अध्यस्तान्ध्यमपूर्वमर्थधिषणैर्ग्राह्यं पुमर्थास्पदं
लक्ष्यं लक्षणभेदतः श्रुतिगतं निर्धूतसाध्यार्थकम् ।
आम्नायान्तविभातविश्वविभवं सर्वाविरूद्धं परं
सत्यं ज्ञानमनर्थसार्थविधुरं ब्रह्म प्रपद्ये सदोम् ॥ १ ॥
यो लोकं सकलं पुनाति निगमा यं प्राहुरेकान्ततो
व्याप्तं येन जगज्जगन्ति सततं यस्मै नमस्कुर्वते ।
यस्मादाविरभूदशेषममरा यस्य प्रसादार्थिनो
यस्मिन्पर्यवसास्यति स्फुरदिदं तस्मै नमो विष्णवे ॥ २ ॥
योऽनुग्रानुग्रतेजा जनयति सकलानालयं यं लभन्ते
सर्वे निर्वान्ति येन श्रुतिपथपथिका वौषडातन्वते च ।
यस्मै यस्मादकस्मात्परिभवचकिता यस्य संरोचयन्ते
चिन्ता यस्मिन्प्रवृत्ता भृशविशदधियः संश्रये तं गिरीशम् ॥ ३ ॥
भिन्दानमेनांसि दुरासदानि प्रत्यूहवर्गप्रभवानि तानि ।
राजानमाघातपरम्पराणामारादुपासे गिरिजाभिजातम् ॥ ४ ॥
श्रीमद्व्यासपयोनिधिर्निधिरसौ सत्सूक्तिपङ्किस्फुरन्
मुक्तानामनवद्यहृद्यविपुलप्रद्योतिविद्यामणिः ।
क्षान्तिः शान्तिधृती दयेतिसरितामेकान्तविश्रान्तिभूः
भूयान्नः सततं मुनीन्द्रमकरश्रेणीश्रयः श्रेयसे ॥ ५ ॥
यद्भाष्याम्बुजजातजातमधुरप्रेयोमधुप्रार्थना-
सार्थव्यग्रधियः समग्रमरुतः स्वर्गेऽपि निर्वेदिनः ।
यस्मिन्मुक्तिपथो मुमुक्षुमुनिभिः सम्प्रार्थितः सम्बभौ
तस्मै भाष्यकृते नमोऽस्तु भगवत्पादाभिधां बिभ्रते ॥ ६ ॥
यत्पादाम्बुजचञ्चरीकधिषणा निर्वाणमार्गाधिगा
पङ्किर्मुक्तनिसर्गदुर्गदुरिता वाचंयमानामियम् ।
यस्मिन्नित्यमिदं शमादि समभूद्बोधाङ्करो मे यतः
शुद्धानन्दमुनीश्वराय गुरवे तस्मै परस्मै नमः ॥ ७ ॥
मातर्नतोऽस्मि भवतीमथ चार्थये त्वां
चेतः सरस्वति परास्य पराञ्चमर्थम् ।
शारीरके महदनुग्रहसम्प्रसन्न-
मेकाग्रमस्तु वचसा सह सम्यगर्थे ॥ ८ ॥
श्रद्धाभक्ती पुरोधाय विधायागमभावनाम् ।
श्रीमच्छारीरके भाष्ये करिष्ये न्यायनिर्णयम् ॥ ९ ॥
नित्याध्ययनविध्युपादापितवेदान्तवचोभिरापाततः प्रतिपन्नं शास्त्रारम्भौपयिकमनुबन्धजातं न्यायतो निर्णेतुं भगवान्बादरायणः सूत्रितवान् ‘अथातो ब्रह्मजिज्ञासा ‘ इति । तत्र प्रमातृत्वादिबन्धस्याध्यासत्वं, धर्ममीमांसया ब्रह्ममीमांसाया गतार्थताभावः, विशिष्टाधिकारिसम्भवः, विषयादिसत्त्वं चेति चत्वारोऽर्थाः सूचिताः । तथाहि - सत्यत्वे बन्धस्य बद्धाबद्धयोर्जीवब्रह्मणोरैक्यानुपपत्तेः, सत्यस्य च ज्ञानादनिवृत्तेः, ज्ञानस्य चाज्ञानमात्रविरोघित्वात् , उत्तरज्ञानस्य च विरोधिगुणतया पूर्वज्ञानादिनिवर्तकत्वात् , विषयप्रयोजनसिद्धिहेतुतया बन्धस्याध्यासता सूचिता । पूर्वसिद्धत्वे वेदान्तविचारस्य विशिष्टाधिकारिणश्चाभावे तं प्रति तत्कर्तव्यतोक्तेरयोगादगतार्थत्वं विशिष्टाधिकारिसम्भवश्च ध्वनितः । त्वमर्थदृष्टबन्धस्यान्यदीयज्ञानादनिवृत्तेः, तदर्थज्ञानमपि तन्निबर्हि त्वमर्थविषयमेवेत्यर्थात्तदैक्यं विषयः सूचितः । मुमुक्षोरथशब्दद्योतितस्य ज्ञानाय विचारविधानात्तत्साध्यज्ञानान्मुक्तिः सूचिता । ब्रह्मज्ञानाय च विचारविधानाद्ब्रह्मणः शक्यप्रतिपाद्यतया वेदान्तैः सम्बन्धोऽपि दर्शितः । तदेतद्भाष्यकृद्यथाक्रमं व्युत्पादयिष्यति । अस्य चाधिकरणस्य प्राथम्यान्नाधिकरणसङ्गातिः । उत्तराधिकरणसङ्गतिस्तु तस्यैवानेनेति नास्योच्यते । विचारविध्यपेक्षितविषयाद्यर्पकश्रुतिभिरस्योत्थानादुत्थाप्योत्थापकत्वं श्रुतिसङ्गतिः । इदं च धर्मजिशासासूत्रवदुपोद्धाततया ‘चिन्तां प्रकृतसिद्ध्यर्थामुपोद्धातं प्रचक्षते ‘ इति न्यायेन शास्त्रेण सम्बध्यते । विचारारम्भोपयोगिनीनामधिकार्यादिश्रुतीनां स्वार्थे समन्वयोक्तेरस्य विशेषतः समन्वयाध्यायसङ्गतिः । स्पष्टब्रह्मलिङ्गानां विषयाद्यर्पकवाक्यानां स्वार्थे समन्वयोक्त्या विशेषतोऽस्याद्यपादेन सम्बन्धः । पूर्वपक्षे विचारानारम्भात्तदधीनज्ञानाभावादुपायान्तरसाध्या मुक्तिः । सिद्धान्ते तु तदारम्भसम्भवात्तदधीनज्ञानसिद्धेस्तेनैव मुक्तिः सिध्यतीति फलभेदः । तच्चेदमधीतिविधिवदन्तर्भूतमेव शास्त्रे तदारम्भकार्यतापरम् । तत्र वेदान्तमीमांसाशास्त्रं विषयस्तदारभ्यमनारभ्यं वेति विषयाद्यसम्भवसम्भवाभ्यां संशयः । प्रामाणिकत्वेन प्रमातृत्वादिबन्धस्य सत्यतया तत्त्वज्ञानानपोह्यत्वात् , बद्धाबद्धयोर्जीवब्रह्मणोरैक्यायोगात् , तदभावे च बन्धाध्वस्तेः बन्धाध्वस्तौ च फलाभावात् , प्राच्या च मीमांसया वेदार्थमात्रोपाधौ प्रवृत्तया गतार्थत्वात् , फलेच्छावतोऽधिकारीणोऽपि तुच्छत्वात् , तद्विशेषणानां चदुर्वचत्वात् , ब्रह्मणः प्रसिद्धत्वे विषयप्रयोजनयोरनुपपत्तेः, अप्रसिद्धत्वे