ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
भामतीव्याख्या
 
कार्यं बादरिरस्य गत्युपपत्तेः ॥ ७ ॥
‘स एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इत्यत्र विचिकित्स्यते — किं कार्यमपरं ब्रह्म गमयति, आहोस्वित्परमेवाविकृतं मुख्यं ब्रह्मेति । कुतः संशयः ? ब्रह्मशब्दप्रयोगात् , गतिश्रुतेश्च । तत्र कार्यमेव सगुणमपरं ब्रह्म एनान्गमयत्यमानवः पुरुष इति बादरिराचार्यो मन्यते । कुतः ? अस्य गत्युपपत्तेः — अस्य हि कार्यब्रह्मणो गन्तव्यत्वमुपपद्यते, प्रदेशवत्त्वात् । न तु परस्मिन्ब्रह्मणि गन्तृत्वं गन्तव्यत्वं गतिर्वा अवकल्पते, सर्वगतत्वात्प्रत्यगात्मत्वाच्च गन्तॄणाम् ॥ ७ ॥
परं जैमिनिर्मुख्यत्वात् ; कार्यं बादरिरस्य गत्युपपत्तेः ; गौणी त्वन्यत्रेति ; विशुद्धोपाधिसम्बन्धमिति ; पूर्ववाक्यविच्छेदेनेति ; सगुणेऽपि च ब्रह्मणीति ; ननु गतस्यापि पारमार्थिकी गन्तव्यता देशान्तरविशिष्टस्येति ; न प्रतिषिद्धसर्वविशेषत्वाद्ब्रह्मण इति ; जगदुत्पत्तिस्थितिप्रलयहेतुत्वश्रुतेरिति ; न विशेषनिराकरणश्रुतीनामिति ; गतिकल्पनायां चेति ; अत्यन्ततादात्म्य इति ; अथान्य एव जीवो ब्रह्मणः ; सोऽणुरिति ; मध्यमपरिमाणत्व इति ; न मुख्यैकत्वेति ; सर्वेष्वेतेष्विति ; यत्तु कैश्चिज्जल्प्यते विनैव ब्रह्मज्ञानं नित्यनैमित्तिकानीति ; तदसत् प्रमाणाभावादिति ; न चैतत्तर्कयितुमपीति ; स्यादेतदिति ; नित्येति ; तन्न विरोधाभावादिति ; नच नित्यनैमित्तिकानुष्ठानादिति ; न चासति सम्यग्दर्शने इति ; न चानभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्व इति ; स्वभावस्यापरिहार्यत्वादिति ; स्यादेतत् कर्तृत्वभोक्तृत्वकार्यमिति ; तच्च नेति ; परस्मादनन्यत्वेऽपीति ;

