ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
भामतीव्याख्या
 
ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ ५ ॥
स्थितमेतत् ‘स्वेन रूपेण’ (छा. उ. ८ । ३ । ४) इत्यत्र — आत्ममात्ररूपेणाभिनिष्पद्यते, न आगन्तुकेनापररूपेणेति । अधुना तु तद्विशेषबुभुत्सायामभिधीयते — स्वम् अस्य रूपं ब्राह्मम् अपहतपाप्मत्वादिसत्यसङ्कल्पत्वावसानं तथा सर्वज्ञत्वं सर्वेश्वरत्वं च, तेन स्वेन रूपेणाभिनिष्पद्यत इति जैमिनिराचार्यो मन्यते । कुतः ? उपन्यासादिभ्यस्तथात्वावगमात्; तथा हि ‘य आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यादिना ‘सत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८ । ७ । १) इत्येवमन्तेन उपन्यासेन एवमात्मकतामात्मनो बोधयति । तथा ‘स तत्र पर्येति जक्षत्क्रीडरममाणः’ (छा. उ. ८ । १२ । ३) इति ऐश्वर्यरूपमावेदयति, ‘तस्य सर्वेषु लोकेषु कामचारो भवति’ (छा. उ. ७ । २५ । २) इति च । ‘सर्वज्ञः सर्वेश्वरः’ इत्यादिव्यपदेशाश्च एवमुपपन्ना भविष्यन्तीति ॥ ५ ॥

ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ।

उपन्यास उद्देशो ज्ञातस्य यथा य आत्मापहतपाप्मेत्यादिः । तथाज्ञातज्ञापनं विधिः । यथा स तत्र पर्येति जक्षद्रममाण इति, तस्य सर्वेषु लोकेषु कामचारो भवतीत्येतदज्ञातज्ञापनं विधिः । सर्वज्ञः सर्वेश्वर इति व्यपदेशः । नायमुद्देशो विधेयान्तराभावात् । नापि विधिरप्रतिपाद्यत्वात् । सिद्धवद्व्यपदेशात् । तन्निर्वचनसामर्थ्यादयमर्थः प्रतीयते त एते उपन्यासादयः । एतेभ्यो हेतुभ्यः । भावाभावात्मकै रूपैर्भाविकैः परमेश्वरः । मुक्तः सम्पद्यते स्वैरित्याह स्म किल जैमिनिः ॥ न च चित्स्वभावस्यात्मनोऽभावात्मानोऽपहतपाप्मत्वादयो भावात्मनश्च सर्वज्ञत्वादयो धर्मा अद्वैतं घ्नन्ति । नो खलु धर्मिणो धर्मा भिद्यन्ते, मा भूद्गवाश्ववद्धर्मिधर्मभावाभाव इति जैमिनिराचार्य उवाच ॥ ५ ॥