सम्बन्धप्रयोजनयोरसिद्धेः, तस्य च निःसामान्यविशेषत्वात् , असम्भावितविषयादिकमनारभ्यं शास्त्रमिति पूर्वपक्षः । प्रमातृत्वादेर्व्यावहारिकमानसिद्धत्वेऽपि तात्त्विकमानासिद्धतया तथाविधमानजनितबोधबाधाविरोधादुक्तविषयादिप्रतिलम्भात् , धर्ममीमांसायाश्च वेदार्थैकदेशधर्ममात्रोपहिततया ब्रह्मास्पर्शितया तन्मीमांसया गतार्थतानवकाशात् , अध्यक्षाद्यधिगतमिथ्याभावस्य बन्धस्य ज्ञाननिवर्त्यतया तन्निवृत्तिकामस्याधिकारिणः सुलभत्वात् , विशेषणानां च विवेकादीनामतीते वर्तमाने वा जन्मनि कृतसुकृतजनितचित्तप्रसादासादितानामनुमानागमाधीनतया सुवचत्वात् , ब्रह्मणश्च ब्रह्मपदादात्मत्वाच्चा सिद्धावपि विचारं विना मानादसिद्धेः, अनन्यलभ्यतया विषयत्वात् , तदवगतेश्च फलत्वात् , अत्यन्तासिद्ध्यभावाच्च, शक्यप्रतिपाद्यतया सम्बन्धादिसिद्धेरारोपितसामान्यविशेषभावमादाय तदीयविषयत्वस्य प्रतिपाद्यत्वात् उक्तविषयादिमदिदं शास्त्रमारभ्यमिति सिद्धन्तः । तदिदं हृदि निधाय वेदान्तमीमांसाशास्त्रं व्याख्यातुकामो भगवान्भाष्यकारः शास्त्रारम्भार्धमाद्यसूत्रेणार्थतः सूचितं विषयादि वदितुं विरोधिनो बन्धस्याध्यासत्वं लक्षणसम्भावनासद्भावप्रमाणैः सिषाधयिषुरादावध्यासमाक्षिपति —
युष्मदस्मत्प्रत्ययगोचरयोः
इत्यादिनामिथ्येति भवितुं युक्तम्
इत्यन्तेन भाष्येण ।अर्थाच्च ‘सुतरामितरेतरभावानुपपत्तिः’ इत्यन्तेनानुपप्लुतं चिन्मात्रमात्मानमनुसन्दधानस्तत्त्वानुस्मरणं मङ्गलाचरणं विघ्नोपशमनाद्यर्थं सम्पादयति ।
चैत्रे मैत्रोऽयमिति भ्रान्तिरन्यत्रैक्यप्रमित्यपेक्षा संस्कारजन्यत्वात् , तत्प्रमितिश्चैक्यकृतेत्यात्मानात्मनोरैक्याध्यासेऽपि तत्प्रमित्यादेर्वक्तव्यतां मन्वानस्तयोरैक्याभावेऽपि त्रिविधं विरोधं हेतुमाह —
युष्मदस्मत्प्रत्ययगोचरयोरिति ।
न च ‘प्रत्ययोत्तरपदयोश्च’ इति सूत्रे प्रत्यये चोत्तरपदे च परतो युष्मदस्मदोरेकार्थवाचिनोर्मपर्यन्तस्य त्वमावादेशावित्युक्तत्वात्त्वत्पुत्रो मत्पुत्र इतिवत्त्वन्मत्प्रत्ययगोचरयोरिति स्यादिति युक्तम् । ‘त्वमावेकवचने’ इति सूत्रादेकार्थाभिधायिनोर्युष्मदस्मदोर्मपर्यन्तस्य स्थाने त्वमावादेशौ भवत इति व्याख्यानादेकवचन इत्यधिकारादत्र च