तडितोऽधि वरुणः सम्बन्धात् ॥ ३ ॥
‘आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतम्’ (छा. उ. ४ । १५ । ५) इत्यस्या विद्युत उपरिष्टात् ‘स वरुणलोकम्’ इत्ययं वरुणः सम्बध्यते । अस्ति हि सम्बन्धो विद्युद्वरुणयोः । यदा हि विशाला विद्युतस्तीव्रस्तनितनिर्घोषा जीमूतोदरेषु प्रनृत्यन्ति, अथ आपः प्रपतन्ति । ‘विद्योतते स्तनयति वर्षिष्यति वा’ (छा. उ. ७ । ११ । १) इति च ब्राह्मणम् । अपां च अधिपतिर्वरुण इति श्रुतिस्मृतिप्रसिद्धिः । वरुणादधि इन्द्रप्रजापती स्थानान्तराभावात् पाठसामर्थ्याच्च । आगन्तुकत्वादपि वरुणादीनामन्ते एव निवेशः, वैशेषिकस्थानाभावात् । विद्युच्च अन्त्या अर्चिरादौ वर्त्मनि ॥ ३ ॥