पाठक्रमादर्थक्रमो बलवानिति यथार्थक्रमं पठ्यन्ते सूत्राणि –

परं जैमिनिर्मुख्यत्वात् ।

स एतान् ब्रह्म गमयतीति विचिकित्स्यते । किं परं ब्रह्म गमयत्याहोस्विदपरं कार्यं ब्रह्मेति । मुख्यत्वादमृतप्राप्तेः परप्रकरणादपि । गन्तव्यं जैमिनिर्मेने परमेवार्चिरादिना ॥ ब्रह्म गमयतीत्यत्र हि नपुंसकं ब्रह्मपदं परस्मिन्नेव ब्रह्मणि निरूढत्वादनपेक्षतया मुख्यमिति सति सम्भवे न कार्ये ब्रह्मणि गुणकल्पनया व्याख्यातुमुचितम् । अपि चामृतत्वफलावाप्तिर्न कार्यब्रह्मप्राप्तौ युज्यते । तस्य कार्यत्वेन मरणधर्मवत्त्वात् । किञ्च तत्र तत्र परमेव ब्रह्म प्रकृत्य प्रजापतिसद्मप्रतिपत्त्यादय उच्यमाना नापरब्रह्मविषया भवितुमर्हन्ति प्रकरणविरोधात् । न च परस्मिन्त्सर्वगते गतिर्नोपपद्यते प्राप्तत्वादिति युक्तम् । प्राप्तेपि हि प्राप्तिफला गतिर्दृश्यते । यथैकस्मिन्न्यग्रोधपादपे मूलादग्रमग्राच्च मूलं गच्छतः शाखामृगस्यैकेनैव न्यग्रोधपादपेन निरन्तरं संयोगविभागा भवन्ति । न चैते तदवयवविषया न तु न्यग्रोधविषया इति साम्प्रतं तथा सति न शाखामृगो न्यग्रोधेन युज्यते । न्यग्रोधावयवस्य तदवयवयोगात् । एवं दृश्यमानानामपि तदवयवानां न योगस्तदवयवयोगात्तदन्तेन क्रमेण तदवयवेषु परमाणुषु व्यवतिष्ठते । ते चातीन्द्रिया इति कस्मिन्नु नामायमनुभवपद्धतिमध्यास्तां संयोगतपस्वी । तस्मादकामेनाप्यनुभवानुरोधेन प्राप्त एव प्राप्तिफलत्वावगतिरेषितव्या । तद्ब्रह्म प्राप्तमपि प्राप्तिफलायावगतेगोचरो भविष्यति । ब्रह्मलोकेष्विति च बहुवचनमेकस्मिन्नपि प्रयोगसाधुतामात्रेण गमयितव्यम् । लोकशब्दश्चालोकने प्रकाशे वर्तयितव्यो न तु सन्निवेशवति देशविशेषे । तस्मात्परब्रह्मप्राप्त्यर्थं गत्युपदेशसामर्थ्यादयमर्थो भवति । यथा विद्याकर्मवशादर्चिरादिना गतस्य सत्यलोकमतिक्रम्य परं जगत्कारणं ब्रह्म लोकमालोकं स्वयं प्रकाशकमिति यावत् । प्राप्तस्य तत्रैव लिङ्गं प्रलीयते न तु गतिमेवंभूतां विना लिङ्गप्रविलय इति । अत एव श्रुतिः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति । तदनेनाभिसन्धिना परं ब्रह्म गमयत्यमानव इति मेने जैमिनिराचार्यः ।