युष्मदस्मदोरेकार्थवाचित्वस्याविवक्षितत्वात् । युष्मदस्मद्ग्रहणाविरोधादस्मदर्थे साक्षिणि नभोवदौपाधिकं बहुत्वम् । न चैवं यौष्माकीणमित्यादाविव बहुवचनमनुसृत्य विगृह्येत विरोधोक्त्यनुगुणतया यथा तथा विग्रहेऽपि निवारकाभावात् । युष्मदस्मत्पदयोश्चेतनाचेतनार्थत्वादात्मानात्मवैलक्षण्यार्थमिदमस्मत्प्रत्ययगोचरयोरिति वक्तव्येऽपि युष्मद्ग्रहणमत्यन्तभेदोपलक्षणार्थम् । न हि त्वङ्कारवदिदङ्कारस्याहङ्कारप्रतियोगित्वम् , एते वयमिमे वयमित्यादिप्रयोगात् । न च यूयं वयं वयमेव यूयमितिवदौपचारिकत्वम् , तत्र तथात्वाभिमानवत्प्रकृते तदभावात् । मुख्यामुख्ययोरादौ मुख्योपनिपातादस्मदर्थस्य च मुख्यत्वात्प्रथममस्मद्ग्रहणप्रसक्तावपि युष्मदर्थादनात्मनो निष्कृष्य शुद्धस्य चिद्धातोरध्यारोपापवादन्यायेन ग्रहणं द्योतयितुमादौ युष्मद्ग्रहणम् । तत्र युष्मदस्मदिति प्रत्यक्पराक्त्वेनात्मानात्मनोः स्वभावविरोधः सूच्यते । युष्मच्छब्देनाहङ्कारादिरस्मच्छब्देन तत्साक्षी गृह्यते । तयोरेव प्रत्ययपदेन स्फुरणतया तद्वत्त्वेन प्रतीतितो विरोधो द्योत्यते । तत्रानात्मा प्रतीतिव्याप्यत्वात् , आत्मा च प्रतीतित्वात्प्रत्ययस्तयोर्व्यवहारतो विरोधो गोचरशब्दार्थः । युष्मदर्थो हि कौटस्थ्यादिस्वभावात्मतिरस्कारेण सक्रियत्वादिनास्मदर्थोऽपि ब्रह्मास्मीत्यहङ्कारादिविलापेन पूर्णतया व्यवह्रियते । युष्मच्चास्मच्च युष्यदस्मदी ते एव प्रत्ययौ तावेव गोचरौ तयोस्त्रिविधविरोधभाजोरन्यत्रैक्यायोगान्न तत्प्रमितिरित्यर्थः ।
ऐक्यासंस्कारादतदध्यासेऽपि तादात्म्यसंस्कारादिदं रजतमितिवत्तदध्यासः स्यादित्याशङ्कय, तस्यापि तत्प्रमितिपूर्वकत्वात्तस्याश्च तादात्म्यापेक्षत्वादात्मानात्मनोस्तदभावान्नेति मत्वा तयोस्तादात्म्याभावे हेतुमाह —
विषयविषयिणोरिति ।
ऐक्याभावेऽपि जात्यादौ तादात्म्यादपौनरुक्त्यम् । नित्यानुभवविषयो युष्मदर्थो विषयो, त्वस्मदर्थो नित्यानुभवस्तयोर्दाह्यदाहकवन्मिथो विरुद्धयोर्जातिव्यक्तित्वादेरभावान्न तादात्म्यमित्यर्थः ।
उक्ताद्धेतोः सिद्धमभेदासम्भवं सदृष्टान्तमाह —
तमःप्रकाशवदिति ।
न खल्वनयोरभेदः । न च तयोर्भावाभावत्वेन तदभावः, तमसोऽपि गुणवत्त्वादिना भावत्वात् । तथात्मानात्मनोरपि मिथो विरुद्धयोर्नाभेदोऽस्तीत्यर्थः । विमतौ नाभिन्नतया प्रमितौ मिथो विरुद्धत्वात्तमःप्रकाशवदिति ।
