ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
भामतीव्याख्या
 
आत्मा प्रकरणात् ॥ ३ ॥
कथं पुनर्मुक्त इत्युच्यते, यावता ‘परं ज्योतिरुपसम्पद्य’ (छा. उ. ८ । १२ । ३) इति कार्यगोचरमेव एनं श्रावयति, ज्योतिःशब्दस्य भौतिके ज्योतिषि रूढत्वात् ? न च अनतिवृत्तो विकारविषयात् कश्चिन्मुक्तो भवितुमर्हति, विकारस्य आर्तत्वप्रसिद्धेरिति — नैष दोषः, यतः आत्मैवात्र ज्योतिःशब्देन आवेद्यते, प्रकरणात् । ‘य आत्मापहतपाप्मा विजरो विमृत्युः’ (छा. उ. ८ । ७ । १) इति हि प्रकृते परस्मिन्नात्मनि न अकस्माद्भौतिकं ज्योतिः शक्यं ग्रहीतुम् , प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गात् । ज्योतिःशब्दस्तु आत्मन्यपि दृश्यते — ‘तद्देवा ज्योतिषां ज्योतिः’ (बृ. उ. ४ । ४ । १६) इति । प्रपञ्चितं च एतत् ‘ज्योतिर्दर्शनात्’ (ब्र. सू. १ । ३ । ४०) इत्यत्र ॥ ३ ॥

आत्मा प्रकरणात् ।

ननु ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत इति पौर्वापर्यश्रवणात्स्वरूपनिष्पत्तेरन्या ज्योतिरुपसम्पत्तिः तथाच भौतिकत्वेऽपि न मोक्षव्याघातः । भवेदेतदेवं यदि ज्योतिरुपसम्पद्य तत् परित्यजेदिति श्रूयेत । तदध्याहारेऽपि तत्प्रतिपादनवैयर्थ्यं तदपरित्यागे च ज्योतिषैव स्वेन रूपेणेति गम्यते । तस्य च भूतत्वे विकारत्वान्मरणधर्मकत्वप्रसिद्धेरमुक्तित्वमिति प्राप्ते प्रत्युच्यते - ज्योतिष्पदस्य मुख्यत्वं भौतिके यद्यपि स्थितम् । तथापि प्रक्रमाद्वाक्यादात्मन्येवात्र युज्यते ॥ परंज्योतिरिति हि परपदसमभिव्याहारात्परत्वस्य चानपेक्षस्य ब्रह्मण्येव प्रवृत्तेज्योतिषि चापरे किञ्चिदपेक्ष्य परत्वात्परं ज्योतिरिति वाक्यादात्मैवात्र गम्यते । प्रकरणं चोक्तम् । यत्सम्पद्य निष्पद्यत इति तन्मुखं व्यादाय स्वपितीतिवत् । तस्माज्ज्योतिरुपसम्पन्नो मुक्त इति सूक्तम् ॥ ३ ॥