कार्यं बादरिरस्य गत्युपपत्तेः ।

तत्त्वदर्शीं बादरिर्ददर्श कार्यमप्राप्तपूर्वत्वादप्राप्तप्रापणी गतिः । प्रापयेद्ब्रह्म न परं प्राप्तत्वाज्जगदात्मकम् ॥ तत्त्वमसिवाक्यार्थसाक्षात्कारात्प्राक्किल जीवात्माविद्याकर्मवासनाद्युपाध्यवच्छेदाद्वस्तुतोऽनवच्छिन्नोऽवच्छिन्नमिवाभिन्नोऽपि लोकेभ्यो भिन्नमिवात्मानमभिमन्यमानः स्वरूपादन्यानप्राप्तानर्चिरादींल्लोकान्गत्याप्नोतीति युज्यते । अद्वैतब्रह्मतत्त्वसाक्षात्कारवतस्तु विगलितनिखिलप्रपञ्चावभासविभ्रमस्य न गन्तव्यं न गतिर्न गमयितार इति किं केन सङ्गतम् । तस्मादनिदर्शनं न्यग्रोधसंयोगविभागा न्यग्रोधवानरतद्गतितत्संयोगविभागानां मिथो भेदात् । नच तत्रापि प्राप्तप्राप्तिः कर्मजेन हि विभागेन निरुद्धायां पूर्वप्राप्तावप्राप्तस्यैवोत्तरप्राप्तेरुत्पत्तेः । एतदपि वस्तुतो विचारासहतया सर्वमनिर्वचनीयं विजृम्भितमविद्यायाः समुत्पन्नाद्वैततत्त्वसाक्षात्कारो न विद्वानभिमन्यते । विदुषोऽपि देहपातात्पूर्वं स्थितप्रज्ञस्य यथाभासमात्रेण सांसारिकधर्मानुवृत्तिरभ्युपेयते एवमालिङ्गशरीरपाताद्विदुषस्तद्धर्मानुवृत्तिः । तथाचाप्राप्तप्राप्तेर्गत्युपपत्तिस्तद्देशप्राप्तौ च लिङ्गदेहनिवृत्तेर्मुक्तिः श्रुतिप्रामाण्यादिति चेत् । न । परविद्यावत उत्क्रान्तिप्रतिषेधात् “ब्रह्मैव सन्ब्रह्माप्येति न तस्मात्प्राणा उत्क्रामन्ति अत्रैव समवनीयन्ते”(बृ. उ. ३ । २ । ११) इति । यथा विद्याब्रह्मप्राप्त्योः समानकालता श्रूयते “ब्रह्म वेद ब्रह्मैव भवति” (मु. उ. ३ । २ । ९) “आनन्दं ब्रह्मणो विद्वान्न बिभेति” (तै. उ. २ । ९ । १) “तदात्मानमेवावेदहं ब्रह्मास्मीति तत्सर्वमभवत्”(वाजसनेयि ब्रह्मण. उ. १ । ४ । १०) “तत्र को मोहः कः शोक एकत्वमनुपश्यतः”(ई. उ. ७) इति पौर्वापर्याश्रवणात्परविद्यावतो मुक्तिं प्रति नोपायान्तरापेक्षेति लक्ष्यतेऽभिसन्धिः श्रुतेः । उपपन्नं चैतत् । न खलु ब्रह्मैवेदं विश्वमहं ब्रह्मास्मीति परिभावनाभुवा जीवात्मनो ब्रह्मभावसाक्षात्कारेणोन्मूलितायामनवयवेनाविद्यायामस्ति गन्तव्यगन्तृविभागो विदुषस्तदभावे कथमयमर्चिरादिमार्गे प्रवर्तेत । नच छायामात्रेणापि सांसारिकधर्मानुवृत्तिस्तत्र प्रवृत्त्यङ्गं यादृच्छिकप्रवृत्तेः । श्रद्धाविहीनस्य दृष्टार्थानि कर्माणि फलन्ति न फलन्ति च । अदृष्टार्थानां तु फले का कथेत्युक्तं प्रथमसूत्रे । न चार्चिरादिमार्गभावनायाः परब्रह्मप्राप्त्यर्थमविदुषः प्रत्युपदेशस्तथा च कर्मान्तरेष्विव नित्यादिषु तत्रापि स्यात्तस्य प्रवृत्तिरिति साम्प्रतम् । विकल्पासहत्वात् । किमियं परविद्यानपेक्षा परब्रह्मप्राप्तिसाधनं तदपेक्षा वा । न तावदनपेक्षा “तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय”(श्वे. उ. ३ । ८) इति परब्रह्मविज्ञानादन्यस्याध्वनः साक्षात्प्रतिषेधात् । परविद्यापेक्षत्वे तु मार्गभावनायाः किमियं विद्याकार्ये मार्गभावना साहायकमाचरत्यथ विद्योत्पादे । न तावद्विद्याकार्ये तया सह तस्या द्वैताद्वैतगोचरतया मिथो विरोधेन सहासम्भवात् । नापि यज्ञादिवद्विद्योत्पादे साक्षात्ब्रह्मप्राप्त्युपायत्वश्रवणादेतान्ब्रह्म गमयतीति । यज्ञादेस्तु विविदिषासंयोगेन श्रवणाद्विद्योत्पादाङ्गत्वम् । तस्मादुपन्यस्तबहुश्रुत्यनुरोधादुपपत्तेश्च ब्रह्मशब्दोऽसम्भवन्मुख्यवृत्तिर्ब्रह्मसामीप्यादपरब्रह्मणि लक्षणया नेतव्यः । तथाच लोकेष्विति बहुवचनोपपत्तेः कार्यब्रह्मलोकस्य । परस्य त्वनवयवतया तद्द्वारेणाप्यनुपपत्तेः । लोकत्वं चेलावृत्तादिवत्सन्निवेशविशेषवति भोगभूमौ निरूढं न कथञ्चिद्योगेन प्रकाशे व्याख्यातं भवति । तस्मात्साधुदर्शी स भगवान्बादरिरसाधुदर्शी जैमिनिरिति सिद्धम् । अप्रामाणिकानां बहुप्रलापाः सर्वगतस्य द्रव्यस्य गुणाः सर्वगता एव चैतन्यानन्दादयश्च गुणिनः परमात्मनो भेदाभेदवन्तो गुणा इत्यादयो दूषणायानुभाष्यमाणा अप्यप्रामाणिकत्वमावहन्त्यस्माकमित्युपेक्षिताः । ग्रन्थयोजना तु प्रत्यगात्मत्वाच्च गन्तॄणां प्रतिप्रति अञ्चति गच्छतीति प्रत्यक्प्रतिभाववृत्ति ब्रह्म तदात्मत्वाद्गन्तॄणां जीवात्मनामिति ।

गौणी त्वन्यत्रेति ।

यौगिक्यपि हि योगगुणापेक्षया गौण्येव ।

विशुद्धोपाधिसम्बन्धमिति ।

मनोमयत्वादयः कल्पनाः कार्याः । कार्यत्वादविशुद्धा अपि श्रेयोहेतुत्वाद्विशुद्धाः । प्रतिसञ्चरो महाप्रलयः प्रतिपत्त्यभिसन्धिः प्रतिपत्तिर्गतिः पदेर्गत्यर्थत्वात् । अभिसन्धिस्तात्पर्यम् । यस्य ब्रह्मणो नामाभिधानं यश इति ।

