सूत्रमुत्तरम् —
हेयत्वेति ।
तद्व्याख्यातुं हेयत्वोक्तिं प्रतियोगिनीं प्रसञ्जयति —
यदीति ।
ऐक्यमुक्त्वा तन्निराकरणं पङ्कप्रक्षालनमनुसरतीत्याशङ्क्य परोक्तं दृष्टान्तेन प्रत्याह —
यथेति ।
प्रतियोगिप्राप्तिमुक्त्वा तन्निषेधसूत्रार्थमाह —
न चेति ।
तत्र हेतुः —
सन्मात्रेति ।
अनृतजडशक्तिशबले सति ‘तत्सत्यम् ‘ इति सत्यत्वविधानादसत्याकारं, ‘स आत्मा’ इति चिद्रूपत्वविधानाज्जडाकारं च बाधित्वा सत्यैकरसचिदात्माकारा याऽपरोक्षप्रमितिस्तन्निष्ठत्वेनैव छान्दोग्ये षष्ठसमाप्तिदर्शनात्प्रकृतसदात्मत्वाप्रत्याख्यानात् ‘तत्त्वमसि ‘ इत्यमुख्यात्मत्वोक्तिरयुक्तेत्यर्थः ।
पूर्वात्तरहेत्वोः सम्भूयाप्रमापकत्वे कृतं चकारेणेत्याशङ्क्याह —
चशब्द इति ।
हेयत्वावचनादेव प्रधानस्य निरासे किं प्रतिज्ञाविरोधोक्त्येत्याशङ्क्य हेयत्वोक्तिमुपेत्य चकारार्थं स्फुटयति —
सत्यपीति ।
प्रसङ्गं प्रकटयितुं प्रतिज्ञास्वरूपमाह —
कारणेति ।
हे श्वेतकेतो, तमप्यादेशमादिश्यत इत्यादेशं शास्त्राचार्योक्तिगम्यं वस्त्वप्राक्ष्यः पृष्टवानसि त्वमाचार्यम् । येन श्रुतेन शास्त्रतोऽन्यदश्रुतमपि श्रुतं भवति । येन मतेन तर्कतोऽन्यदमतमपि मतम् । येन विज्ञातेनान्यदविज्ञातमपि विज्ञातम् । न तु श्रोतव्यादि शिष्टमिति पितृवाक्यस्यार्थः ।
अन्यज्ञानादन्यन्न ज्ञेयमिति पुत्रो ब्रूते —
कथं न्विति ।
नान्यत्वं कार्यस्य कारणादित्याह —
यथेति ।
ज्ञाते मृत्पिण्डे कुतस्तद्विकारधीरित्याशङ्क्याह —
वाचेति ।
यो विकारः स वागालम्बनमुच्यते परं न वस्तुतोऽस्तीत्यर्थः ।
तत्र हेतुः —
नामधेयमिति ।
नाममात्रं नार्थोऽस्ति चेत्तर्हि घटादिवदसत्यत्वसम्भवात्कारणस्यापि कथं सत्यतेत्याशङ्क्याह —
मृत्तिकेति ।
उक्तदृष्टान्तादाकाशादेरपि मृषात्वात्कारणस्य सन्मात्रस्यैव सत्यत्वात्तज्ज्ञाने ज्ञातव्यशेषो नेति दार्ष्टान्तिकमाह —
एवमिति ।
कार्यस्य कारणमात्रत्वोपगमात्परस्यापि प्रतिज्ञासिद्धिरित्याशङ्क्याह —
नचेति ।
प्रतिज्ञाविरोधफलमाह —
तस्मादिति ॥ ८ ॥