न विलक्षणत्वादस्य तथात्वं च शब्दात् ।
अवान्तरसङ्गतिमाह
ब्रह्मास्य जगतो निमित्तकारणं प्रकृतिश्चेत्यस्य पक्षस्येति ।
चोदयति
कुतः पुनरिति ।
समानविषयत्वे हि विरोधो भवेत् । न चेहास्ति समानविषयता, धर्मवद्ब्रह्मणोऽपि मानान्तराविषयतयातर्क्यत्वेनानपेक्षाम्नायैकगोचरत्वादित्यर्थः । समाधत्ते
भवेदयमिति ।
“मानान्तरस्याविषयः सिद्धवस्त्ववगाहिनः । धर्मोऽस्तु कार्यरूपत्वाद्ब्रह्म सिद्धं तु गोचरः ॥' तस्मात्समानविषयत्वादस्त्यत्र तर्कस्यावकाशः । नन्वस्तु विरोधः, तथापि तर्कादरे को हेतुरित्यत आह
यथा च श्रुतीनामिति ।
सावकाशा बह्वयोऽपि श्रुतयोऽनवकाशैकश्रुतिविरोधे तदनुगुणतया यथा नीयन्ते एवमनवकाशैकतर्कविरोधे तदनुगुणतया बह्वयोऽपि श्रुतयो गुणकल्पनादिभिर्व्याख्यानमर्हन्तीत्यर्थः । अपि च ब्रह्मसाक्षात्कारो विरोधितयानादिमविद्यां निवर्तयन् दृष्टेनैव रूपेण मोक्षसाधनमिष्यते । तत्र ब्रह्मसाक्षात्कारस्य मोक्षसाधनतया प्रधानस्यानुमानं दृष्टसाधर्म्येणादृष्टविषयं विषयतोऽन्तरङ्गं, बहिरङ्गं त्वत्यन्तपरोक्षगोचरं शाब्दं ज्ञानं, तेन प्रधानप्रत्यासत्त्याप्यनुमानमेव बलीय इत्याह
दृष्टसाधर्म्येण चेति ।
अपि च श्रुत्यापि ब्रह्मणि तर्क आदृत इत्याह
श्रुतिरिति ।
सोऽयं ब्रह्मणो जगदुपादानत्वाक्षेपः पुनस्तर्केण प्रस्तूयते “प्रकृत्या सह सारूप्यं विकाराणामवस्थितम् । जगद्ब्रह्मसरूपं च नेति नो तस्य विक्रिया ॥ विशुद्धं चेतनं ब्रह्म जगज्जडमशुद्धिभाक् । तेन प्रधानसारूप्यात्प्रधानस्यैव विक्रिया ॥' तथाहि एक एव स्त्रीकायः सुखदुःखमोहात्मकतया पत्युश्च सपत्नीनां च चैत्रस्य च स्त्रैणस्य तामविन्दतोऽपर्यायं सुखदुःखविषादानाधत्ते । स्त्रिया च सर्वे भावा व्याख्याताः । तस्मात्सुखदुःखमोहात्मतया च स्वर्गनरकाद्युच्चावचप्रपञ्चतया च जगदशुद्धमचेतनं च, ब्रह्म तु चेतनं विशुद्धं च, निरतिशयत्वात् । तस्मात्प्रधानस्याशुद्धस्याचेतनस्य विकारो जगन्न तु ब्रह्मण इति युक्तम् । ये तु चेतनब्रह्मविकारतया जगच्चैतन्यमाहुस्तान्प्रत्याह