पूर्ववाक्यविच्छेदेनेति ।

श्रुतिवाक्ये बलीयसी प्रकरणात् ।

सगुणेऽपि च ब्रह्मणीति ।

प्रशंसार्थमित्यर्थः ।

चोदयति –

ननु गतस्यापि पारमार्थिकी गन्तव्यता देशान्तरविशिष्टस्येति ।

न्यग्रोधवानरदृष्टान्त उपपादितः ।

परिहरति –

न । प्रतिषिद्धसर्वविशेषत्वाद्ब्रह्मण इति ।

अयमभिसन्धिः यथातथा न्यग्रोधावयवी परिणामवानुपजनापायधर्मभिः कर्मजैः संयोगविभागैः संयुज्यतामयं पुनः परमात्मा निरस्तनिखिलभेदप्रपञ्चः कूटस्थनित्यो न न्यग्रोधवत्संयोगविभागभाग्भवितुमर्हति । काल्पनिकसंयोगविभागस्तु काल्पनिकस्यैव कार्यब्रह्मलोकस्योपपद्यते न परस्य । शङ्कते –

जगदुत्पत्तिस्थितिप्रलयहेतुत्वश्रुतेरिति ।

नह्युत्पत्त्यादिहेतुभावोऽपरिणामिनः सम्भवति तस्मात्परिणामीति । तथा च भाविकमस्योपपद्यते गन्तव्यत्वमित्यर्थः ।

निराकरोति –

न । विशेषनिराकरणश्रुतीनामिति ।

विशेषनिराकरणं समस्तशोकादिदुःखशमनतया पुरुषार्थफलवत् । अफलं तूत्पत्त्यादिविधानम् । तस्मात्फलवतः संनिधावाम्नायमानं तदर्थमेवोच्यत इत्युपपत्तिः । तद्विजिज्ञासस्वेति च श्रुतिः । तस्माच्छ्रुत्युपपत्तिभ्यां निरस्तसमस्तविशेषब्रह्मप्रतिपादनपरोऽयमाम्नायो न तूत्पत्त्यादिप्रतिपादनपरः । तस्मान्न गतिस्तात्त्विकी ।

अपि चेयं गतिर्न विचारं सहत इत्याह –

गतिकल्पनायां चेति ।

अन्यानन्यत्वाश्रयाववयवविकारपक्षौ । अन्यो वात्यन्तम् ।

अथ कस्मादात्यन्तिकमनन्यत्वं न कल्प्यत इत्यत आह –

अत्यन्ततादात्म्य इति ।

मृदात्मतया हि स्वभावेन घटादयो भावास्तद्विकारा व्याप्ताः, तदभावे न भवन्ति शिंशपेव वृक्षत्वाभाव इति । विकारावयवपक्षयोश्च तद्वतः सह विकारावयवैः स्थिरत्वादचलत्वाद्ब्रह्मणः संसारलक्षणं गमनं विकारावयवयेरनुपपन्नम् । नहि स्थिरात्मकमस्थिरं भवति । अन्यानन्यत्वे अपि चैकस्य विरोधादसम्भवन्ती इति भावः ।

अथान्य एव जीवो ब्रह्मणः ।

तथाच ब्रह्मण्यसंसरत्यपि जीवस्य संसारः कल्पत इति ।

एतद्विकल्प्य दूषयति –

सोऽणुरिति ।

मध्यमपरिमाणत्व इति ।

मध्यमपरिमाणानां घटादीनामनित्यत्वदर्शनात् ।

न । मुख्यैकत्वेति ।

भेदाभेदयोर्विरोधिनोरेकत्रासम्भवाद्बुद्धिव्यपदेशभेदादर्थभेदः । अयुतसिद्धतयोपचारेणाभिन्नमुच्यत इत्यमुख्यमस्यैकत्वमित्यर्थः । अपिच जीवानां ब्रह्मावयवत्वपरिणामात्यन्तभेदपक्षेषु तात्त्विकी संसारितेति मुक्तौ स्वभावहानाज्जीवानां विनाशप्रसङ्गः ।

ब्रह्मविवर्तत्वे तु ब्रह्मैवैषां स्वभावः प्रतिबिम्बानामिव बिम्बं तच्चाविनाशीति न जीवविनाश इत्याह –

