ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
भामतीव्याख्या
 
आतिवाहिकास्तल्लिङ्गात् ॥ ४ ॥
तेष्वेव अर्चिरादिषु संशयः — किमेतानि मार्गचिह्नानि, उत भोगभूमयः, अथवा नेतारो गन्तॄणामिति । तत्र मार्गलक्षणभूता अर्चिरादय इति तावत्प्राप्तम् , तत्स्वरूपत्वादुपदेशस्य । यथा हि लोके कश्चिद्ग्रामं नगरं वा प्रतिष्ठासमानोऽनुशिष्यते — गच्छ इतस्त्वममुं गिरिं ततो न्यग्रोधं ततो नदीं ततो ग्रामं नगरं वा प्राप्स्यसीति — एवमिहापि ‘अर्चिषोऽहरह्न आपूर्यमाणपक्षम्’ इत्याद्याह । अथवा भोगभूमय इति प्राप्तम् । तथाहि लोकशब्देन अग्न्यादीननुबध्नाति — ‘अग्निलोकमागच्छति’ (कौ. उ. १ । ३) इत्यादि । लोकशब्दश्च प्राणिनां भोगायतनेषु भाष्यते — ‘मनुष्यलोकः पितृलोको देवलोकः’ (बृ. उ. १ । ५ । १६) इति च । तथा च ब्राह्मणम् — ‘अहोरात्रेषु ते लोकेषु सज्जन्ते’ इत्यादि । तस्मान्नातिवाहिका अर्चिरादयः । अचेतनत्वादप्येतेषामातिवाहिकत्वानुपपत्तिः । चेतना हि लोके राजनियुक्ताः पुरुषा दुर्गेषु मार्गेष्वतिवाह्यान् अतिवाहयन्तीति । एवं प्राप्ते, ब्रूमः — आतिवाहिका एवैते भवितुमर्हन्ति । कुतः ? तल्लिङ्गात् । तथा हि — ‘चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः स एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इति सिद्धवद्गमयितृत्वं दर्शयति । तद्वचनं तद्विषयमेवोपक्षीणमिति चेत् , न, प्राप्तमानवत्वनिवृत्तिपरत्वाद्विशेषणस्य । यद्यर्चिरादिषु पुरुषा गमयितारः प्राप्ताः ते च मानवाः, ततो युक्तं तन्निवृत्त्यर्थं पुरुषविशेषणम् — अमानव इति ॥ ४ ॥

आतिवाहिकास्तल्लिङ्गात् ।

मार्गचिह्नसरूपत्वाच्चिह्नान्येवार्चिरादयः । भर्तृभोगभुवो वा स्युर्लोकत्वान्नातिवाहिकाः ॥ अर्चिरादिशब्दा हि ज्वलनादावचेतनेषु निरूढवृत्तयो लोके । न चैषां त्वावधिकानामिव नियमवती संवहनस्वरूपा स्वतन्त्रक्रिया बुद्धिपूर्वा सम्भवत्यचेतनानाम् । तस्माल्लोकशब्दवाच्यत्वाद्भर्तुर्जीवात्मनो भोगभूमय एवेति मन्यामहे । अपि चार्चिष इत्यस्मादपादानं प्रतीयते । न हेतुर्नागुणे हेतौ पञ्चमी दृश्यते क्वचित् ॥ जाड्याद्बद्ध इत्यादिषु गुणवचनेषु जाड्यादिषु हेतुपञ्चमी दृष्टा । न चार्चिरादिशब्दा गुणवाचिनो येन पञ्चम्या तेषां वहनं प्रति हेतुत्वमुच्यते । अपादानत्वं चाचेतनेष्वप्यस्तीति नातिवाहिकाः । न चामानवस्य पुरुषस्य विद्युदादिषु वोढृत्वदर्शनादर्चिरादीनामपि वोढृत्वमुन्नेयम् । यावद्वचनं हि वाचनिकं न तदवाच्ये सञ्चारयितुमुचितम् । अपि चार्चिरादीनां वोढृत्वे विद्युदादीनामपि वोढृत्वान्नामानवः पुरुषो वोढा श्रूयेत । यतः श्रूयते ततोऽवगच्छामो विद्युदादिवन्नार्चिरादीनां वोढृत्वमिति । तस्माद्भोगभूमय एवार्चिरादयो नातिवाहिका इति प्राप्ते प्रत्युच्यते सम्पिण्डकरणानां हि सूक्ष्मदेहवतां गतौ । न स्वातन्त्र्यं न चाग्न्याद्या नेतारोऽचेतनास्तु ते ॥ ईदृशी हि नियमवती गतिः स्वयं वा प्रेक्षावतोऽप्रेक्षावतो वा प्रेक्षावत्प्रयुक्तस्य । न तावद्विगलितस्थूलकलेवराः सूक्ष्मदेहवन्तः सम्पिण्डितकरणग्रामा उत्क्रान्तिमन्तो जीवात्मानो मत्तमूर्च्छिचवत्स्वयं प्रेक्षावन्तो यदेवं स्वातन्त्र्येण गच्छेयुस्तद्यद्यर्चिरादयोऽपि मार्गचिह्नानि वा शमीकारस्करादिवद्भोगभूमयो वा सुमेरुशैलेलावृत्तादिवदुभयथाप्यचेतनतया न नयनं प्रत्येषामस्ति स्वातन्त्र्यम् । न चैतेभ्योऽन्यस्य चेतनस्य नेतुः कल्पना सति श्रुतानां चैतन्यसम्भवे । नच परमेश्वर एवास्तु नेतेति युक्तम् । तस्यात्यन्तसाधारणतया लोकपालग्रहादीनामकिञ्चित्करत्वात् । तस्माद्व्यवस्थित एव परमेश्वरस्य सर्वाध्यक्षत्वे यथा यथात्वं लोकपालादीनां स्वातन्त्र्यमेवमिहाप्यर्चिरादीनामातिवाहिकत्वमेव दर्शनानुसाराच्छब्दार्थ इति युक्तम् । इममेवार्थममानवपुरुषातिवाहनलक्षणं लिङ्गमुपोद्वलयतीत्युक्तम् ।

अनवस्थितत्वादर्चिरादीनामिति ।

अवस्थितं हि मार्गचिह्नं भवत्यव्यभिचारान्नानवस्थितं व्यभिचारादिति । अर्चिष इति च हेतौ पञ्चमी नापादाने । गुणत्वं चाश्रिततया । नच वैशेषिकपरिभाषया नियम आस्थेयो लोकविरोधात् । अपिच तेऽर्चिरभिसम्भवन्तीति सम्बन्धमात्रमुक्तमिति । सामान्यवचने शब्दे विशेषाकाङ्क्षिणि स्फुटम् । यद्विशेषपदं तेन तत्सामान्यं नियम्यते ॥ यथा ब्राह्मणमानय भोजयितव्य इति तद्विशेषापेक्षायां यदा तत्संनिधावुपनिपतति पदं कण्ठादि( ? )तदा तेनैतन्नियम्यते एवमिहापीति ॥ ४ ॥