ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
भामतीव्याख्या
 
अविभागेन दृष्टत्वात् ॥ ४ ॥
परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते यः, स किं परस्मादात्मनः पृथगेव भवति, उत अविभागेनैवावतिष्ठत इति वीक्षायाम् , ‘स तत्र पर्येति’ (छा. उ. ८ । १२ । ३) इत्यधिकरणाधिकर्तव्यनिर्देशात् ‘ज्योतिरुपसम्पद्य’ (छा. उ. ८ । १२ । ३) इति च कर्तृकर्मनिर्देशात् भेदेनैवावस्थानमिति यस्य मतिः, तं व्युत्पादयति — अविभक्त एव परेण आत्मना मुक्तोऽवतिष्ठते । कुतः ? दृष्टत्वात्; तथा हि — ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) ‘यत्र नान्यत्पश्यति’ (छा. उ. ७ । २४ । १) ‘न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत्’ (बृ. उ. ४ । ३ । २३) इत्येवमादीनि वाक्यान्यविभागेनैव परमात्मानं दर्शयन्ति । यथादर्शनमेव च फलं युक्तम् , तत्क्रतुन्यायात् । ‘यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम’ (क. उ. २ । १ । १५) इति च एवमादीनि मुक्तस्वरूपनिरूपणपराणि वाक्यान्यविभागमेव दर्शयन्ति । नदीसमुद्रादिनिदर्शनानि च । भेदनिर्देशस्तु अभेदेऽप्युपचर्यते ‘स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि’ (छा. उ. ७ । २४ । १) इति, ‘आत्मरतिरात्मक्रीडः’ (छा. उ. ७ । २५ । २) इति च एवमादिदर्शनात् ॥ ४ ॥

अविभागेन दृष्टत्वात् ।

यद्यपि जीवात्मा ब्रह्मणो न भिन्न इति तत्र तत्रोपपादितं तथापि स तत्र पर्येतीत्याधाराधेयभावव्यपदेशस्य सम्पत्तृसम्पत्तव्यभावव्यपदेशस्य च समाधानार्थमाह ॥ ४ ॥