विरोधफलमाह —
इतरेतरेति ।
इतरस्येतरभावो नामेतरेतरत्वमैक्यमितरस्मिन्नितरभावस्तादात्म्यं तयोरप्रतीतावुक्तन्यायप्राप्तायां तत्संस्कारासिद्धिः ।
नन्वात्मानात्मनोरितरेतरभावाभावेऽपि तद्धर्माणां चैतन्यजाड्यादीनामितरेतरत्र भावः स्यात् । दृश्यते हि पुष्पपुटिकादौ पुष्पाभावेऽपि तद्धर्मगन्धानुवृत्तिः । तथा चेतरेतरत्रेतरेतरधर्मप्रमित्या तत्संस्कारात्तदध्यासः सिध्यतीति । नेत्याह —
तद्धर्माणामपीति ।
तयोरात्मानात्मनोर्धर्माश्चैतन्यजाड्यादयः, तेषामितरेतरत्र न भावः, मिथो विरुद्धयोर्धर्मिणोर्धर्माणामितरेतरत्र भावस्यादृष्टत्वात् , तेषां धर्मितादात्म्याच्चोक्तविरोधभाक्त्वात् , धर्मिणमतिक्रम्य च तद्धर्माणामगमनात् । नहि गन्धोऽपि विना धर्मिणं पुष्पपुटिकादौ दृश्यते, सूक्ष्मेण स्वाश्रयेण सहैवोपलम्भादन्यथा गुणत्वव्याघातात् । उत्क्रान्त्यधिकरणे चैतद्वक्ष्यति । तस्मात्तद्धर्माणामपि नेतरेतरत्र सत्त्वप्रमेत्यर्थः ।
तथाप्यात्मानात्मनोरन्योन्यात्मकताध्यासस्य च किमायातमित्याशङ्क्याह —
इत्यत इति ।
इतिशब्देनाभेदप्रमित्यभावो हेतुरुक्तः । तत्फलमभेदसंस्काराभावोऽतःशब्दार्थः ।
यदात्मनो मुख्यं प्रत्यक्त्वं प्रतीतित्वमहङ्कारादिविलापनेन ब्रह्मास्मीति व्यवहार्यत्वं चोक्तं तदयुक्तम् , अहमितिप्रतीयमानत्वादहङ्कारवदित्याशङ्क्य संस्काराभावफलमध्यासाभावं वक्तुमधिष्ठानस्वरूपमाह —
अस्मत्प्रत्ययगोचर इति ।
अहंवृत्तिव्यङ्ग्यस्फुरणत्वं तद्वत्त्वं वा हेतुः । आद्ये साधनविकलो दृष्टान्तो, द्वितीये त्वसिद्धिः । अतोऽनुमानायोगादात्मनो युक्तं मुख्यं प्रत्यक्त्वादीत्यर्थः ।
यदात्मनो विषयित्वं तन्न, अनुभवामीति व्यवहृतत्वादहङ्कारवदित्याशङ्क्याह —
विषयिणीति ।
अनुभवामीति व्यवहृतत्वं तद्वाच्यत्वं, तल्लक्ष्यत्वं वा । नाद्यः, असिद्धेः । नेतरः, हेतुवैकल्यात् । अतो युक्तं विषयित्वमित्यर्थः ।
अहङ्कारस्य देहं जानामीति विषयित्वेऽपि मनुष्येऽहमित्यभेदाध्यासवदिहापि स्यादित्याशङ्क्याहङ्कारदेहयोर्जाड्यादिना तुल्यत्वादभेदाध्यासेऽपि चित्त्वेनात्मत्वेन वाऽजडेऽनवच्छिन्ने प्रतीचि तद्विपरीताध्यासो न सिध्यतीत्याह —
चिदात्मकइति ।
