ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
भामतीव्याख्या
 
न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ ४ ॥
यदुक्तम् चेतनं ब्रह्म जगतः कारणं प्रकृतिः इति, तन्नोपपद्यतेकस्मात् ? विलक्षणत्वादस्य विकारस्य प्रकृत्याःइदं हि ब्रह्मकार्यत्वेनाभिप्रेयमाणं जगद्ब्रह्मविलक्षणमचेतनमशुद्धं दृश्यतेब्रह्म जगद्विलक्षणं चेतनं शुद्धं श्रूयते विलक्षणत्वे प्रकृतिविकारभावो दृष्टः हि रुचकादयो विकारा मृत्प्रकृतिका भवन्ति, शरावादयो वा सुवर्णप्रकृतिकाःमृदैव तु मृदन्विता विकाराः क्रियन्ते, सुवर्णेन सुवर्णान्विताःतथेदमपि जगदचेतनं सुखदुःखमोहान्वितं सत् अचेतनस्यैव सुखदुःखमोहात्मकस्य कारणस्य कार्यं भवितुमर्हति, विलक्षणस्य ब्रह्मणःब्रह्मविलक्षणत्वं चास्य जगतोऽशुद्ध्यचेतनत्वदर्शनादवगन्तव्यम्अशुद्धं हीदं जगत् , सुखदुःखमोहात्मकतया प्रीतिपरितापविषादादिहेतुत्वात्स्वर्गनरकाद्युच्चावचप्रपञ्चत्वाच्चअचेतनं चेदं जगत् , चेतनं प्रति कार्यकरणभावेनोपकरणभावोपगमात् हि साम्ये सत्युपकार्योपकारकभावो भवति हि प्रदीपौ परस्परस्योपकुरुतःननु चेतनमपि कार्यकरणं स्वामिभृत्यन्यायेन भोक्तुरुपकरिष्यति, स्वामिभृत्ययोरप्यचेतनांशस्यैव चेतनं प्रत्युपकारकत्वात्यो ह्येकस्य चेतनस्य परिग्रहो बुद्ध्यादिरचेतनभागः एवान्यस्य चेतनस्योपकरोति, तु स्वयमेव चेतनश्चेतनान्तरस्योपकरोत्यपकरोति वानिरतिशया ह्यकर्तारश्चेतना इति साङ्ख्या मन्यन्तेतस्मादचेतनं कार्यकरणम् काष्ठलोष्टादीनां चेतनत्वे किञ्चित्प्रमाणमस्तिप्रसिद्धश्चायं चेतनाचेतनविभागो लोकेतस्माद्ब्रह्मविलक्षणत्वान्नेदं जगत्तत्प्रकृतिकम्योऽपि कश्चिदाचक्षीतश्रुत्वा जगतश्चेतनप्रकृतिकताम् , तद्बलेनैव समस्तं जगच्चेतनमवगमयिष्यामि, प्रकृतिरूपस्य विकारेऽन्वयदर्शनात्; अविभावनं तु चैतन्यस्य परिणामविशेषाद्भविष्यतियथा स्पष्टचैतन्यानामप्यात्मनां स्वापमूर्छाद्यवस्थासु चैतन्यं विभाव्यते, एवं काष्ठलोष्टादीनामपि चैतन्यं विभावयिष्यतेएतस्मादेव विभावितत्वाविभावितत्वकृताद्विशेषाद्रूपादिभावाभावाभ्यां कार्यकरणानामात्मनां चेतनत्वाविशेषेऽपि गुणप्रधानभावो विरोत्स्यतेयथा पार्थिवत्वाविशेषेऽपि मांससूपौदनादीनां प्रत्यात्मवर्तिनो विशेषात्परस्परोपकारित्वं भवति, एवमिहापि भविष्यतिप्रविभागप्रसिद्धिरप्यत एव विरोत्स्यत इतितेनापि कथञ्चिच्चेतनाचेतनत्वलक्षणं विलक्षणत्वं परिह्रियेत; शुद्ध्यशुद्धित्वलक्षणं तु विलक्षणत्वं नैव परिह्रियते चेतरदपि विलक्षणत्वं परिहर्तुं शक्यत इत्याहतथात्वं शब्दादितिअनवगम्यमानमेव हीदं लोके समस्तस्य वस्तुनश्चेतनत्वं चेतनप्रकृतिकत्वश्रवणाच्छब्दशरणतया केवलयोत्प्रेक्ष्यतेतच्च शब्देनैव विरुध्यते, यतः शब्दादपि तथात्वमवगम्यतेतथात्वमिति प्रकृतिविलक्षणत्वं कथयतिशब्द एव विज्ञानं चाविज्ञानं ’ (तै. उ. २ । ६ । १) इति कस्यचिद्विभागस्याचेतनतां श्रावयंश्चेतनाद्ब्रह्मणो विलक्षणमचेतनं जगच्छ्रावयति ॥ ४ ॥

अचेतनं चेदं जगदिति ।

व्यभिचारं चोदयति

ननु चेतनमपीति ।

परिहरति

न स्वामिभृत्ययोरपीति ।

ननु मा नाम साक्षाच्चेतनश्चेतनान्तरस्योपकार्षीत् , तत्कार्यकरणबुद्ध्यादिनियोगद्वारेण तूपकरिष्यतीत्यत आह

निरतिशया ह्यकर्तारश्चेतना इति ।

उपजनापायवद्धर्मयोगोऽतिशयः, तदभावो निरतिशयत्वम् । अत एव निर्व्यापारत्वादकर्तारः । तस्मात्तेषां बुद्ध्यादिप्रयोक्तृत्वमपि नास्तीत्यर्थः । चोदकोऽनुशयबीजमुद्धाटयति

योपीति ।

अभ्युपेत्यापाततः समाधानमाह

तेनापि कथञ्चिदिति ।

परमसमाधानं तु सूत्रावयवेन वक्तुं तमेवावतारयति

न चेतरदपि विलक्षणत्वमिति ।

सूत्रावयवाभिसन्धिमाह

अनवगम्यमानमेव हीदमिति ।

शब्दार्थात्खलु चेतनप्रकृतित्वाच्चैतन्यं पृथिव्यादीनामवगम्यमानमुपोद्बलितं मानान्तरेण साक्षाच्छ्रूयमाणमप्यचैतन्यमन्यथयेत् । मानान्तराभावे वार्थोऽर्थः श्रुत्यर्थेनापबाधनीयः, न तु तद्बलेन श्रुत्यर्थोऽन्यथयितव्य इत्यर्थः ॥ ४ ॥