ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
भामतीव्याख्या
 
अभावं बादरिराह ह्येवम् ॥ १० ॥
‘सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’ (छा. उ. ८ । २ । १) इत्यतः श्रुतेः मनस्तावत्सङ्कल्पसाधनं सिद्धम् । शरीरेन्द्रियाणि पुनः प्राप्तैश्वर्यस्य विदुषः सन्ति, न वा सन्ति — इति समीक्ष्यते । तत्र बादरिस्तावदाचार्यः शरीरस्येन्द्रियाणां च अभावं महीयमानस्य विदुषो मन्यते । कस्मात् ? एवं हि आह आम्नायः — ‘मनसैतान्कामान्पश्यरमते’ (छा. उ. ८ । १२ । ५) ‘य एते ब्रह्मलोके’ (छा. उ. ८ । १२ । ५) इति । यदि मनसा शरीरेन्द्रियैश्च विहरेत् मनसेति विशेषणं न स्यात् । तस्मादभावः शरीरेन्द्रियाणां मोक्षे ॥ १० ॥

अभावं बादरिराह ह्येवम् ।

अन्ययोगव्यवच्छित्त्या मनसेति विशेषणात् । देहेन्द्रियवियोगः स्याद्विदुषो बादरेर्मतम् ॥ अनेकधाभावश्चर्द्धिप्रभावभुवो मनोभेदाद्वा स्तुतिमात्रं वा कथञ्चिद्भूमविद्यायां निर्गुणायां तदसम्भवादसतापि हि गुणेन स्तुतिर्भवत्येवेति ॥ १० ॥