ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
भामतीव्याख्या
 
सङ्कल्पादेव तु तच्छ्रुतेः ॥ ८ ॥
हार्दविद्यायां श्रूयते — ‘स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’ (छा. उ. ८ । २ । १) इत्यादि । तत्र संशयः — किं सङ्कल्प एव केवलः पित्रादिसमुत्थाने हेतुः, उत निमित्तान्तरसहित इति । तत्र सत्यपि ‘सङ्कल्पादेव’ इति श्रवणे लोकवत् निमित्तान्तरापेक्षा युक्ता । यथा लोके अस्मदादीनां सङ्कल्पात् गमनादिभ्यश्च हेतुभ्यः पित्रादिसम्पत्तिर्भवति एवं मुक्तस्यापि स्यात् । एवं दृष्टविपरीतं न कल्पितं भविष्यति । ‘सङ्कल्पादेव’ इति तु राज्ञ इव सङ्कल्पितार्थसिद्धिकरीं साधनान्तरसामग्रीं सुलभामपेक्ष्य उच्यते । न च सङ्कल्पमात्रसमुत्थानाः पित्रादयः मनोरथविजृम्भितवत् चञ्चलत्वात् पुष्कलं भोगं समर्पयितुं पर्याप्ताः स्युरिति । एवं प्राप्ते, ब्रूमः — सङ्कल्पादेव तु केवलात् पित्रादिसमुत्थानमिति । कुतः ? तच्छ्रुतेः । ‘सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’ (छा. उ. ८ । २ । १) इत्यादिका हि श्रुतिर्निमित्तान्तरापेक्षायां पीड्येत । निमित्तान्तरमपि तु यदि सङ्कल्पानुविधाय्येव स्यात् , भवतु; न तु प्रयत्नान्तरसम्पाद्यं निमित्तान्तरमितीष्यते, प्राक्तत्सम्पत्तेः वन्ध्यसङ्कल्पत्वप्रसङ्गात् । न च श्रुत्यवगम्येऽर्थे लोकवदिति सामान्यतो दृष्टं क्रमते । सङ्कल्पबलादेव च एषां यावत्प्रयोजनं स्थैर्योपपत्तिः, प्राकृतसङ्कल्पविलक्षणत्वान्मुक्तसङ्कल्पस्य ॥ ८ ॥

सङ्कल्पादेव तु तच्छ्रुतेः ।

यत्नानपेक्षः सङ्कल्पो लोके वस्तुप्रसाधनः । न दृष्टः सोऽत्र यत्नस्य लाघवादवधारितः ॥ लोके हि कञ्चिदर्थं चिकीर्षुः प्रयतते प्रयतमानः समीहते समीहानस्तमर्थमाप्नोतीति क्रमो दृष्टः । न त्विच्छानन्तरमेवास्येष्यमाणमुपतिष्ठते । तेन श्रुत्यापि लोकवृत्तमनुरुध्यमानया विदुषस्तादृश एव क्रमोऽनुमन्तव्यः । अवधारणं तु सङ्कल्पादेवेति लौकिकं यत्नगौरवमपेक्ष्य विद्याप्रभावतो विदुषो यत्नलाघवात् । यल्लघु तदसत्कल्पमिति ।

स्यादेतत् । यथा मनोरथमात्रोपस्थापिता स्त्री स्त्रैणानां चरमधातुविसर्गहेतुरेवं पित्रादयोऽप्यस्य सङ्कल्पोपस्थापिताः कल्पिष्यन्ते स्वकार्यायेत्यत आह –

नच सङ्कल्पमात्रसमुत्थाना इति ।

सन्ति हि खलु कानिचिद्वस्तुस्वरूपसाध्यानि कार्याणि यथा स्त्रीवस्तुसाध्यानि दन्तक्षतमणिमालादीनि । कानिचित्तु ज्ञानसाध्यानि यथोक्तचरमधातुविसर्गरोमहर्षादीनि । तत्र मनोरथमात्रोपनीते पित्रादौ भवन्तु तज्ज्ञानमात्रसाध्यानि कार्याणि नतु तत्साध्यानि भवितुमर्हन्ति । नहि स्त्रैणस्य रोमहर्षादिवद्भवन्ति स्त्रीवस्तुसाध्या मणिमालादयस्तदिदमुक्तम्पुष्कलं भोगमिति प्राप्तेऽभिधीयते पित्रादीनां समुत्थानं सङ्कल्पादेव तच्छ्रुतेः । न चानुमानबाधोऽत्र श्रुत्या तस्यैव बाधनात् ॥ प्रमाणान्तरानपेक्षा हि श्रुतिः स्वार्थं गोचरयन्ति न प्रमाणान्तरेण शक्या बाधितुम् । अनुमानमेव तु स्वोत्पादाय पक्षधर्मत्वादिवन्मानान्तराबाधितविषयत्वं स्वसामग्रीमध्यपातेनापेक्षमाणं सामग्रीखण्डनेन तद्विरुद्धया श्रुत्या बाध्यते । अत एव नरशिरःकपालादिशौचानुमानमागमबाधितविषयतया नोपपद्यते । तस्माद्विद्याप्रभावाद्विदुषां सङ्कल्पमात्रादेव पित्राद्युपस्थानमिति साम्प्रतम् । तथाहुरागमिनः को हि योगप्रभावादृतेऽगस्त्य इव समुद्रं पिबति स इव दण्डकारण्ये सृजति । तस्मात्सर्वमवदातम् ॥ ८ ॥