ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
भामतीव्याख्या
 
एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॥ ७ ॥
एवमपि पारमार्थिकचैतन्यमात्रस्वरूपाभ्युपगमेऽपि व्यवहारापेक्षया पूर्वस्यापि उपन्यासादिभ्योऽवगतस्य ब्राह्मस्य ऐश्वर्यरूपस्य अप्रत्याख्यानादविरोधं बादरायण आचार्यो मन्यते ॥ ७ ॥

एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ।

तदेतदतिशौण्डीर्यमौडुलोमेर्न मृष्यते । बादरायण आचार्यो मृष्यन्नपि हि तन्मतम् ॥ एवमपीत्यौडुलोमिमतमनुजानाति ।

शौण्डीर्यं तु न सहत इत्याह –

व्यवहारापेक्षयेति ।

एतदुक्तं भवति - सत्यं तात्त्विकानन्दचैतन्यमात्र एवात्मा, अपहतपाप्मसत्यकामत्वादयस्त्वौपाधिकतयातात्त्विका अपि व्यावहारिकप्रमाणोपनीततया लोकसिद्धा नात्यन्तासन्तो येन तच्छब्दा राहोः शिर इतिवदवास्तवा इत्यर्थः ॥ ७ ॥