दीपादेर्विषयित्वेऽपि चिदात्मकत्वाभावादपुनरुक्तिः ।
अहमिति प्रथाविशेषादात्मवदहङ्कारस्यापि मुख्यप्रत्यक्त्वादियोगादयुक्तं पराक्त्वादीत्याशङ्क्याह —
युष्मदिति ।
अहङ्कारतत्साक्षिणोरहमित्येकरूपप्रथानङ्गीकारादहङ्कारादेः प्रातीतिकप्रत्यक्त्वादिभावेऽपि पराक्त्वाद्येव मुख्यमित्यर्थः ।
अहङ्कारादेर्बन्धत्वेनानर्थतया हेयत्वं सूचयति —
विषयस्येति ।
तस्मादध्यासो मिथ्येति सम्बन्धः ।
मा भूदात्मन्यनात्माध्यासः, तद्धर्माणां तु जाड्यादीनां तस्मिन्नध्यासः स्यादित्याशङ्क्याह —
तद्धर्माणां चेति ।
न हि धर्मा धर्मिणमतिक्रमन्ते । नरविषाणादिधीवदात्मनि वैकल्पिकी जाड्यादिधीरित्यर्थः ।
आत्मनो मुख्यप्रत्यक्त्वादिभाक्त्वादनात्मतद्धर्माध्यासानधिष्ठानत्वेऽपि तद्वैपरीत्यादहङ्कारादेरात्मतद्धर्माध्यासाधिष्ठानत्वं स्यादित्यशङ्क्याह —
तद्विपर्ययेणेति ।
अहङ्कारादौ जडे विषये ततो विपर्ययश्चैतन्यं तेनात्मना विषयिणश्चिदात्मनो योऽध्यासः स मिथ्येत्यन्वयः ।
नन्वनात्मन्यात्मानध्यासेऽपि तद्धर्माणामनुभवादीनां बुद्ध्यादावध्यासः स्यात् । नभसो ध्वन्यभेदानध्यासेऽपि तद्भेदानां वर्णानां ह्रस्वो दीर्घो वेति ध्वनिविशेषेऽप्यध्यासदर्शनादित्यत आह —
तद्धर्माणां चेति ।
अनुभवादीनां बुद्धिवृत्त्युपाधौ तत्तन्त्रतया भानादुपचारात्तद्धर्मत्वम् । युक्तो वर्णानां ध्वनिभेदेष्वध्यासो जाड्यादिना तुल्यात्वादत्मधर्मत्वाभिमतानामनुभवादीनां चिद्रूपात्ततो भेदाभावान्न जडे बुद्ध्यादावध्यासोऽतुल्यत्वादित्यर्थः । अध्यासो नामान्यस्मिन्नन्यरूपताधीः स मिथ्येत्यविद्यमानतोच्यते । अर्थाध्यसो ज्ञानाध्यासश्चेत्यध्यासयोर्नास्तित्वं वक्तुं द्विरध्यासवचनम् ।
आक्षेपमुपसंहरति —
इतिभवितुमिति ।
इति युक्तमिति वक्तव्ये भवितुमित्याक्षेपस्य सम्भावनैव मूलं न मानमिति दर्शयितुमुक्तम् । तदेवं मातृत्वादिबन्धस्य वस्तुतया विषयाद्यभावादनारभ्यमिदं शास्त्रमित्याक्षेप्तुर्विवक्षितम् ।
अध्यासस्य नास्तित्वमयुक्तत्वादभानाद्वेति विकल्प्याद्यमङ्गीकरोति —
तथापीति ।
द्वितीयं प्रत्याह —
अयमिति ।
मनुष्योऽहमिति प्रतीतेरध्यासस्वरूपापलापायोगात् , अस्याश्च देहातिरिक्तात्मवादे प्रमात्वाभावात् , तदनुरूपं कारणं कल्प्यमिति भावः ।
