ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
भामतीव्याख्या
 
अत एव चानन्याधिपतिः ॥ ९ ॥
अत एव च अवन्ध्यसङ्कल्पत्वात् अनन्याधिपतिर्विद्वान्भवति — नास्यान्योऽधिपतिर्भवतीत्यर्थः । न हि प्राकृतोऽपि सङ्कल्पयन् अन्यस्वामिकत्वमात्मनः सत्यां गतौ सङ्कल्पयति । श्रुतिश्चैतद्दर्शयति — ‘अथ य इहात्मानमनुविद्य व्रजन्त्येताꣳश्च सत्यान्कामाꣳस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति’ (छा. उ. ८ । १ । ६) इति ॥ ९ ॥

अत एव चानन्याधिपतिः ॥ ९ ॥