सर्वेष्वेतेष्विति ।

मतान्तरमुपन्यस्यति दूषयितुम् –

यत्तु कैश्चिज्जल्प्यते विनैव ब्रह्मज्ञानं नित्यनैमित्तिकानीति ।

यथा हि कफनिमित्तो ज्वर उपात्तस्य कफस्य विशेषणादिभिः प्रक्षये कफान्तरोत्पत्तिनिमित्तदध्यादिवर्जने प्रशान्तोऽपि न पुनर्भवति । एवं कर्मनिमित्तो बन्ध उपात्तानां कर्मणामुपभोगात्प्रक्षये प्रशाम्यति । कर्मान्तराणां च बन्धहेतूनामननुष्ठानात्कारणाभावे कार्यानुपपत्तेर्बन्धाभावात्स्वभावसिद्धो मोक्ष आरोग्यमिव । उपात्तदुरितनिबर्हणाय च नित्यनैमित्तिककर्मानुष्ठानाद्दुरितनिमित्तप्रत्यवायो न भवति । प्रत्यवायानुत्पत्तौ च स्वस्थस्वान्तो न निषिद्धान्याचरेदिति ।

तदेतद्दूषयति –

तदसत् । प्रमाणाभावादिति ।

शास्त्रं खल्वस्मिन्प्रमाणं तच्च मोक्षमाणस्यात्मज्ञानमेवोपदिशति नतूक्तमाचारम् ।

न चात्रोपपत्तिः प्रभवति संसारस्यानादितया कर्माशयस्याप्यसङ्ख्येयस्यानियतविपाककालस्य भोगेनोच्छेत्तुमशक्यत्वादित्याह –

न चैतत्तर्कयितुमपीति ।

चोदयति –

स्यादेतदिति ।

नित्येति ।

परिहरति –

तन्न विरोधाभावादिति ।

यदि हि नित्यनैमित्तिकानि कर्माणि सुकृतमपि दुष्कृतमिव निर्वहेयुस्ततः काम्यकर्मोपदेशा दत्तजलाञ्जलयः प्रसज्येरन् । नह्यस्ति कश्चिच्चातुर्वर्ण्ये चातुराश्रम्ये वा यो न नित्यनैमित्तिकानि कर्माणि करोति । तस्मान्नैषां सुकृतविरोधितेति ।

अभ्युच्चयमात्रमाह –

नच नित्यनैमित्तिकानुष्ठानादिति ।

न चासति सम्यग्दर्शने इति ।

सम्यग्दर्शी हि विरक्तः काम्यनिषिद्धे वर्जयन्नपि प्रमादादुपनिपतिते तेनैवसम्यग्दर्शनेन क्षपयति । ज्ञानपरिपाके च न करोत्येव । अज्ञस्तु निपुणोऽपि प्रमादात्करोति । कृते च न क्षपयितुं क्षमत इति विशेषः ।

न चानभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्व इति ।

कर्तृत्वभोक्तृत्वे समाक्षिप्तक्रियाभोगे ते चेदात्मनः स्वभावावधारिते न त्वारोपिते ततो न शक्यावपनेतुम् । नहि स्वभावाद्भावोऽवरोपयितुं शक्यो भावस्य विनाशप्रसङ्गात् ।

न च भोगोऽपि सत्स्वभावः शक्योऽसत्कर्तुं, नो खलु नीलमनीलं शक्यं शक्रेणापि कर्तुं तदिदमुक्तम् –

स्वभावस्यापरिहार्यत्वादिति ।

समारोपितस्य त्वनिर्वचनीयस्य तत्स्वभावस्य शक्यस्तत्त्वज्ञानेनावरोपः कर्तुं सर्पस्येव रज्जुतत्त्वज्ञानेनेति भावः ।

भावमिममविद्वान्परिचोदयति –

स्यादेतत् । कर्तृत्वभोक्तृत्वकार्यमिति ।

अप्रकाशितभावो यथोक्तमेव समाधत्ते –

तच्च नेति ।

कर्तृत्वभोक्तृत्वयोर्निमित्तसम्बन्धस्य च शक्तिद्वारेण नित्यत्वाद्भविष्यति कदाचिदेषां समुदाचारो यतः सुखदुःखे भोज्येते इति सम्भावनातः कुतः कैवल्यनिश्चय इत्यर्थः ।

भूयोनिरस्तमपि मतिद्रढिम्ने पुनरुपन्यस्य दूषयति –

परस्मादनन्यत्वेऽपीति ।

शेषमतिरोहितार्थम् ॥ ७ ॥