ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
भामतीव्याख्या
 
भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥
जैमिनिस्त्वाचार्यः मनोवत् शरीरस्यापि सेन्द्रियस्य भावं मुक्तं प्रति मन्यते; यतः ‘स एकधा भवति त्रिधा भवति’ (छा. उ. ७ । २६ । २) इत्यादिना अनेकधाभावविकल्पमामनन्ति । न हि अनेकविधता विना शरीरभेदेन आञ्जसी स्यात् । यद्यपि निर्गुणायां भूमविद्यायाम् अयमनेकधाभावविकल्पः पठ्यते, तथापि विद्यमानमेवेदं सगुणावस्थायाम् ऐश्वर्यं भूमविद्यास्तुतये सङ्कीर्त्यत इत्यतः सगुणविद्याफलभावेन उपतिष्ठत इत्युच्यते ॥ ११ ॥

भावं जैमिनिर्विकल्पामननात् ।

शरीरेन्द्रियभेदे हि नानाभावः समञ्जसः । न चार्थसम्भवे युक्तं स्तुतिमात्रमनर्थकम् ॥ नहि मनोमात्रभेदे स्फुटतरोऽनेकधाभावो यथा शरीरेन्द्रियभेदे । अत एव सौभरेरभिविनिर्मितविविधदेहस्यापर्यायेण मान्धातृकन्याभिः पञ्चाशता विहारः पैराणिकैः स्मर्यते । न चार्थसम्भवे स्तुतिमात्रमनर्थकमवकल्पते । सम्भवति चास्यार्थवत्त्वम् । यद्यपि निर्गुणायामिदं भौमविद्यायां पठ्यते तथापि तस्याः पुरस्तादनेन सगुणावस्थागतेनैश्वर्येण निर्गुणैव विद्या स्तूयते । न चान्ययोगव्यवच्छेदेनैव विशेषणम् ।अयोगव्यवच्छेदेनापि विशेषणात् । यथा चैत्रो धनुर्धरः । तस्मान्मनः शरीरेन्द्रिययोग ऐश्वर्यशालिनां नियमेनेति मेने जैमिनिः ॥ ११ ॥