ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
भामतीव्याख्या
 
चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ६ ॥
यद्यपि अपहतपाप्मत्वादयो भेदेनैव धर्मा निर्दिश्यन्ते, तथापि शब्द;विकल्पजा एव एते । पाप्मादिनिवृत्तिमात्रं हि तत्र गम्यते । चैतन्यमेव तु अस्य आत्मनः स्वरूपमिति तन्मात्रेण स्वरूपेण अभिनिष्पत्तिर्युक्ता तथा च श्रुतिः ‘एवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव’ (बृ. उ. ४ । ५ । १३) इत्येवंजातीयका अनुगृहीता भविष्यति । सत्यकामत्वादयस्तु यद्यपि वस्तुस्वरूपेणैव धर्मा उच्यन्ते — सत्याः कामा अस्येति, तथापि उपाधिसम्बन्धाधीनत्वात्तेषां न चैतन्यवत् स्वरूपत्वसम्भवः, अनेकाकारत्वप्रतिषेधात् । प्रतिषिद्धं हि ब्रह्मणोऽनेकाकारत्वम् ‘न स्थानतोऽपि परस्योभयलिङ्गम्’ (ब्र. सू. ३ । २ । ११) इत्यत्र । अत एव च जक्षणादिसङ्कीर्तनमपि दुःखाभावमात्राभिप्रायं स्तुत्यर्थम् ‘आत्मरतिः’ इत्यादिवत् । न हि मुख्यान्येव रतिक्रीडामिथुनानि आत्मनि शक्यन्ते वर्णयितुम् , द्वितीयविषयत्वात्तेषाम् । तस्मान्निरस्ताशेषप्रपञ्चेन प्रसन्नेन अव्यपदेश्येन बोधात्मना अभिनिष्पद्यत इत्यौडुलोमिराचार्यो मन्यते ॥ ६ ॥

चितितन्मात्रेण तदात्मकत्त्वादित्यौडुलोमिः ।

अनेकाकारतैकस्य नैकत्वान्नैकता भवेत् । परस्परविरोधेन न भेदाभेदसम्भवः ॥ न ह्येकस्यात्मनः पारमार्थिकानेकधर्मसम्भवः । ते चेदात्मनो भिद्यन्ते द्वैतापत्तेरद्वैतश्रुतयो व्यावर्तेरन् । अथ न भिद्यन्ते तत एकस्मादात्मनोऽभेदान्मिथोऽपि न भिद्येरन् । आत्मरूपवत् । आत्मरूपं वा भिद्येत । भिन्नेभ्योऽनन्यत्वान्नीलपीतरूपवत् । नच धर्मिण आत्मनो न भिद्यन्ते मिथस्तु भिद्यन्त इति साम्प्रतम् । धर्म्यभेदेन तदनन्यत्वेन तेषामप्यभेदप्रसङ्गात् । भेदे वा धर्मिणोऽपि भेदप्रसङ्गादित्युक्तम् । भेदाभेदौ च परस्परविरोधादेकत्राभावान्न सम्भवत इत्युपपादितं प्रथमे सूत्रे । अभावरूपाणामद्वैताविहन्तृत्वेऽपि तस्य पाप्मादेः काल्पनिकतया तदधीननिरूपणतया तेषामपि काल्पनिकत्वमिति न तात्त्विकी तद्धर्मता श्लिष्यते । एतेन सत्यकामसर्वज्ञसर्वेश्वरत्वादयोऽप्यौपाधिका व्याख्याताः ।

तस्मान्निरस्ताशेषप्रपञ्चेनाव्यपदेश्येन चैतन्यमात्रात्मनाभिनिष्पद्यमानस्य मुक्तावात्मनोऽर्थशून्यैरेवापहतपाप्मसत्यकामादिशब्दैर्व्यपदेश इत्यौडुलोमिर्मेने । तदिदमुक्तम् –

शब्दविकल्पजा एवैते

अपहतपाप्मत्वादयो न तु सांव्यवहारिका अपीति ॥ ६ ॥