अपरोक्षमध्यासं द्वेधा विभजन्विशेष्यं निर्दिशति —
लोकव्यवहार इति ।
लोक्यते मनुष्योऽहमिति ज्ञायत इति ज्ञानोपसर्जनोऽर्थाध्यासः, लोकविषयो व्यवहार इत्यर्थोपसर्जनो ज्ञानाध्यासश्चोक्तः ।
कोऽयमध्यासो यो विषयादिसिद्धिहेतुरित्याशङ्क्य तल्लक्षणमाह —
अन्योन्यस्मिन्
इत्यादिनाधर्मधर्मिणोः
इत्यन्तेन ।तत्रान्यस्मिन्नन्यावभास इत्युक्ते प्रतिमायां देवतादृष्टिरपि भ्रान्तिः स्यात्ततो विशिनष्टि —
अन्योन्यस्मिन्निति ।
तत्र देवतादृष्टिमात्रमारोप्यं न प्रतिमादृष्टिः ‘ब्रह्मदृष्टिरुत्कर्षात् ‘ इति न्यायात् । पटे तन्तवः स च तन्तुष्विति लोकवादिदृष्ट्या तन्तुपटयोरन्योन्याधारत्वधियोऽध्यासत्वप्राप्तावुक्तम् —
अन्योन्यात्मकतामिति ।
पटः शुक्लः शुक्लः पट इति प्रमाव्यावृत्त्यर्थमितरेतराविवेकेनेति । इत्थम्भावे तृतीया । स्वरूपविवेकतिरस्कारेणाभेदधीरध्यासो नैवं शुक्लपटादिधीरित्यर्थः ।
स एवायमयमेव स इत्यैक्यप्रमां प्रत्याह —
विविक्तियोर्धर्मधर्मिणोरिति ।
औपाधिकभेदाभासतिरस्कारेण प्रत्यभिज्ञायामैक्यं प्रमीयते विवेक्तयोर्धर्मिणोर्विवेकं तिरस्कृत्यैक्यधीभ्रान्तिरित्यर्थः ।
प्रत्यभिज्ञानेऽपि कालद्वयवैशिष्ट्यादस्ति विविक्ततेति विविक्तपदस्यातद्व्यावर्तकत्वमाशङ्क्याह —
अत्यन्तेति ।
आत्मनो बुद्ध्यादेश्च स्वच्छत्वादिना साम्यात् , अत्यन्तविवेकासिद्धिमाशङ्क्य जडत्वाजडत्वयोस्तद्धर्मयोरत्यन्तविवेकाद्धर्मिणोरपि तत्सिद्धिरित्याह —
अत्यन्तविविक्तयोर्धर्मधर्मिणोरिति ।
उक्तरूपयोर्धर्मधर्मिणोरन्योन्यस्मिन्नन्योन्यात्मकतारूप इतरेतराविवेकात्मकोऽध्यास इति समुदायार्थः । अन्योन्यधर्मांश्चेति पृथक्कथनमन्धोऽहमित्यादौ धर्माध्यासे प्राधान्यसूचनार्थम् ॥
नन्वितरेतराविवेकार्थं द्वयोः स्वरूपतिरस्कारे कथमन्योन्यस्मिन्निति लक्षणांशसिद्धिः, तत्सिद्धये द्वयोः स्वरूपोपस्थितौ कथमविवेकोपपत्तिरत आह —
सत्येति ।
सत्यमनिदं चैतन्यम् , तस्य संसृष्टरूपेणाध्यस्तत्वेऽपि स्वरूपेणानध्यस्तत्वात् । अनृतमहङ्कारादिः, स्वरूपतोऽप्यध्यस्तत्वात् । तदुभयमिथुनीकरणरूपोऽध्यास इति यावत् । असत्यसर्पस्य सत्यरज्ज्वां तन्मात्रतया निमज्जनवत् , असत्याहङ्कारादेः सत्यचिन्मात्रतया निमञ्जनादेकत्वधीः, सत्यासत्ययोरात्मानात्मनोस्तर्कतो विविच्यमानत्वात् , अन्योन्यस्मिन्निति लक्षणांशश्च सम्भवतीति भावः ॥
