोऽवहेया इत्यत आह

विप्रतिपत्तौ च स्मृतीनामिति ।

न चातीन्द्रियार्थानिति ।

अर्वाग्दृगभिप्रायम् ।

शङ्कते

शक्यं कपिलादीनामिति ।

निराकरोति

न । सिद्धेरपीति ।

न तावत्कपिलादय ईश्वरवदाजानसिद्धाः, किन्तु विनिश्चतवेदप्रामाण्यानां तेषां तदनुष्ठानवतां प्राचि भवेऽस्मिञ्जन्मनि सिद्धिः, अत एवाजानसिद्धा उच्यन्ते । यदस्मिन् जन्मनि न तैः सिद्ध्युपायोऽनुष्ठितः प्राग्भवीयवेदार्थानुष्ठानलब्धजन्मत्वात्तत्सिद्धीनाम् । तथा चावधृतवेदप्रामाण्यानां तद्विरुद्धार्थाभिधानं तदपबाधितमप्रमाणमेव । अप्रमाणेन च न वेदार्थोऽतिशङ्कितुं युक्तः प्रमाणसिद्धत्वात्तस्य । तदेवं वेदविरोधे सिद्धवचनमप्रमाणमुक्त्वा सिद्धानामपि परस्परविरोधे तद्वचनादनाश्वास इति पूर्वोक्तं स्मारयति

सिद्धव्यपाश्रयकल्पनायामपीति ।

श्रद्धाजडान्बोधयति

परतन्त्रप्रज्ञस्यापीति ।

ननु श्रुतिश्चेत्कपिलादीनामनावरणभूतार्थगोचरज्ञानातिशयं बोधयति, कथं तेषां वचनमप्रमाणं, तदप्रामाण्ये श्रुतेरप्यप्रामाण्यप्रसङ्गादित्यत आह

या तु श्रुतिरिति ।

न तावत्सिद्धानां परस्परविरुद्धानि वचांसि प्रमाणं भवितुमर्हन्ति । नच विकल्पो वस्तुनि, सिद्धे तदनुपपत्तेः । अनुष्ठानमनागतोत्पाद्यं विकल्प्यते, न सिद्धम् । तस्य व्यवस्थानात् । तस्माच्छुतिसामान्यमात्रेण भ्रमः साङ्ख्यप्रणेता कपिलः श्रौत इति । स्यादेतत् । कपिल एव श्रौतो नान्ये मन्वादयः । ततश्च तेषां स्मृतिः कपिलस्मृतिविरुद्धावहेयेत्यत आह

भवति चान्या मनोरिति ।

तस्याश्चागमान्तरसंवादमाह

महाभारतेऽपि चेति ।

न केवलं मनोः स्मृतिः स्मृत्यन्तरसंवादिनी, श्रुतिसंवादिन्यपीत्याह

श्रुतिश्चेति ।

उपसंहरति

अत इति ।

स्यादेतत् । भवतु वेदविरुद्धं कापिलं वचस्तथापि द्वयोरपि पुरुषबुद्धिप्रभवतया को विनिगमनायां हेतुर्यतो वेदविरोधि कापिलं वचो नादरणीयमित्यत आह

वेदस्य हि निरपेक्षमिति ।

अयमभिसन्धिःसत्यं शास्त्रयोनिरीश्वरस्तथाप्यस्य न शास्त्रक्रियायामस्ति स्वातन्त्र्यं कपिलादीनामिव । स हि भगवान् यादृशं पूर्वस्मिन् सर्गे चकार शास्त्रं तदनुसारेणास्मिन्नपि सर्गे प्रणीतवान् । एवं पूर्वतरानुसारेण पूर्वस्मिन् पूर्वतमानुसारेण च पूर्वतर इत्यनादिरयं शास्त्रेश्वरयोः कार्यकारणभावः । तत्रेश्वरस्य न शास्त्रार्थज्ञानपूर्वा शास्त्रक्रिया येनास्य कपिलादिवत्स्वातन्त्र्यं भवत् । शास्त्रार्थज्ञानं चास्य स्वयमाविर्भवदपि न शास्त्रकारणतामुपैति, द्वयोरप्यपर्यायेणाविर्भावात् । शास्त्रं च स्वतोबोधकतया पुरुषस्वातन्त्र्याभावेन निरस्तसमस्तदोषाशङ्कं सदनपेक्षं साक्षादेव स्वार्थे प्रमाणम् । कपिलादिवचांसि तु स्वतन्त्रकपिलादिप्रणेतृकाणि तदर्थस्मृतिपूर्वकाणि, तदर्थस्मृतयश्च तदर्थानुभवपूर्वाः । तस्मात्तासामर्थप्रत्ययाङ्गप्रामाण्यविनिश्चयाय यावत्स्मृत्यनुभवौ कल्पेते तावत्स्वतः सिद्धप्रमाणभावयाऽनपेक्षयैव श्रुत्या स्वार्थो विनिश्चायित इति शीघ्रतरप्रवृत्तया श्रुत्या स्मृत्यर्थो बाध्यत इति युक्तम् ॥ १ ॥

इतरेषां चानुपलब्धेः ।

प्रधानस्य तावत्क्वचिद्वेदप्रदेशे वाक्याभासानि दृश्यन्ते, तद्विकाराणां तु महदादीनां तान्यपि न सन्धि । नच भूतेन्द्रियादिवन्महदादयो लोकसिद्धाः । तस्मादात्यन्तिकात्प्रमाणान्तरासंवादात्प्रमाणमूलत्वाच्च स्मृतेर्मूलाभावादभावो वन्ध्याया इव दौहित्र्यस्मृतेः । न चार्षज्ञानमत्र मूलमुपपद्यत इति युक्तम् । तस्मान्न कापिलस्मृतेः प्रधानोपादानत्वं जगत इति सिद्धम् ॥ २ ॥