किं पुनरध्यासस्य कारणमित्याशङ्क्य निमित्तमात्रमुपादानं वा निमित्तविशेषो वा पृच्छ्यत इति विकल्प्याद्यौ प्रत्याह —
मिथ्येति ।
मिथ्या च तदज्ञानं च तन्निमित्तमुपादानं यस्य सोऽध्यासस्तथा । तत्र मिथ्येत्युक्ते भ्रान्तिज्ञानप्राप्तावज्ञानमित्युक्तम् । तन्मात्रग्रहे ज्ञानाभावशङ्कायां मिथ्येति । तेनानिर्वाच्यत्वेनाभावविलक्षणं ज्ञाननिवर्त्यमनाद्यज्ञानम् । तदुपादानोऽध्यास इत्यर्थः । एतदेवाज्ञानं संस्कारकालकर्मादिरूपेण परिणतमध्यासनिमित्तमिति वक्तुं निमित्तग्रहणम् ।
निमित्तविशेषप्रश्नं प्रतिवक्ति —
नैसर्गिक इति ।
प्रत्यक्चैतन्यसत्तामात्रानुबन्धी । प्रवाहरूपेणानादिरिति यावत् । न च प्रवाहरूपस्य प्रवाहिव्यतिरेकिणोऽसत्त्वात् , प्रवाहिव्यक्तीनां च सादित्वात्व, कुतो नैसर्गिकत्वमिति वाच्यम् , प्रवाहिव्यक्तीनामन्यतमव्यक्त्या विना पूर्वकालानवस्थानं कार्येष्वनादितेत्यभ्युपगमात् । यद्वा कारणरूपेणास्यानादित्वम् , कार्यात्मना नैमित्तिकत्वमित्युभयमविरुद्धम् । अध्यस्य मिथुनीकृत्येति क्त्वाप्रत्ययः, नाध्यासस्य पूर्वकालत्वमन्यत्वं च लोकव्यवहारादङ्गीकृत्य प्रयुक्तः लोकव्यवहारस्याध्यासतया क्रियान्तरत्वाभावात् । अतो वस्तुतोऽपौर्वापर्येऽपि विशेषणभेदेन कल्पितभेदं, वस्तुतत्प्रतिपत्तिक्रमेण पौर्वापर्यं च ।
तदालम्बनमनुभवं द्रढयितुमध्यासमभिनयति —
अहमिति ।
तत्राहमिति कार्याध्यासेष्वाद्योऽध्यासः, तस्याध्यासत्वं चिदचिदात्मत्वात् । इदमिति भोक्तुर्भोगसाधनं - कार्यकरणसङ्घातः, ममेदमित्यहङ्कर्त्रा स्वत्वेन तस्य सम्बन्धः, तयोश्चेदं ममेदमिति दृष्टयोरध्यस्तत्वमध्यस्तभोक्तशेषत्वात् , स्वप्नादावध्यस्तराजोपकरणवत् । तदेवं पूर्वभाष्योक्तरीत्या युक्तिशून्योऽपि, अत्यन्तविविक्तयोरित्यादिना लक्षितः, सत्यानृतमिथुनीकरणरूपत्वेन सम्भावितः, विशिष्टकारणप्रसूतः, नैसर्गिकत्वादागन्तुकदोषानपेक्षः, अहमिदमित्यादिप्रकारैनिरूपितप्रतिभासत्वेन प्रत्यक्षत्वात् , ज्ञेयाध्यासो ज्ञानाध्यासश्चाशक्योऽपह्नोतुमित्यसत्यत्वाद्बन्धस्य, विषयादिसम्भवादारभ्यमिदं शास्त्रमित्यभिसन्धिः ।